पूर्वम्: ६।१।२६
अनन्तरम्: ६।१।२८
 
सूत्रम्
शृतं पाके॥ ६।१।२७
काशिका-वृत्तिः
शृतं पाके ६।१।२७

विभाषा इत्यनुवर्तते। श्रा पाके इत्येतस्य धातोः ण्यन्तस्य अण्यन्तस्य च पाके ऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा। शृतं क्षीरम्। शृतं हविः। व्यवस्थितविभाषा च इयम्, तेन क्षीरहविषोर् नित्यं शृभावो भवति, अन्यत्र न भवति श्राणा यवागूः श्रपिता यवागूः इति। यदा अपि बाह्ये प्रयोजके द्वितीयो णिचुत्पद्यते तदा अपि निष्यते, श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन इति। श्रातिरयम् अकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तः अपि प्राकृतं पच्यर्थमाहुः। तदत्र द्वयोरपि शृतम् इति इष्यते। शृतं क्षीरं स्वयम् एव। शृतं क्षीरं देवदत्तेन। पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव।
न्यासः
श्रुतं पाके। , ६।१।२७

""श्रा पाके" इत्यस्य धातोः" इति। "श्रा पाके" (धा।पा।१०५३) इत्यदादौ पठ()ते घटादौ (धा।पा।८१०) च मित्संज्ञार्थम्()। कैश्चिच्चुरादावपि, "श्रै पाके" (धा।पा।९१९) इति भ्वादौ, तत्रेहाविशेषेण ग्रहणं प्राप्तम्()। श्रायतेरपि हि कृतात्त्वस्यैतद्रूपं भवत्येव। निपातनाच्च लक्षणप्रतिपदोक्तपरिभाषा (व्या।प।३) प्रतिबन्धं न करोति। "णन्तस्याण्यन्तस्य च" इति। विशेषानुपादानात्()। तथा चोक्तम्()--श्राश्रप्योः श्रृतमिति। यदि विभाषेत्यनुवत्र्तते क्षीरहविषोरपि पक्षे श्राणम्(), श्रपितमिति स्यात्(); ताभ्यामन्यत्रापि पक्षे श्रृतमिति प्रसज्येत? इत्यत आह--"व्यवस्थितविभाषेयम्()" इति। "यदापि" इत्यादि। प्रयोजकव्यापारः प्रेषणाध्येषणादिः कार्ये कारणोपचारं कृत्वा प्रयोजकशब्देनोक्तः। स हि प्राकृतादर्थाद्बाह्रो भवति, तत्र तस्यानन्तर्भावात्()। तत्र यदा "हेतुमति च" ३।१।२६ इति द्वितीयो णिजुत्पद्यते, तदापि क्षीरहविषोरपि निपातनमेतन्नेष्यते; व्यवस्थितविभाषाविज्ञानादेव। तथा चोक्तम्()--श्रपेः शृतमन्यत्र हतोरिति। हेतुमाण्णिचोऽन्यत्रेत्यर्थः। द्वितीयग्रहणं यदैकमेव भवति, तदेष्टत्त्वाच्? श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति तत्प्रयोजको हेतुश्च" १।४।५५ इति चकाराद्देवदत्तयज्ञदत्तयोः कर्त्तृ संज्ञाविधानादुभयत्रापि कत्र्तरि तृतीया। "श्रपितम्()" इति। श्रातेर्णिच कृते "अर्त्तिह्यी" ७।३।३६ इत्यादिना पुक्(), "मितां ह्यस्वः" ६।४।९२ क्षीरं स्वयमेव श्राति स्म--तद्यदा देवदत्तदेन प्रयुज्यते स्म तदा "हेतुमति च ३।१।२६ इति प्रथमो णिच्()। सोऽपि श्रपयन्? यदा यज्ञदत्तेन प्रयुज्यते स्म तदा द्वितीयः। "णेरनिटि" ६।४।५१ इति पूर्वस्य णेर्लोपः, ततः क्षीरे प्रयोज्ये कर्मणि निष्ठा--श्रृतमिति। "ण्यन्तस्याण्यान्तस्य च निपात्येते" इति प्रतिज्ञाते सति युक्तं ण्यन्तस्याप्येतन्निपातनम्()--येषां श्रातिश्चुरादावपि पठ()ते इत्यभ्युपगमः। ये तु चुरादावस्य पाठं न प्रतिजानते तेषां कथं ण्यन्तस्येतन्निपातनं युज्यते, न च शक्यते वक्तुम्()--तेषामपि हेतुमण्ण्यन्तरयैतन्निपातनं युज्यते; "श्रपेः शृतमन्यत्र हेतौः" इति भाष्यकारवचनादिति यश्चोदयेत्(), तं प्रत्याह--"श्रातिरयम्()" इत्यादि। कर्मभावापन्नेऽपि योऽर्थः सौकय्र्यात्? स्वातन्त्र्येण विवक्ष्यते स कर्मकत्र्ता, कर्म कर्ता भवतीति कृत्वा। कर्म चासौ कत्र्ता चेति विशेषणसमासः, स यस्य विषयः स कर्मकर्त्तृविषयः। अर्थद्वारकं चेदं विशेषणं पचेः कर्मकर्त्तृविषयत्वं वेदितव्यम्()। तस्य योऽर्थः पच्यमानकर्त्तृकत्वं विक्लेदनमात्रं तत्रायमकर्मकः--श्रातिर्वत्र्तते। यदा तु स ण्यन्तो भवति तदा प्राकृतं पच्यर्थमाह। प्रकृतौ भवः प्राकृतः, स पुनर्यः प्रकृत्यन्तस्य पचेरर्थः पक्तृकर्त्तृको विक्लेदनोपसंहारादिः स इह वेदितव्यः। देवदत्तादिपक्तृकर्तृकं प्राकृतं पाकाख्यं पच्यर्थमाहेत्यर्थः। तत्र द्वयोरपि शृतमिष्यत इति योऽण्यन्तः श्रातिः कर्मकर्तृविषयेण पचिना समानार्थस्त्रत्रापीष्यते। योऽपि ण्यन्तः प्राकृतं पच्यर्थमाह तत्रापीष्यते। तत्र शृतं क्षीरं स्वयमेवेति प्रथमस्योदाहरणम्()। शृतं क्षीरं देवदत्तेनेति द्वितीयस्य। ननु च "श्रपेः शृतमन्यत्र हेतोः" इति भाष्ये उक्तम्(), तत्? कथं द्वयोरपीष्यते? एवं मन्यते--यदिदं भाष्ये उक्तम्()--"श्रपेः शृतमन्यत्र हेतोः" इति, तत्र "अन्यत्र हेतोः" इत्यनेन सर्वस्य हेतुमण्णिचः पर्युदासो न विधित्सितः अन्यथा विप्रतिषिद्धमिदं स्यात्(), असति हि श्रातेश्चुरादौ पाठे यदि श्रपेः शृतमिति निपात्यते, कथमन्यत्र हेतोरिति पर्युदासः! अथान्यत्र हेतोरिति पर्युदासो न तर्हि श्रपेः शृतमिति निपातनमुपपद्यते। न हि श्रातेश्चुरादावसत पाठे श्रातेर्हेतुमण्णिचं त्यत्क्वाऽन्यस्ततो णिजस्ति। तस्माद्यस्य हेतुमण्णिचो न केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते स एव भाष्यकारस्य पर्युदासविषयत्वेनाभीष्टः। स पुनर्यो बाह्रे प्रयोजके द्वितीयो णिजुत्पद्यते स विज्ञेयः। यस्य तु केनचित्? प्रकारेण स्वार्थिकत्वमुपपद्यते, स एव भाष्यकारस्य पर्युदासविषयत्वेन न प्रकल्प्यते, तस्यैतन्निपातनमिष्टमेव। स पुनर्यस्मिन्नुत्पन्ने श्रातिः प्राकृतं पच्यर्थमाह स विज्ञेयः, शक्यते हि तस्य पचिना प्रकृत्यर्थेन समानार्थत्वात्? स्वार्थिकत्वमुपचारेणाभिधातुमिति। तदेवमिह पाठेऽपि चुरादौ श्रातेण्र्यन्तस्याप्येतन्निपातनं युज्यत एवेति॥
बाल-मनोरमा
शृतं पाके ८७४, ६।१।२७

