पूर्वम्: ६।४।२
अनन्तरम्: ६।४।४
 
सूत्रम्
नामि॥ ६।४।३
काशिका-वृत्तिः
नामि ६।४।३

नाम् इति एतत् षष्ठीबहुवचनम् आगतनुट्कं गृह्यते। तस्मिन् परतो ऽङ्गस्य दीर्घो भवति। अग्नीनाम्। वायुनाम्। कर्तृ̄णाम्। हर्तृ̄णाम्। अणः इत्येतदत्र निवृत्तम्। आगतनुट्कग्रहणम् उत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम्। अन्यथा हि नुडेव न स्यात्। नामि दीर्घ आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत्। वचनाद् यत्र तन्नास्ति नोपधायाश्च चर्मणाम्।
लघु-सिद्धान्त-कौमुदी
नामि १४९, ६।४।३

अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥
न्यासः
नामि। , ६।४।३

अण्ग्रहणं सम्प्रसारणग्रहँ दीर्घग्रहणञ्चैतत्? त्रयमनुवत्र्तते। कुतः पुनः परकृतमण्ग्रहणम्()? "ढ्रलोपे पूर्वस्य दीर्घोऽणः" ६।३।११० इत्यतः। ननु तत्? "इकः काशे" ६।३।१२२ इतीग्ग्रहणेन व्यवच्छिन्नम्(), तत्? कथमिहानुवत्र्तते? नैष दोषः, इग्ग्रहणेन ह्रणेव विशिष्यते--अण्णिगिति। ततो विरोधाभावान्नेग्ग्रहणेनाण्ग्रहणं व्यवच्छिद्यते। ननु च यदीग्ग्रहणेनाण्ग्रहणं विशिष्यते, तदा--"अवाचा, स्वराचा" इत्यत्र दीर्घत्वं न स्यात्()। "चौ" ६।३।१३७ इत्त्राण्ग्रहणमेवात्रानुवर्त्तिष्यते, इग्गरहणं तु निवृत्तमित्येषोऽप्यदोषः। अथ वा--यद्यपीग्ग्रहणेनाण्ग्रहणं व्यवच्छिन्नम्(), तथापीह मण्डूकप्लुतिन्यायेनानुवत्र्तते। ननु यथा "शेषे" ४।२।९१ इत्येतल्लक्षणं विधिरधिकारश्च, तथा "अङ्गस्य" ६।४।१ इत्येतदपि, ततश्चानेनैव हूतः, जीन इत्यादेः सिद्धत्वादपार्थकं "हलः" इत्येतद्वचनम्()। अतो न कत्र्तव्यमेवेति मन्यमान आह--"हल इति किम्()" इति। किमर्थं "हलः" इत्येतत्? सूत्रमारभ्यत इत्यर्थः। "उत्तः, उतवान्()" इति। असत्यस्मिन्? सूत्रे सन्प्रसारणान्तस्याङ्गस्य दीर्घो भवतीत्युच्यमान इहापि दीर्घत्वं स्यात्()। भवति ह्रेतदपि व्यपदेशिवद्भावेन सम्परसारणान्तमङ्गम्(), तस्मात्? "हलः" इति सूत्रं कत्र्तव्यम्()। "विद्धः, विचितः" इति। "व्यघ ताडने" (धा।पा।११८१) "व्यच व्याजीकरणे" (धा।पा।१२९३) निष्ठा, ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्()। सम्प्रसारणान्तस्याङ्गस्य ग्रहणादिह न भवति दीर्घः। यद्यपि "विध्यत्यधनुषा" ४।४।८३ "ग्रहिज्यावयिव्यधिवष्टिविचति" (६।१।१६) इति निर्देशात्? हलन्तस्य यत्? सम्प्रसारणं तस्य दीर्घो न भविष्यतीति विज्ञायते, तथापि ज्ञापकद्वारेणास्मिन्नर्थे प्रतिपाद्यमाने प्रतिपत्तिगौरवं स्यादित्येतत्परिहारार्थं सम्प्रसारणान्तस्येत्युक्तम्()। "तृतीयः" इति। "द्वेस्तीयः" ५।२।