पूर्वम्: ६।१।२४
अनन्तरम्: ६।१।२६
 
सूत्रम्
प्रतेश्च॥ ६।१।२५
काशिका-वृत्तिः
प्रतेश् च ६।१।२५

श्यः इति वर्तते। प्रतेरुत्तरस्य श्यायतेर् निष्ठायां परतः सम्प्रसरणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्याम् अन्यत्र अपि यथा स्यातिति सूत्रारम्भः।
न्यासः
प्रतेश्च। , ६।१।२५

बाल-मनोरमा
प्रतेश्च ८३१, ६।१।२५

प्रतेश्च। द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम्। प्रतिशीन इति। प्रतिगत इत्यर्थः। अत्र "श्योऽस्पर्शे" इति नत्वम्।