पूर्वम्: १।१।६५
अनन्तरम्: १।१।६७
 
प्रथमावृत्तिः

सूत्रम्॥ तस्मादित्युत्तरस्य॥ १।१।६६

पदच्छेदः॥ तस्मात् ५।१ इति उत्तरस्य ६।१ निर्दिष्टे ७।१ ६५

अर्थः॥

पञ्चम्या विभक्त्या निर्दिष्टे सति उत्तरस्य कार्यं भवति। {आदेः परस्य (१।१।५३)} इत्यस्य शेषसूत्रम्, तथा च तस्य सङ्गतिः अत्र कर्त्तव्या।

उदाहरणम्॥

आसीनः, द्वीपम्, अन्तरीपम्, समीपम्। ओ॒द॒नं प॒च॒ति॒॥
काशिका-वृत्तिः
तस्मादित्युत्तरस्य १।१।६७

निर्दिष्टग्रहनम् अनुवर्तते। तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्यैव कार्यं भवति, न पूर्वस्य। तिङ्ङतिङः ८।१।२८ ओदनं पचति। इह न भवति पचत्योदनम् इति।
लघु-सिद्धान्त-कौमुदी
तस्मादित्युत्तरस्य ७१, १।१।६६

पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
न्यासः
तस्मादित्युत्तरसस्य। , १।१।६६

किमर्थमिदम्? "तिङ्ङतिङः" ८।१।२८ इति याऽत्र सा तु न कारकविभक्तिः, किंतर्हि? "दिक्शब्दादञ्चूत्तरपद" २।३।२९ इति दिग्योगलक्षणा। दिक्शब्दस्त्वध्या- हार्यः, तत्र किं पूर्वशब्दमध्याह्मत्यातिङः पूर्वस्य निघातः क्रियते? उत परशब्दम- ध्याह्मत्य परस्य? इति सन्देहे सति परिभाषेयं नियमार्()ताऽ‌ऽरभ्यते। "निर्दिष्टग्रहणमनुवत्र्तते"इति। तेन तस्यानन्तर्यार्थत्वाद्वयवहितस्य कार्यं न भवतीति भावः। इहापीतिकरणोऽर्थनिर्देशार्थः क्रियते। तेन पञ्चम्यर्थग्रहणं भवति, न तु शब्दस्वरूपस्येत्यभिप्रायेणाह-- "तस्मात्" इति। "पञ्चम्यर्थनिर्देशः" इति। ननु च पूर्वसूत्रादेवेतिकरणोऽनुवर्तिष्यते, तत् किमर्थः पुनरिहेतिकरणः? अनेन प्रकारेण पूर्वसूत्रादेकदेशोऽनुवत्र्तत इति ज्ञापनार्थ-। तेनेतिशब्दवन्निर्दिष्ट-ग्रहणमनुवत्र्तेतेत्येतदाख्यातं भवति। अन्यस्त्वाह-- "इतिकरणं त्विहावधेरवधिमत्तन्त्रतां निवत्र्तयति। तेनावधेरे-वोत्तरस्य विज्ञायते, नावधिमतः। स्वरूपग्रहणनिरासार्थस्त्वितिकरणो न भवति; स्वरूपा-भावात्। यदपि "तस्माच्छसो नः पुंसि" ६।१।९९ इति, तत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवतीति न भवति सन्देहः। तस्मादवधेरवधिमत्तन्त्रतानिरासार्थ एवेति- शब्दः" इति, अत्रोच्यते; यद्यवधेरेवोत्तरस्य कार्यं यथा स्यादवधिमतो मा भूदित्येवम-र्थं इतिकरणोऽवधेरवधिमत्तन्त्रतामपाकर्तुं क्रियते, नार्थस्तेन; लोकत एव तत्सिद्धेः; लोके हि तस्माच्छात्रादुत्तरो भोज्यतामित्युक्तेरवधेरेवोत्तरो भोज्यते, नावधिमतः। तदिहापि विनापीतिकरणेनावधेरेवोत्तरस्य कार्यं भविष्यति; नावधिमतः। यदप्युक्तम्-- "तसमाच्छसो नः पुंसि" ६।१।९९ इत्यत्रापि पूर्वसवर्णदीर्घात् पूर्वः शस् न सम्भवति" इति, तदप्ययुक्तम्;तथा ह्रशब्दादिशब्दाच्च शसि परतः पूर्वसवर्णदीर्घत्वे पूर्वत्र च वृक्षादिशब्दे शसन्ते व्यवस्थापिते गच्छत आन् वृक्षानुपलभते गच्छतो वृक्षानानुपलभत इत्यत्र पूर्वसवर्णदीर्घात् पूरवं शश् सम्भवत्येव। अथ यत्रोभयनिर्देशस्तत्र कस्य कार्येण भवितव्यम्? तत्र यानवकाशा सेतरस्याः षष्ठीं प्रकल्पयिष्यति, अतः षष्ठीनिर्दिष्टस्य कार्यं भविष्यति। यथा "आने मुक्" ७।२।८२ इत्यत्र सप्तमी निरवकासा "अतो येयः" ७।२।८० इत्यत इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः षष्ठीत्वं प्रकल्पयिष्यति। तथा "ईदासः" ७।२।८३ इति पञ्च- म्याऽ‌ऽन इति पूर्वसूत्रे सावकाशायाः सप्तम्याः। यत्रोभे सावकासे तत्र परत्वात् पञ्चमी सप्तम्याः षष्ठीं प्रकल्पयिष्यति। यथा-- "आमि सर्वनाम्नः सुट्" ७।१।५२ इति"आज्जसेरसुक्" ७।१।५० इत्यत्र पञ्चमी सावकाशा। "आमि" इति सप्तम्युत्तरार्था। तत्रादिति पञ्चमी आमीति सप्तम्याः षष्ठीत्वं प्रकल्पयति, तेन सर्वनाम्न उत्तरस्यामः सुड् भवति। इह तु "दीर्घात्" ६।१।७३ "पदान्ताद्वा" ६।१।७३ इति, यद्यपि "च्छे च" ६।१।७१ इति सप्तमी पूर्वसूत्रे सावकाशा, तथापि तस्याः स्वरित्त्वात् पूर्वयोगादनुवृत्ताया निरवकाशत्वम्। अतः सा च सप्तमी पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति। पञ्चमी तु पौर्वपर्यं प्रकल्प्य सावकाशा निवत्र्तते। तेनायं सूत्रार्थो भवति- दीर्घादुत्तरो यच्छः, तस्मिन् परतः पूर्वस्य दीर्घस्यैव तुग् भवतीति। "सार्वधा- तुके यक्" ७।१।६७ इत्यत्र निरवकाशापि सप्तमी धातोरिति पञ्चम्याः सावकाशाया अपि षष्ठीत्वं न प्रकल्पयति; अन्यथा हि धातोरेवादेशा यगादयः स्युः। ततश्च "परश्च" ३।१।२ इत्यस्यानुवृत्तस्य बाधाद् यगादीनां चानुबन्धकरणस्य वयथ्र्यं प्रसज्येत। न हि धात्वादेशत्वे सति तेषां परत्वमुपपद्यते तु ते धातोः परे भवन्ति॥
बाल-मनोरमा
तस्मादित्युत्तरस्य ४३, १।१।६६

