पूर्वम्: ६।४।१५७
अनन्तरम्: ६।४।१५९
 
सूत्रम्
बहोर्लोपो भू च बहोः॥ ६।४।१५८
काशिका-वृत्तिः
बहोर् लोपो भू च बहोः ६।४।१५८

बहोरुत्तरेषाम् इष्थेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययम् आदेशो भवति। भूमा। भूयान्। बहुशब्दः पृथ्वादिषु पठ्यते। बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानाम् एव भूभावः स्यात्।
लघु-सिद्धान्त-कौमुदी
बहोर्लोपो भू च बहोः १२३०, ६।४।१५८

बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः। भूमा। भूयान्॥
न्यासः
बहोर्लोपो भू च बहोः। , ६।४।१५८

"बहोरुत्तरेषाम्()" इति। एतेन प्रथमस्य बहोः पञ्चम्यन्ततां दर्शयति, तस्य च वहोरित्यनेनापि द्वितीयस्य षष्ठ()न्तताम्()। "भूयान्()" इति। "आदेः परस्य" १।१।५३ इतीकारस्यव लोपः। अथ किमर्थं बहोरिति पुनग्र्रहणम्()? इत्याह--"बहोरिति पनः" इत्यादि। असति हि बहोरिति ग्रहणे बहुशब्दस्य स्थानित्वं न प्रतीयेत; पञ्चम्यन्तेन निर्देशात्()। तस्मात्? स्थानित्वप्रतिपत्तये पुनर्बहोरित्यच्यते। "अन्यथा हि" इत्यादि। यदि बहोः इति नोच्येत, तदा प्रत्ययानामेव भूभावः स्यात्(); "तस्मादित्युत्तरस्य" १।१।६६ इति वचनात्()। ननु पृथग्निर्देशादेव प्रत्ययानां न भविष्यति, अन्यथा "भूलोपौ" इत्ययं ब्राऊयात्()? नैतदस्ति; अस्ति ह्रन्यत्? पृथग्निर्देशस्य प्रयोजनम्()। किम्()? पृथक्()स्थानिकौ यथा स्ताताम्(), आदेर्मा भूतामिति। यदि "भूलोपौ" इत्येवमुच्येत, तदा "आदेः परस्य" १।१।५३ इत्याद्यस्यैव वर्णस्य पर्यायेण भूलोपो स्यातामिति। अतो भिन्नस्थानिकौ यता स्यातामित्येवमर्थः पृथग्योगनिर्देशः स्यात्()। तस्माद्युक्तमुक्तम्()--"अन्यथा हि प्रत्ययानामेव भूभावः स्यात्()" इति। चकारोऽत्र सन्नियोगार्थः॥
बाल-मनोरमा
बहोर्लोपो भू च बहोः , ६।४।१५८

बहोर्लोपः। "भू" इति लुप्तप्रथमाकम्। इष्ठेयमेयस्स्वित्यनुवृत्तम्। तत्र इष्ठन उत्तरसूत्रे कार्यान्तरविधानादिह तस्य न संबन्धः। तदाह--बहोः परयोरिति। "आदेः परस्ये"ति प्रत्ययोरादिलोपः। भूमेति। बहुत्वमित्यर्थः। बहुशब्दात्पृथ्वादिमनिचि प्रकृतेर्भूभावः, प्रत्ययादैरिकारस्य लोपश्च भूयानिति। अयमनयोरतिशयेन बहुरित्यर्थः। वैपुल्यवाचकाद्बहुशब्दादीयसुनि प्रकृतेर्भभावः, प्रत्ययादेरिकारस्य लोपश्च। भूभावस्याभीयत्वेना।ञसिद्धत्वादोर्गुणो न भवति।