पूर्वम्: ६।२।६४
अनन्तरम्: ६।२।६६
 
सूत्रम्
सप्तमीहारिणौ धर्म्येऽहरणे॥ ६।२।६५
काशिका-वृत्तिः
सप्तमीहारिणौ धर्म्ये ऽहरणे ६।२।६५

सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारि इति देयं यः स्वीकरोति सो ऽभिधीयते। धम्र्यम् इत्याचारनियतं देयम् उच्यते। धर्मो हि अनुवृत्त आचारः, तस्मादनपेतं तेन वा प्राप्यम् इति। स्तूपेशाणः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका। दृषदिमाषकः। संज्ञायाम् इति सप्तमीसमासः, कारनाम्नि च इति विभक्तेरलुक्। हारिणि याज्ञिकाश्वः। वैयाकरणहस्ती। मातुलाश्वः। पितृव्यगवः। क्वचिदयम् आचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनाम् अश्वादि इति। धर्म्ये इति किम्? स्तम्बेरमः। कर्मकरवर्धितकः। अहरणे इति किम्? वाडवहरणम्। वडवायाः अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपूष्ट्यर्थं यद् दीयते हरणम् इति तदुच्यते। परो ऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्येतदहरणे इत्यनेन ज्ञाप्यते, तेन वाडवहार्यम् इति हारिस्वरः सिद्धो भवति।
न्यासः
सप्तमीहारिणौ धम्र्येऽहरणे। , ६।२।६५