तस्मादित्युत्तरस्य। द्व्यन्तरुपसर्गेभ्योऽप ईत्" "उदस्थारतम्भोः पूर्वस्ये"त्यादिसूत्रगतपञ्चम्यन्तस्यानुकरणं "तस्मा"दिति। "इति" शब्दानन्तरं "गम्येऽर्थे" इति शेषः। "निर्दिष्टे" इत्यनुवर्तते। निरिति नैरन्तर्ये। दिशिरुच्चारणे "द्व्यन्त"रित्यादिसूत्रेषु पञ्चम्यन्तगम्येऽर्थे=द्व्यन्तरादिशब्दे निर्दिष्टे= अव्यवहितोच्चारिते सत्येव ततः परस्यैव ईत्वं भवति, न तु व्यवहितोच्चारिते द्व्यादिशब्दे, नापि ततः पूर्वस्य भवतीति नियमार्थमिदम्। तदाह--पञ्चमीनिर्देशेनेत्यादिना। उत्तरस्य किम्? तिङ्ङतिङ" इति निघात उत्तरस्यैव भवति--अग्निमीले। नेह ईले अग्निम्। अव्यवहिते किम्(), उत्प्रस्थानम्। उदःस्थास्तम्भोरिति पूर्वसवर्णो न भवति।

तत्त्व-बोधिनी
तस्मादित्युत्तरस्य ३७, १।१।६६

तस्मादिति। उत्तरस्येति किम्?, तिङ्ङतिङः" इति निघात उत्तरस्यैव यथा स्यात्। अग्निमीले। नेह-ईले अग्निम्। अव्यवहितस्येति। एतच्च निर्दिष्टग्रहणानुवृत्त्या लभ्यते। तेन उत्संस्थानं उत्संस्तम्भनमित्यादौ "उदस्थे"ति पूर्वसवर्णो न प्रवर्तते।