५३ इति "त्रेः सम्प्रसारणञ्च" ५।४।५५ इति तीयप्रत्ययः सम्प्रसारणञ्च। सर्वमात्रास्ति, न त्वण्()? कसमान्नास्त्यण्()? यस्मात्? "ढ्रलोपे" पूर्वस्य दीर्घोऽणः" ६।३।११० इत्यत इहाण्ग्रहणमनुवत्र्तते, तत्र च पुर्वेणैव णकारेण प्रत्याहारग्रहणम्(), न च ततर ऋकारः सन्निविष्ट इति भवत्येव प्रत्युदाहरणम्()। "तृतीयेति वा" इत्यादि। अथ वा "अण" इत्यतन्निवृत्तमेव। तथाप्यत्र न भवत्येव दीर्घः; "कर्त्तुकरणयोस्तृतीया" २।३।१८ इति निपातनात्()। "हलः" इत्येतस्य त्रयोऽर्थाः सम्भाव्यन्ते। हल उत्तरस्य सम्प्रसारणान्तस्याङ्गस्य दीर्घो भवति--अयमेकोऽर्थः, अङ्गावयवाद्धल उत्तरस्य सम्प्रसारणस्य दीर्घो भवति--इति द्वितीयः, तृतीयसतु वृत्तिकारेणैव दर्शितः। तत्र यदि प्रथमः पक्ष आश्रीयते, तदा निरुतम्(), दुरुतमित्यत्रापि स्यात्()। भवति ह्रेतदपि हल उत्तरं सम्प्रसारणान्तमङ्गम्()। अथ द्वितीयस्तदा विद्धः, विचित इत्यत्रापि स्यात्()। अत्राप्याङ्गावयवाद्धल उत्तरं सम्प्रसारणमिति। अथ "विध्यत्यधनुषा" ४।४।८३, "ग्रहिज्यावयिव्यधिवष्टिविचति" (६।१।१६) इति निर्देशान्न भविष्यति? ततश्च ज्ञापकद्वारेणैवंविधे दीर्घत्वाभावे प्रतिपत्तिगौरवं स्यादेव। तस्मादेतस्यैव दोषस्य परिजिहीर्षया तृतीयोऽर्थो वृत्तिकारेण दर्शितः। अत्रापि देश्यमिदमाशङ्क्यते--ननु चायमर्थोऽस्य सूत्रस्य नोपपद्यत एव, यस्मादङ्गस्येत्येकमङ्गग्रहणं प्रकृतम्()। तच्च हलो विशेषणं वा स्यात्(), अङ्गस्य कार्यप्रतिपत्त्यर्थं वा। तत्र यदि पूर्वकः पक्ष आश्रीयते तदाङ्गविशिष्टस्य सम्प्रसारणान्तस्याङ्गस्येति यावद्दीर्घो न लभ्यते। अथ द्वितीयस्तदा हल्? विशेषितो न स्यात्()। तस्माद्()द्वितीयमङ्गगरहणं कत्र्तव्यं स्यात्()। न ह्रेकेन शक्यमेतदुभयं प्रतिपादयितुम्()। अतोऽस्य देश्यस्य निरासायाऽ‌ऽवृत्तिन्यायमाश्रित्याह--"अङ्गग्रहणम्()" इत्यादि। एकमपि हि वस्त्वावर्त्त्यमानमनेकत्रोपयुज्यते। यथैकं भाजनमसहभुजामनेकेषां भुजिक्रियायाम्(), तथेदमङ्गग्रहणमावर्त्त्यते। तत्रानावृत्तेन हल्? विशिष्यते, आवृत्तेन त्वङ्गसय दीर्घत्वं भवतीत्युभयथार्थप्रतिपत्तिर्भवति॥
न्यासः
नामि। , ६।४।३

अङ्गाधिकारान्नामि परतोऽङ्गस्य दीर्घो विधीयते। अङ्गञ्च प्रत्यये परतो भवति। न चेह शास्त्रे क्वाचिन्नाम्प्रत्ययो विहितः, ततो न ज्ञायते--नामीति कस्येदं ग्रहणमिति? अतस्तत्परिज्ञानार्थमाह--"नामीति षष्ठीबहुवचनम्()" इत्यादि। आगतः प्राप्तो नुड्? येन तदागतनुट्कम्()। अथ वा आगतः= प्राप्तो नुड्? यतर तदागतनुट्कम्()। "कर्ततृ()णम्()" इति। कथं पुनरत्र दीर्घत्वम्(), यावताऽण्ग्रहणमत्रानुवत्र्तते? अत माह--"अण इत्येतन्निवृत्तम्()" इति। "न तिसृ()चतसृ" ६।