पूर्वम्: ६।१।२५
अनन्तरम्: ६।१।२७
 
सूत्रम्
विभाषाऽभ्यवपूर्वस्य॥ ६।१।२६
काशिका-वृत्तिः
विभाषा ऽभ्यवपूर्वस्य ६।१।२६

श्यः इति वर्तते। अभि अव इत्येवं पूर्वस्य श्यायतेर् निष्थायां विभाषा सम्प्रसारणम् भवति। अभिशीनम् अभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्तिस्पर्शविवक्षायाम् अपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम् , अवश्यानमुदकम्। सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनम्, सम्भिश्यानं, समवश्यानम् इत्यत्र मा भूतिति केचिद् व्यचक्षते , नकिलायम् अभ्यवपूर्वः समुदायः इति यो ऽत्र अभ्यवपूर्वः समुदायस्तदाश्रयो विक्लपः कस्मान् न भवति? तस्मातत्र भवितव्यम् एव। यदि तु न इष्यते ततो यत्नानतरमास्थेयम् अस्माद् विह्बाषाविज्ञानात्। व्यवस्थेयम्। पूर्वग्रहणस्य च अन्यत् प्रयोजनं वक्तव्यम्
न्यासः
विभाषाऽभ्यवपूर्वस्य। , ६।१।२६

"सेयमुभयत्र विभाषा" इति। द्रवमूर्त्तिस्पर्शविषये पूर्वेण प्राप्ते, अन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्(), न "विभाषाऽभ्यवाभ्याम्()" इत्येवोच्येत? अत आह--"पूर्वग्रहणस्य" इत्यादि। क्रियमाणे पूर्वग्रहणे कस्मादेवात्र न भवतीत्याह--"न किल" इत्यादि। अयं हि द्विविधोऽपि समुदायो नाभिपूर्वः; नाप्यवपूर्वः, किं तर्हि? सम्पूर्वः। तेन पूर्वग्रहणादत्र न भवति। क्रियमाणेऽपि पूर्वग्रहणे प्राप्नोत्येवेति मन्यमानः किलशब्दमरुचिसूचनार्थं प्रयुक्तवान्()। तामेव प्राप्ति दर्शयन्नाह--"योऽत्र" इत्यादि। समूशब्दात्? परो यो धातूपसर्गसमुदायस्तदाश्रयो विकल्पः कस्मान्न भवति, भवति ह्रसावब्यवपूर्व इत्यस्ति प्राप्ति? अत आह--"यत्नान्तरमास्थेयम्()" इति। विभाषाग्रहणमिह क्रियते, सा च व्यवस्थितविभाषा विज्ञायते, तेनेह न भवतीति यतनान्तरम्()। "पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यम्()" इति तत्? पुनरभिसंशीनम्(), अभिसंश्यानम्(), अवसंशीनम्(), अवसंश्यानम्()--इत्यत्रापि विकल्पो यथा स्यादित्येवं तद्वेदितव्यम्()। एतच्च पूर्वग्रहणए क्रियमाणे यतोपपद्यते तथा "स्त्यः प्रपूर्वस्य" ६।१।२३ इत्यत्र "प्रपूर्वस्येति षष्ठ()र्थे बहुव्रीहिः" इत्य#आदिना व्याख्यातम्()॥
बाल-मनोरमा
विभाषाऽभ्यवपूर्वस्य ८३२, ६।१।२६

विभाषा। "श्यैङ" इति शेषः। संप्रसारणं वा स्यादिति। शेषपूरणमिदम्। द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम्। अभिश्यानं घृतमिति। अत्र द्रवमूर्तौ संप्रसारणविकल्पः। अवश्यानः अवशीनो वृश्चिक इति। अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः। समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽ‌ऽह - व्यवस्थितेति।