शृतं पाके। "श्रा पाके" घटादिः। तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः। श्रातिश्रपयत्योरिति। अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः। क्षीरहविषोरिति। एतच्च वार्तिकाल्लभ्यते। अण्यन्तं व्याचष्टे---स्वयमेव विक्लिन्नमिति। श्राधातुरण्यन्तः पाके वर्तते। पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि। तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात् "गत्यर्थाऽकर्मके"ति कर्तरि क्तः। तथा च क्षीरं विक्लित्त्याश्रय इत फलितम्। ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् "श्रपी" त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह--- पक्वमिति। एतच्च भाष्यकैयटयोः स्पष्टम्। "क्षीराज्यहविषां शृत"मित्यमरस्य तु प्रमाद एव, "क्षीरहविषो"रिति वार्तिकविरोधात्।

तत्त्व-बोधिनी
शृतं पाके ७१८, ६।१।२७

शृतम्। श्रातिश्रपयत्योरिति। श्रापाके इत्यदादौ पठ()ते, चुरादावपि, घटादिष्वपि पठ()ते मित्त्वार्थम्, श्रै पाक इति च भ्वादौ , तस्यापि कृतात्वस्येह ग्रहणम्। निपातनसामत्र्याल्लक्षमप्रतिपदोक्तपरिभाषा नाश्रीयत इत्याहुः। शृभावो निपात्यत इति। "ष्यङः संप्रसारण"मिति प्रकृतमेव संप्रसारणं न विहितम्, श्रयतेरपि श्रितमेव यथा स्यादिति। अत्र "विभाषाभ्यवपूर्वस्ये"ति विभाषाऽनुवर्तते, सा च व्यवस्थिता, तेन क्षीरहविषोरेव शृभावो नित्यश्च, अन्यत्र तु नैव भवतीत्याशयेनाह--क्षीरहविषोः पाक इति। अन्यत्त्विति। शाकादि। श्रपितमिति। णौ मितां ह्यस्वः।