पूर्वम्: ८।२।४१
अनन्तरम्: ८।२।४३
 
सूत्रम्
रदाभ्यां निष्ठातो नः पूर्वस्य च दः॥ ८।२।४२
काशिका-वृत्तिः
रदाभ्यां निष्थातो नः पूर्वस्य च दः ८।२।४२

रेफदकाराभ्याम् उत्तरस्य निष्थातकारस्य नकारः आदेशो भवति पूर्वस्य च दकारस्य। रेफान्तात् तावत् आस्तीर्णम्। विस्तीर्णम्। विशीर्णम्। निगीर्णम्। अवगूर्णम्। दकारात् भिन्नः। भिन्नवान्। धिन्नः। छिन्नवान्। रदाभ्याम् इति किम्? कृतः। कृतवान्। रः इत्यत्र रश्रुतिसाम् अन्यं न उपादीयते, किं तर्हि, व्यञ्जनमात्रम्। रेफसामान्यनिर्देशे ऽपि सति रेफात् परा या ऽज्भक्तिस् तद्व्यवधानान्नत्वं न भवति। निष्था इति किम्? कर्ता। हर्ता। तः इति किम्? चरितम्। मुदितम्। पूर्वस्य इति किम्? परस्य मा भूत्, भिन्नवद्भ्याम्। भिन्नवद्भिः। इह कृतस्य अपत्यं कार्तिः इति वृद्धेः बहिरङ्गलक्षणाया असिद्धत्वान्नत्वे कर्तव्ये रेफस्य असिद्धत्वम्।
लघु-सिद्धान्त-कौमुदी
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ८१९, ८।२।४२

रदाभ्यां परस्य निष्ठातस्य नः स्यात् निष्ठापेक्षया पूर्वस्य धातोर्दस्य च॥ शृ हिंसायाम्॥ ऋत इत्। रपरः। णत्वम्। शीर्णः। भिन्नः। छिन्नः॥
न्यासः
रदाभ्यां निष्ठातो नः पूर्वस्य च दः। , ८।२।४२

"आस्तीर्णम्()" इति। "स्तृ()ञ्? आच्छादने" (धा।पा।१४८४)। "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्(), "हलि च" ८।२।७७ इति दीर्घः। "विशीर्णम्()" इति। "शृ()हिंसायाम्()" (धा।पा।१४८८)। "निगीर्णम्()" इति। "गृ? निगरणे" (धा।पा।१४१०)। एषु "श्रयुकः किति" ७।२।११ इतीट्()प्रतिषेधः, "अवगूर्णम्()" इति। "गुरी उद्यमने" (धा।पा।१३९६)। "()आईदितो निष्ठायाम्()" ७।२।१४ इतीट्प्रतिषेधः। अथ यथा "कृपो रो लः" ८।२।१८ इत्यत्र "र" इति वर्णत्वावर्णत्वकृतं भेदमुत्सृज्य सामान्यस्योपादानम्(), तथेहापि, अस्ति च ऋकारे रेफः; ततश्च कृतः कृतवानित्यत्र भवितव्यमेव नत्वेनेति यो मन्यते, तं प्रत्याह--"र इत्यत्र" इत्यादि। यद्यत्र "र" इति सामान्यमुपादीयेत तस्मादेवः प्रसङ्गः, न तु रश्रुतिसामान्यमुपादीयते, किं तर्हि? व्यञ्जनमर्धमात्रात्मकम्()। न च समानाकारोऽस्तीति कुतो नत्वप्रसङ्गः? भवतु नाम सामान्यस्योपादानम्(), तथापि नैवात्र नत्वं प्रसज्यत इति दर्शयितुमाह--"सामान्यनिर्देशेऽपि" इत्यादि। ऋकारोऽत्र ये भागास्तन्मध्यवर्ती रेफो मात्राचतुर्भागात्मकः, तत्र योऽसौ रेफात्परस्तृतीयो भागस्तेन व्यवधानान्न भवति। "चरितम्, मुदितम्" इति। "चर गत्यर्थः" (धा।पा।५५९),"मुद हर्षे" (धा।पा।१६)। असति हि "त" इति ग्रहणे "रदाभ्याम्()" इत्यनेन निष्ठा विशेष्यते--रदाभ्यां परा या निष्ठेति, ततश्चरितमित्यादौ "आदेः परस्य" १।१।५३ इति इट एव नत्वं स्यात्(); तस्य निष्ठाभक्तत्वात्()। अथ "त" इत्युच्यमाने चरितमित्यादौ तकारस्य कस्मान्न भवति? इटा व्यवहितत्वात्()। स हि प्रत्ययभक्तत्वात्? प्रत्ययमेव न व्यवदध्यात्। तदवयवत्वं तु व्यवदध्यादेव। "परस्य मा भूत्()" इति। असति हि पूर्वग्रहणे यदि हि सन्निहितया निष्ठया दकारो विशेष्येत--निष्ठाया यो दकार इति, ततो जशत्वे कृते परस्यैव स्यात्()--भिन्नवद्भ्याम्(), भिन्नवद्भिरित्यादौ। अथ न विशेष्येत, ततो विशेषानुपादानाद्यथापूर्वस्य भवति, तथा परस्यापि। तस्मात्? परस्य मा भूदित्येवमर्थं पूर्वग्रहणं कृतम्()। अथ कृतस्यापत्यम्(), "अत इञ्()" (४।१।९५) कार्त्तिरित्यत्र कस्मान्न भवति? इत्याह--"इह" इत्यादि। वृद्धिर्हि तद्धितं निमित्तमाश्रित्य भवतीति बहिरङ्गा, नत्वं तु न किञ्चिद्बाह्रं निमित्तमाश्रित्य भविष्यतीत्यतस्तदन्तरङ्गम्()। तस्माद्()वृद्धेर्बहिरङ्गत्वान्नत्वे कत्र्तव्ये रेफस्यासिद्धत्वम्()। ननु च यदि तर्हि बहिरङ्गलक्षणा सा, तस्या एवासिद्धत्वेन भवितुं युक्तम्(), न तु रेफस्यापि, न हि रेफो वृद्धिर्भवति? नैष दोषः; वृद्ध्याश्रितो हि रेफः, ततो वृद्धेर्बहिरङ्गत्वाद्रेफस्यापि बहिरङ्गत्वेन भाव्यम्()॥
बाल-मनोरमा
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ८२६, ८।२।४२