४।४ इति तुसृचतरुआओर्दीर्घत्वप्रतिषेधादीत्यभिप्रायः। "उत्तरार्थम्()" इति। "नोपधायाः" ६।४।७ इति। अत्र नामि परतो नोपधाया दीर्घत्वं यथा स्यात्(), आमि मा भूदिति--एवमर्थमागतनुट्कग्रहणम्()। तेन वर्मणामित्यत्र दीर्घो न भवति। कृते च नुटु दीर्घत्वप्रतिपत्त्यर्थमित्यागतनुट्कस्य ग्रहणमिति परकृतेन सम्बन्धः। "अन्यथा हि" इत्यादि। अन्यथा यद्यागतनुट्कस्यामो ग्रहणं न क्रियते तदा नुट आम्भक्तत्वादाम्ग्रहणेन ग्रहणे कृते सति नुटि दीर्घत्वेन भवितव्यम्(), अकृतेऽपि। ततश्च कृताकृतप्रसङ्गो यो विधिःस नित्य इति नित्यत्वात्? परमपि नुटं बाधित्वा दीर्घत्वमेव स्यात्()। एवञ्च सति ह्यस्वान्तमङ्गं न भवतीति नुडेव न स्यात्()। ननु न नुडु ह्यस्वान्ताद्विधीयते, न च नित्यत्वाद्दीर्घत्वे कृते ह्यस्वान्तमङ्गमास्ति, तत्र वचनसामथ्र्याद्भूतपूर्वगतिर्भविष्यति, भूतपूर्वगत्या ह्यस्वान्तादङ्गादुत्तरस्यामो नुङ्भवतीति, न च शक्यते वक्तुम्(); तिसृणाम्(), चतसृणामित्यत्र "न तिसृचतसृ" ६।४।४ इति प्रतिषेधात्()। ह्यस्ववचनं सावकाशमिति। यस्मात्? "ह्यस्वनद्यापो नुट्()" ७।१।५४ इत्यतर--"त्रेस्त्रयः" ६।३।४७ इत्यतस्त्रिग्रहणमनुवत्र्तते, तेन त्रिग्रहणानुवृत्तेरेव स्थानिवद्भवेन तिसृणामित्यत्र नुङ्भविष्यत#इ। तथा चतसृणामित्यत्रापि "षट्? चतुभ्र्यश्च" ७।१।५५ इत्यनेन स्थानिवद्भावादिति। नापि शक्यते वक्तुम्()--नृणामित्यत्र "नृ च" (६।४।६) इति पक्षे दीर्घत्वाभावात्? ह्यस्ववचनस्य सावकाशत्वमिति। न ह्रेकमुदाहरणं प्रति ह्यस्ववचनं प्रयोजयति। यदि ह्रेतावत्? प्रयोजनं स्यात् "नृनद्यापो नुट्()" इत्येवं ब्राऊयात्()। तदेवं ह्यस्ववचनमनवकाशम्()। अतः कृतेऽपि दीर्घत्वे अग्नीनामित्यादौ भूतपूर्वगत्या नुङ् भविष्यति; ह्यस्वग्रहणसामथ्र्यात्()। तस्मादयुक्तमिदमुक्तम्()--अन्यथा हि नुडेव न स्यादिति। एवं तह्र्रन्यथा व्याख्यायते वृत्तिग्रन्थे--"आगतनुट्कस्य ग्रहणमुत्तरार्थम्()" इत्युक्ते चोदक आह--"कृते च नुटि" इत्यादि। कस्मान्न भवतीति वाक्यशेषः। कृते च नुटि दीर्घस्य प्रतिपतिर्यथा स्यादित्येवमर्थमागतनुट्कस्य ग्रहणं कस्मान्न भवतीति। युक्तं चैतत्(), तथधा हि यद्यागतनुट्कस्य ग्रहणं न स्यात्? ततो नित्यत्वाद्दीर्घत्वे कृते ह्यस्वाभावादग्नीनामित्यादौ नुड्? न स्यात्()। सनुट्कस्य ग्रहणे तु भवतीत्येवं चादकेनोक्ते सतीदमाह--"अन्यथा हि" इत्यादि। हिशब्दोऽयमपिशब्दार्थे वत्र्तते। नशब्दोऽपि नन्वित्यर्थे वत्र्तते। अनेकार्थत्वा