पूर्वम्: ६।३।११५
अनन्तरम्: ६।३।११७
 
सूत्रम्
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्॥ ६।३।११६
काशिका-वृत्तिः
वनगिर्योः सज्ञायां कोटरकिंशुलुकादीनाम् ६।३।११७

वन गिरि इत्येतयोरुत्तरपदयोर् यथासङ्ख्यं कोटरदीनाम् किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये। वने कोटरादीनाम् कोटरवणम्। मिश्रकावणम्। सिघ्रकावणम्। सारिकावणम्। गिरौ किंशुलुकादीनाम् किंशुलुकागिरिः। अञ्जनागिरिः। कोटरकिंशुलुकादीनाम् इति किम्? असिपत्रवनम्। कृष्णगिरिः। कोटर। मिश्रक। पुरक। सिघ्रक। सारिक। कोटरादिः। किंशुलुक। शाल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट्। किंशुलुकादिः।
न्यासः
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्?। , ६।३।११६

"कोटरावणम्()" इति। षष्टीसमासः। "वनं पुरुगा" ८।४।४ इत्यादिना णत्वम्()॥
बाल-मनोरमा
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् १०२३, ६।३।११६

वनगिर्योः। वनगिर्योरिति सप्तमी। कोटरश्च किंशुलुकश्च कोटरकिशुलुकौ, तावादी येषामिति विग्रहः। कोटरादीनांकिंशुलुकादीनां चेति लभ्यते। यथासङ्ख्यमन्वयः। तदाह--कोटरादीनामित्यादिना। "पुरगावण"मित्युदाहरणानि वक्ष्यन्ते।