हारीत्यावश्यके णिनिः। सप्तमीत्यनेन साहचर्याधारीति स्वरूपग्रहणं न भवति। अत एवाह--"हारिवाचि पर्वपदम्()" इति। "धम्र्ये" इत्यत्रापि स्वरूपग्रहणं न भवति; अहरण इति प्रतिषेधात्()। अत एवाह--"धम्र्यवाचिनि" इति। "आचारनियतम्()" इति। आचारे नियतमिति; ततोऽन्यत्राभावत्()। आचारे नियतम्(), आचारेण वा नियतमाचारनियतम्()। यदाचारवशादवश्यकत्र्तव्यं तदाचारनियतं भवति। कथं पुनराचारनियतं धर्मयमुच्यते? इत्याह--"धर्मो ह्रनुवृत्तः" इत्यादि। अनुवृत्त इति व्यवस्थित इत्यर्थः। "तस्मात्()" इति। धर्मादनपेतमिति। अनुगतमित्यर्थः। "तेन" इति। धर्मेण। "प्राप्तम्()" इति। लभ्यमित्यर्थः। उभयथाप्यर्थे "नौवयोधर्म" ४।४।९१ इत्यादिना यत्()। इतिकरणो हिशब्दश्च हेतौ। यस्मादाचारविशेषो धर्म उच्यते, यच्च तस्माद्धर्मादनपेतम्()। यद्वा तेन प्राप्यं तद्धम्र्यम्()। तेनाचारनियतं धम्र्यमित्युच्यते। "संज्ञायाम्()" २।१।४३ इति सप्तमीसगासः" इति। यद्येवम्(), विभक्तेर्लुक्? प्राप्नोति? इत्यत आह--"कारनाम्नि च" इत्यादि। "याज्ञिका()आः" इत्यादौ तु षष्ठीसमासः। "क्वचित्" इत्यादिना स्तूपेशाण इत्याद्युदाहरणेषु शाणादेर्यस्याचारनियततां दर्शयत्? उत्तरपदस्य धम्र्यवाचित्वं दर्शयति--"याज्ञिकादीनाम()आआदि" इति। क्वचिदयमाचारे व्यवस्थित इत्यनेन दातव्यमित्यनेन च सम्बन्धः। याज्ञिकादयो हि हारिणः, ते देयम()आआदिकं स्वीकुर्वन्ति। "स्तम्बेरमः" इति। म्तम्बकर्णयो रमिजपोः" ३।२।१३ इत्यच्(), उपपदसमासः, "तत्पुरुषे कृति बहुलम्()" ६।३।१३ इति विभक्तेरलुग्भवति। अत्र स्तम्बेरम इत्यत्र स्तम्ब इत्येत्? सप्तम्यन्तम्(), न तु रमशब्दो धम्र्यवाची। "कर्मकरवर्द्धितकः" इति। अत्र कर्मकरो हारी भवति, स हि वर्द्धितकं स्वीकरोति। न तु वर्द्धितकशब्दो धम्र्यवाची। न हि क्वचिदयमाचारो व्यवस्थितः कर्मकराय वर्द्धितको दातव्य इति। "वडवाया अयं वाडवः" इति। "तस्येदम्()" ४।३।१२० इत्यण्()। "बीजनिषेकात्()" इति। गर्भाधानम्()=बीजनिषेकः। अत्र वाडवोऽ()आओ हारी स हि हरणं देयं स्वीकरोति। हरणम्()=देयं धम्र्यम्()। क्वचिदयमाचारो व्यवस्थितः--येना()ओन वडवायां गर्भ आधीयते तस्य बीजनिषेकादुत्तरकलं शरीरपुष्ट()र्थं योग्याशनादिकं दातव्यमिति। तेन हरणशब्दो धम्र्यवाची भवति। तथाप्यहरण इति प्रतिषेधान्न भवति। ततश्च कृत्स्वरे प्राप्ते "अनो भावकर्मवचनः" ६।२।१४९ इत्युत्तरपदं ल्युडन्तमन्तोदात्तं भवति। ननु च परत्वादेवायं स्वरो भविष्यति, तत्? किमहरण इति प्रतिषेधेन? इत्यत आह--"परोऽपि" इत्यादि। तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। "वाडवहार्यम्()" इति। "ऋहलोण्र्यत्()" ३।१।१२४ इति हरतेण्र्यत्()--हार्यम्(), तत्? पुनस्तदेव ग्रहणम्()। वाडवस्य हार्यं वाडवहार्यम्()। तत्र यदि ज्ञापनार्थमनन्तरोक्तस्यार्थस्य हरणप्रतिषेधो न क्रियेत, तदा परत्वात्? "गतिकारकोपपदात्? कृत्? ६।२।१३८ इति कृत्स्वरेणोत्तरपदस्यान्तस्वरितत्वं स्यात्()। अ()स्मस्तु सत्ययमेव हारिस्वरो भवति। स्तूपेशाण इत्यादौ यत्र सम्पम्यन्तं पूर्वपदं तत्र "समासस्य" ६।१।२१७ इत्यस्यापवादे "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना पूर्वपदप्रकृतित्वरे प्राप्ते पूर्ववदाद्युदात्तमिदमुच्यते। पूर्वपदानि च प्रायेणान्तोदात्तानि, तथा हि--"स्टूप समुच्छ्राये" (धा।पा।१६७२) इत्यस्य चौरादिकस्य पचाद्यचि स्तूपशब्दो व्युत्पाद्यते, तेनाऽसावन्तोदात्तः। सप्तम्या सहैकदेशे विकृतेऽन्तोदात्त एव भवति। "एकादेश उदात्तेनोदात्तः" ८।२।५ इति। "मकि मण्डने" (धा।पा।८९) इत्येतस्मात्? "उणादयो बहुलम्()", ३।३।१ इत्युणादित्वम्(), नलोपश्च, तेन मकुटशब्द आद्युदात्तः। "हल विलेखने" (धा।पा।८३७) इत्येतस्मात्? "खनो घ च" ३।३।१२५ इति घित्करणेनान्यतोऽदि घो भवतीति ज्ञापितत्वाद्घप्रत्ययः। तेन हलशब्दोऽन्तोदात्तः। "दृ? विदारणे" (धा।पा।१४९३) इत्यस्मात्? "शृदृ()भसोऽदिः" (द।उ।६।४२) इति, "दृणातेः षुग्? ह्यसवश्च" (द।उ।६।४५) इति दृषच्छब्दो व्युत्पाद्यते, तेन सोऽप्यन्तोदात्तः। "याज्ञिका()आः" इत्यादयः षष्ठीसमासाः। तत्र समासस्वरे प्राप्ते हारिवाचिनः पूर्वपवस्याद्युदात्तत्वं यथा स्यादित्येवमर्थमिदम्()। अत्र च पूर्वपदानामुत्तरपदानां चासमासावस्थायां यः स्वरः स नाऽ‌ऽख्यायते; समासे कृते तस्य प्रयोगसमवायित्वात्()। नापि समासे कृते तस्य प्राप्तिरसति। स "प्रकृतिभावेन तस्मिन्? प्राप्ते सतीदमारभ्यते" इत्यस्यार्थस्य प्रदर्शनार्थमाख्यायते। अत एव च पूर्वत्रापि नाख्यातः॥