न्नेपातानाम्()। एवकारो भिन्नक्रमः, स्यादित्यस्यानन्तरं द्रष्टव्यः। तदयमत्रार्थः--अन्यथापि ननु नुट् स्यादेव, न केवलं सनुट्कसय ग्रहणे सत्यग्नीनामित्यादौ नुड् भवति, अपि त्वन्यथाप्यनागतनुट्कस्यापि ग्रहणे नुट्? स्यादेवेति। अथ किमर्थमागतनुट्कसय ग्रहणम्(), "आमि दीर्घः" इत्येव नोच्येत? अस्मिन्? पर्यनुयोगे सति "नामि दीर्घः" इत्यादेः श्लोकस्योपन्यासः। योऽयं नामि दीर्घ उक्तः स यद्यामि भवेदामीत्येवं सूत्रप्रणयने सति कृताकृतप्रसङ्गित्वेन नित्यत्वात्? परमपि नुटं बाधित्वा दीर्घत्वमेव स्यात्(), ततश्च नुङ् न स्यादेव, अह्यस्वान्तत्वादङ्गस्य? नैष दोषः; "वचनात्()" इति। वचनान्नुडु भविष्यति। यदि दीर्घत्वे नुड्? न स्यात्(), तदा "ह्यस्वनद्यापो नुट्()" ७।१।५४ इत्यत्र ह्यस्ववचनमनर्थकं स्यात्(); अनवकाशत्वात्()। तस्माद्? ह्यस्ववचनसामथ्र्यादसति साम्प्रतिके ह्यस्वान्तेऽङ्गे भूतपूर्वगत्या कृतेऽपि दीर्घत्वेऽङ्गस्य नुङ भविष्यति। यत्र तन्नास्तीति तत्र वचनस्यावकाश इति वाक्यशेषः। यत्र दीर्घत्वं नास्ति--तिसृणाम्(), चतुसृणामिति तत्र ह्यस्ववचनस्यावकाशः। अतोऽग्नीनामित्यादौ दीर्घत्वे कृते भूतपूर्वगत्या नुडागमो न लक्ष्यते। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति। ननु तिसृणामित्यादावपि नैव ह्यस्ववचनस्यावकाशः। अन्यथैवात्र नुटः सिद्धत्वादिति भावः। ह तावत्? तिसृणामिति विनापि ह्यसवग्रहणेनानेनैव सूत्रेण नुङ् भविष्यति, त्रिग्रहणानुवृत्तेः। चतसृणामित्यत्र "षट्चतुभ्र्यश्च ७।१।५५ इत्यनेनैव नृणामित्यत्र यद्यपि ह्यस्वान्तमङ्गं तथापि नैकमुदाहरणं प्रति ह्यस्ववचनं प्रयोजयति, अन्यथा हि नृग्रहणमेव कुर्यात्(), न ह्यस्वग्रहणम्()। तस्मन्नास्त्येव ह्यस्ववचनस्यावकाशः। तदेतदपार्थकं मा भूदिति ह्यसववचन सामथ्र्यात्? कृतेऽपि नुड्? भवतीतयविचलमेतत्()। एवमक्रियमाणेऽपि सनुट्कस्य ग्रहणे दीर्घत्वे कृतेऽपि नुङ भविष्यतीति परमतमाशङ्क्य प्रयोजनान्तरमाह--"नोपधायाश्च" इत्यादि। चशब्दस्तह्र्रर्थे। एवं तर्हि "नोपधायाः" ६।४।७ इति दीर्घत्वं नामि परभूते या नोपधा तस्या यथा स्यात्()--पञ्चानाम्(), सप्तानामित्यादौ। अत्र हि "षट्चतुभ्र्यश्च" ७।१।५५ इत्यनेन पञ्चनामित्येवमादेर्नान्तादङ्गादामो नुटि कृते नामि परतो नोपधा भवति। यदि पुनः "आमि" इत्येवोच्येत, तदा वर्मणामित्यादावपि दीर्घत्वं प्रसज्येत। सनुट्कस्य ग्रहणे सति न भवति, नुटो लक्षणाभावात्()। अत्र हि केवल आमि नोपधा, न तु सनुट्के। तदेवं वर्मणामित्यत्र "नोपधायाः" ६।४।७ इति दीर्घत्वं मा भूदित्येवमर्थं नामीत्युक्तम्()॥
