पूर्वम्: ७।१।६०
अनन्तरम्: ७।१।६२
 
सूत्रम्
रधिजभोरचि॥ ७।१।६१
काशिका-वृत्तिः
रधिजभोरचि ७।१।६१

रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति। रन्धयति? रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम्? रद्धा। जभ्यम्।
न्यासः
रधिजभोरचि। , ७।१।६१

"रन्धयति" इति। "रध हिंसासंराद्ध्याः" (धा।पा।११९३) हेतुमण्णिच्()। "रब्धकः" इति ण्वुल। "साधुरन्धी" इति। "सुप्यजातौ णिनिस्ताच्छील्ये" ३।२।७८ इति णिनिः। "रन्धंरन्धम्()" इति। "आभीक्षण्ये। णमुल्()" ३।४।२२, "आभीक्षण्ये द्वे भवतः" (वा।८८७) इति द्विर्वचनम्()। "रन्धो वत्र्तते" इति। भावे घञ्()। अथ रन्धयतीत्यादिषु परत्वात्? "अत उपधायाः" ७।२।११६ इति वृद्धिः प्राप्नोति, सा कस्मान्न भवति? इत्यत आह--"परापि सती" इत्यादि। नित्यत्वं पनः कृताकृतप्रसङ्गित्वान्नुमः। स हि कृतायां वृद्धौ प्राप्नोत्यकृतायामपीति नित्यः; वृदधिस्तु नुमि कृते न प्राप्नोत्यकारस्यानुपधत्वादित्यनित्या। "रद्धा" इति। "झषस्तथोर्धोऽधः" ८।२।४० इति तकारस्य धकारः, धातुधकारस्य जश्त्वम्()--दकारः॥
बाल-मनोरमा
रधिजभोरचि १४५, ७।१।६१

रधिजभोः। "रध हिंसाया"मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः। "इदितो नुम् धातो"रित्यतो नुमित्यनुवर्तते। तदाह--एतयोरिति। अनिदित्त्वान्नुम्विधिः। जम्भत इति। शपि नुम्। "जम्भिते"त्यादाविटि अच्परकत्वान्नुम्। अचि किम्?। रद्धा। जब्धम्। श्रम्भु इति। अकारमध्यः। ष्टुभु स्तम्भ इति। ष्टुत्वेन तकारस्य टः। षोपदेशोऽयम्। विष्टोभत इति। "उपसर्गात्सुनोती"ति षत्वम्। व्यष्टोभिष्टेति। "प्राक्सितादड्व्यवायेऽपी"ति षत्वम्। तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः। गुपू रक्,ण इति। ऊदिदयम्।

तत्त्व-बोधिनी
रधिजभोरचि ११९, ७।१।६१

रन्धयति। परापि वृद्धिर्नित्येन नुमा बाध्यते। अचीति किम्?। रद्दा। जब्धा।