रदाभ्यां। रदाभ्यामित्यकारावुच्चारणाऽर्थौ। तदाह-- रेफदकाराभ्यामिति। निष्ठायाः - त्- निष्ठात्, तस्य निष्ठात इति विग्रहः। तदाह-- निष्ठातस्येति। निष्ठातकारस्येत्यर्थः। नः स्यादिति। नकारः स्यादित्यर्थः। सूत्रे "न" इति प्रथमान्तम्। अकार उच्चारणार्थः। दकारसय्चेति "नकार"इत्यनुषज्यते। सूत्रे "द" इति षष्ठ()न्तमिति भावः। चरितम् उदितमित्यत्र तु नत्वं न, निष्ठातकारस्य इटा व्यवहितत्वेन रदाभ्यां परत्वाऽभावात्। रेफात्परस्योदाहरति-- श इति। शृ? धातोः क्तप्रत्ययसूचनमिदम्।ननु कृतस्यापत्यं कार्तिः। अत इञ् , आदिवृद्धिः, रपरत्वम्। अत्रनिष्ठातकारस्य रेफात् परस्य नत्वं स्यादित्यत आह-- बहिरङ्गत्वेनेति। दात्परस्योदाहरति-- छिन्नः भिन्न इति। अत्र निष्टातकारस्य, धात्वन्तदकारस्यच नत्वमिति भावः।

तत्त्व-बोधिनी
रदाभ्यां निष्ठातो नः पूर्वस्य च दः ६७९, ८।२।४२

रदाभ्याम्। इह रदाभ्यामित्यनेन तकारो विशेष्यते, न निष्ठा, तेन चरितमुदितमित्यत्र न , तकारस्येटा व्यतत्वात्। तदेतदाह-- परस्य निष्ठातस्येति। बहिरङ्गत्वेनेति। निष्ठातकाराद्बहिर्भूतं तद्धितञित्प्रत्ययमाश्रित्याऽङ्गस्यादेरचो विधीयमानत्वाद्वृद्धिर्बहिरङ्गेति भावः। द्राण इति। द्रा कुत्सायां गतौ। ग्लानः म्लान इति। ग्लौ म्लै हर्षक्षये।