बाल-मनोरमा
नामि २०७, ६।४।३

"राम-नाम्" इति स्थिते-नामि। "ढ्रलोप" इत्यनुवर्तते। दीर्घश्रुत्या च "अच" इत्युपस्थितम्। तेन चाङ्गं विशेष्यते। अतस्तदन्तविधिः। तदाह--अजन्तस्येति। "नुटि" इति न सूत्रितम्। "भृञः किन्नुट् चे"त्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे ऋकारस्य दीर्घापत्तेः। "अङ्गानां पामना"मित्यादौ तु न दीर्घः, अर्थवद्ग्रहणपरिभाषया अर्थवत एव नामो ग्रहणात्पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने अमि कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि समुदायस्यानर्थकत्वात्। ननु नामीति सनकारग्रहणं मास्तु, "अमि" इत्येव सूत्रयताम्। नच राम-आमित्यस्यां दशायां दीर्घे सति ह्यस्वान्तत्वाभावात् "ह्यस्वनद्यापः" इति नुट् न स्यादिति वाच्यम्। "ह्यस्वान्तान्नुडि"ति वचनसामथ्र्यात्कृतेऽपि दीर्घे भूतपूर्वगत्याश्रयणेन नुडुपपत्तेरिति चेन्न, सनकारनिर्देशस्य "नोपधाया" इत्युत्तरार्थत्वात्। यदि हि आमीत्येवोच्येत तर्हि "नोपाधायाः" इत्युत्तरसूत्रेऽपि आमीत्येवानुवर्तेत। ततश्च नान्तस्योपधाया दीर्घः स्यादामीत्येव लभ्येत। एवं सति "चर्मणां" "वर्मणा"मित्यादावपि दीर्घः स्यात्। अतो "नामी"ति सनकारनिर्देश इति भाष्ये स्पष्टमित्यलम्। "अटकुप्वाङि"ति णत्वं सिद्धवत्कृत्याह--रामाणामिति। नन्वत्र परत्वात् "सुपि चे"ति दीर्घ एवोपन्यसनीयः, न तु "नामी"ति दीर्घः, फलविशेषाऽभावोऽपि न्यायानुरोधेनैव शास्त्रप्रवृत्तेः "इको झल्" इति सूत्रे भाष्ये प्रपञ्चितत्वादिति शङ्कते--सुपि चेति दीर्घो यद्यपि पर इति। परिहरति--तथापीति। सन्निपातेति। ह्यस्वान्तसन्निपातमुपजीव्य प्रवृत्तस्य नुटो ह्यस्वविघातकं "सुपि चे"ति दीर्घं प्रति निमित्तत्वाऽसम्भवादिति भावः। नन्विह "नामी"ति दीर्घप्रवृत्तावपि सन्निपातपरिभाषाविरोधस्तुल्य इत्यत आह-नामीत्यनेनत्विति। यद्यत्र "नामी"ति दीर्घो न स्यात्तर्हि तदारम्भो व्यर्थः स्यात्। ततश्च निरवकाशत्वाद्रामाणामित्यादौ नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा प्रवर्तते। "सुपि चे"ति दीर्घस्तु रामाभ्यामित्यादौ सावकाशत्वाद्रामाणामित्यादौ नामि परे सन्निपातपरिभाषां न बाधितुमर्हति। तस्माद्रामाणामित्यादौ नामि परे दीर्घप्रवृत्तौ सन्निपातपरिभाषां बाधितुं नामीति दीर्घारम्भः। ननु "नामी"ति दीर्घो निरवकाशत्वात्सन्निपातपरिभाषां बाधत इत्ययुक्तम्, यत्र ह्यस्वान्तसन्निपातमनुपजीव्यैव नुटः प्रवृत्तिस्तत्र सन्निपातपरिभाषानुपमर्देनैव नामीति दीर्घप्रवृत्तेः सावकाशत्वात्। यथा-कतीनामीत्यत्र। तत्र हि "षट्चतुभ्र्यः" इति नुट्। षट्संज्ञकेभ्यश्चतुरश्च परस्याऽ‌ऽमो नुट् स्यादिति हि तदर्थ इति चेत्, एवं हि सति "कतेर्नामी"त्येव सूत्र्येत। अजन्तस्याङ्गस्य नामि दीर्घ इत्येवंपरं नामीति सामान्यसूत्रं नारम्भणीयमित्यर्थः। अन्यथा मुद्गादणित्यनुपपत्तेरिति कैयटः। न चैवं सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यं, "न तिसृचतसृ" इति नामि दीर्घनिषेधाऽकरणेन लाघवात्। एवं च कतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामथ्र्याद्रामाणामित्यादावपि नामीति दीर्घः सन्निपातपरिभाषां बाधित्वा निविशत इति युक्तम्। एवं च आरम्भसामथ्र्यादिति मूलमपि कतेर्नामीत्यनुक्त्वा नामीति सामान्यसूत्रारम्भसामथ्र्यादत व्याख्येयमित्यलं विस्तरेण।

अत सप्तमीविभक्तिः। ङेर्ङकार इत्। "राम-इ" इति स्थिते "आद्गुण" इति मत्वाह--राम इति। रामयोरिति। षष्ठीद्विवचनवत्। सुप्येत्वे कृत इति। पकारस्येत्त्वे, लोपे, "बहुवचने झल्येत्" इत्येत्त्वे कृत इत्यर्थः।

तत्त्व-बोधिनी
नामि १७४, ६।४।३

नामि। "ढ्रलोपे"-इत्यतो "दीर्घ" इत्यनुवत्र्तते। दीर्घश्रुत्योपस्थितेनाऽच इत्यनेनाङ्गस्येति विशेष्यते। विशेषणेन न तदन्तविधिः। तदेतदाह-अजन्ताङ्गस्येत्यादि। अर्थवद्ग्रहणपरिभाषया "नामी"ति नुट् सहित एवाऽ‌ऽम् गृह्रते। तेन पामनाम्, अङ्गनामित्यादौ न भवति। तत्र हि पामादिलक्षणे नप्रत्यये टापि द्वितीयैकवचने च कृते त्रयाणामपि प्रत्ययानां प्रत्येकमर्थवत्त्वेऽपि "ना"मिति समुदायस्यानर्थकत्वात्। यद्यपि नलोपस्याऽसिद्धत्वादनेन "पामना"मित्यत्र दीर्घः सुपरिहरः, तथापि "नोपधायाः" इत्यनेन तु स्यादेवेति बोध्यम्। "नुटि" इति तु न सूत्रितम्। "भृञः किन्नुट् च" इत्यौणादिकगन्प्रत्ययान्ते भृङ्गशब्दे मा भूदिति। स्यादेतत्। नुडागमस्याऽ‌ऽम्भक्तत्वादाम्ग्रहणेन सनकारोऽप्याम् ग्रहीष्यत इति "आमि" इत्येव सूत्रमस्तु। न चाऽ‌ऽमीति दीर्घस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात्परमपि नुटं बाधित्वा अग्नीनामिन्दूनामित्यत्र दीर्घे कृते ह्यस्वाश्रयो नुट् न भवेदिति वाच्यम्, ह्यस्वान्तान्नुडिति वचनसामथ्र्यात्कृतेऽपि दीर्घे भूतपूर्वगत्याश्रयणेन तत्प्रवृत्तेः। नापि "न तिसृचतसृ" इति निषेधात्तिसृणां चतसृणामित्यत्र ह्यस्व#आन्तान्नुडिति वचनस्य प्रयोजनमस्तीति वाच्यम्। "चतसृणा"मित्यत्र "षट्चतुभ्र्यश्च" इत्यनेनैव नुट्सिद्धेः। "ह्यस्वनद्यापः"--इति सूत्रे "त्रेस्त्रयः" इत्यतः "त्रे"रित्यनुवर्त्त्य त्रिशब्दात्परस्यामो नुडिति व्याख्यानात्तिसृणामित्यत्रापि तत्सिद्धेः। यद्यपि नृणामित्यत्र प्रयोजनमस्ति, तथापि नैकमुदाहरणं प्रयोजयति। अन्यथा "नृनद्यापः" इत्येव वदेत्। तस्मादादमीत्युक्तौ न किंचिद्बाधकमस्तीत्यामः सनकारस्य ग्रहणं व्यर्थमिति चेत्, अत्रोच्यते, उत्तरार्थं सनकारग्रहणं कर्तव्यं, "नोपधायाः" इति दीर्घो न नुड्भवेत्। वचनाद्यत्र तन्नास्ति नोपधायाश्च वर्मणाम्" इति। अत्र वदन्ति-वचनाद्भूतपूर्वगत्याश्रयणेन तत्प्रवृत्तिरित्येतच्चिन्त्यम्। गौणत्वे "षट्चतुभ्र्यश्च" इति नुटोऽप्रवृत्त्या "प्रियचतसृणा"मित्यत्र नुडर्थं ह्यस्ववचनस्य चरितार्थत्वेन सामथ्र्यस्योपक्षयात्। तत्र हि "नुमचिर-" इति रादेशात्पूर्वविप्रतिषेधेन नुडिष्यत इति। तदयुक्तम्। "ऋन्नद्यापः" इति सूत्रितेऽपि ऋदन्तान्नुट् सिध्यत्येवेति ह्यस्वग्रहणसामथ्र्यस्यानुपक्षीणत्वादिति दिक्। परिभाषाविरोधादिति। "कृताकृतप्रसङ्गित्वेन "नामि" इति दीर्घस्याप्यनित्यत्वात्। आरम्भसामथ्र्यादिति। "सुपि च" इत्यस्य तु न सामथ्र्यं, रामाभ्यामित्यादौ सावकाशत्वादिति भावः। ननु "कतीना"मित्यत्र परत्वात् "षट्चतुभ्र्यश्च" इति नुटि "नामि" इति दीर्घः सन्निपातपरिभाषामबाधित्वैव प्रवर्तत इत्यारम्भसामथ्र्यस्योपक्षयात् "नामि" इति सूत्रमपि "रामाणा"मित्यत्र सन्निपातपरिभाषया न प्रवर्तते। तथा च "आचार्याणाम्" इति निर्देशेनोक्तपरिभाषाया अनित्यत्वमाश्रित्य "सुपि च" इति दीर्घ एव परत्वात्प्रवर्ततामिति चेत्। अत्र केचित्समाधयन्ति-चतुग्र्रहणसाहचर्याद्धलन्तषट्संज्ञकादेव परस्यामः षट्संज्ञाश्रयो नुड्भवति न तु कतिशब्दात्परस्यामः, तथा च "कतीना"मित्यत्र ह्यस्वाश्रय एव नुडित्यारम्भसामथ्र्यं नोपक्षीणमिति। तदपरे न क्षमन्ते। रेफो यथा हल्संज्ञकस्तथा अम्संज्ञकोऽपि भवतीत्यमन्तषट्संज्ञकादेव परस्यामः षट्संज्ञाश्रयो नुड्भवति न तु प्रियपञ्चां प्रियषषामित्यादाविति सिद्धान्ताद्बहिरङ्ग षट्संज्ञायो नुट्। तथा चान्तरङ्गत्वात्कतीनामित्यत्र ह्यस्वाश्रय एव नुडिति "नामि" इति दीर्घः सन्निपातपरिभाषां बाधित्वैव प्रवर्तते, ततश्चापम्भसामथ्र्यादिति मूलोक्तग्रन्थस्य न काप्यमुपपत्तिरिति समादधुः। इतरे तु "आरम्भसामथ्र्या"दित्यस्यायमर्थो "न तिसृचतसृ" इति निषेधारम्भसामथ्र्यादिति। "तिसृणा"मित्यत्र ह्यस्वान्तलक्षणे नुटि कृते "नामि" इति दीर्घप्रवृत्तौ हि "न तिसृ-" इति निषेध आरभ्यते। सन्निपातपरिभाषया दीर्घाऽप्रवृत्तौ तु किमनेन निषेधेन?। अतो ज्ञायते "नामि" इति दीर्घ संनिपातपरिभाषां बाधत इति। यैस्तु "ह्यस्वनद्यापः-" इत्यत्र ह्यस्वग्रहणं प्रत्याख्यायते, तैस्तु "नामि" इति दीर्घे आरम्भसामथ्र्यं नाश्रयणीयमेव।