पूर्वम्: ७।२।१०५
अनन्तरम्: ७।२।१०७
 
सूत्रम्
तदोः सः सावनन्त्ययोः॥ ७।२।१०६
काशिका-वृत्तिः
तदोः सः सावनन्त्ययोः ७।२।१०६

त्यदादीनां तकारदकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः। त्यद् स्यः। तद् सः। एतद् एषः। अदस् असौ। अनन्त्ययोः इति किम्? हे स। सा।
लघु-सिद्धान्त-कौमुदी
तदोः सः सावनन्त्ययोः ३१२, ७।२।१०६

त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥
न्यासः
तदीः सः सावनन्त्ययोः। , ७।२।१०६

"सै" इति। किमिदं प्रथमैकवचनस्य ग्रहणम्()? उत सप्तमीबहुवचनस्य? आहोस्विदुभयोरपि? तत्र प्रथमैकवचनस्य ग्रहणम्()। तथा हि--द्वयोरपि सामान्येन ग्रहणं न भवति। यदि स्यात्(), सीत्र्येवं ब्राऊयात्()। एवं हि सकारादौ कार्यं विधीयमानं तयोद्र्वयोरपि भविष्यति। तस्मादन्यतरस्य ग्रहणम्()। तथा हि--"स्यश्छन्दसि बहुलम्()" ६।१।१२९ "सोऽचि लोपे चेत्()" (६।१।१३४) इत्येवमादेर्निर्देशात्? प्रथमैकवचनस्यैव ग्रहण युक्तम्()। "हे स, सा" इति। हे शब्दो निपातसमुदायोऽवधारणार्थे वत्र्तते। ननु च त्यदाद्यत्वमत्र बाधकं भविष्यति? नैतदस्ति; अनवकाशा हि विधयो बधका भवन्ति। सावकाशं चात्वम्()। कोवकाशः? द्विशब्दः-द्वाविति। सत्यपि तस्मिन्नवकाशे यद्यपि सकरस्याप्यनन्त्योवकाशः, तथाप्यन्तस्य परत्वात्? सत्वं स्यात्()। ततश्च हे स इत्यत्र "एङ् ह्यस्वात्? सम्बुद्धेः" ६।१।६७ इति सोर्लोपो न स्यात्()। तत्र हल्ङ्यादिलोपे कृते रुत्वविसर्जनीययोः कृतयोरनिष्टं रूपं स्यात्()। सेत्यत्र तु "अजाद्यतष्टाप्()" ४।१।४ इति स्त्रियां टाब्न स्यात्()। तस्मात्? "अनन्त्ययोः" इति वक्तव्यम्()
बाल-मनोरमा
तदोः सः सावनन्त्ययोः , ७।२।१०६

तदोः सः सौ। त्यदादीनामिति। "त्यदादीनामः" इत्यतस्तदनुवृत्तेरिति भावः। तकारदकारयोरिति। सूत्रे तश्च द्चेति विग्रहः। तकारादकार उच्चारणार्थ इति भावः। सः स्यादिति। आदेशेऽपि अकार उच्चारणार्थः। त्यौ इति। सावित्युक्तेर्न सत्वमिति भावः। त्ये इति। सर्वनामत्वाज्जसः शीभाव इति भावः। स्मायादीमप्युपलक्षणमिदम्। त्यं त्यौ त्यान्। त्येन त्याभ्यां त्यैः। त्यस्मै त्याभ्यां त्येभ्यः २। त्यस्मात्। त्ययोः २। त्येषां। त्यस्मिन् त्येषु। एवं तद्शब्दः। परमस इति। अत्वादीनामाङ्गत्वात्तदन्तेऽपि प्रवृत्तेरिति भावः। ननु युष्मच्छब्दस्यापि त्यदादित्वात्तस्य प्रथमैकवचने त्वमित्यत्र "तदोः सः सौ" इति सत्वं कुतो न स्यादित्यत आह--द्विपर्यन्तेति। "त्यदादीनामः" इत्यत्र पठितं "द्विपर्यन्तानामेवेष्यते" इति वार्तिकं "तदोः सः सौ" इत्यत्राप्यनुवर्तते एवेत्यर्थः। ततः किमित्यत आह--नेहेति। इहशब्दविवक्षितमाह--त्वमिति। युष्मच्छब्दस्य द्विशब्दादुपर्येव सर्वादिगणे पाठादिति भावः। ननु "त्वाहौ सौ" इति तकारोच्चारणसामथ्र्यादेव त्वमित्यत्र सत्वं न भवति, अन्यथा "स्वाहौ सौ" इत्येव ब्राऊयात्। अतो द्विपर्यन्तानामित्यनुवृत्तिरिह व्यर्थेत्याशङ्क्य निराकरोति - न चेति। तकारोच्चारणसामथ्र्यादिह सत्वं नेति न वाच्यमित्यन्वयः। अतित्वमिति। "द्विपर्यन्ताना"मित्यननुवृत्तौ "त्व"मित्यत्रापि सत्वं स्यात्। न च "त्वाहौ सौ" इति तकारोच्चारणानर्थक्यं, त्वामतिक्रान्तोऽतित्वमिति गौणे युष्मच्छब्दस्य त्वादेशे त्वाहाविति तकारोच्चारणस्य लब्धप्रयोजनत्वादित्यर्थः। नच अतित्वमित्यत्रापि सत्वप्रवृत्तेर्दुर्वारत्वात्त्वाहाविति तकारोच्चारणानर्थक्यं दुर्वारमिति वाच्यम्, सत्वस्य सर्वाद्यन्तर्गणकार्यत्वेन गौणे तस्याऽप्रवृत्तेः। अत एवाह-संज्ञायामिति। त्यदिति। कस्यचिन्नामेदम्। अतित्यदिति। त्यमतिक्रान्त इति विग्रहः। य इति। यच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्वशब्दवद्रूपाणि। तकाराऽभावान्न सत्वम्। एष इति। एतच्छब्दस्य त्यदाद्यत्वे पररूपत्वे सर्ववदेव रूपाणि। सौ तु तकारस्य सत्वमिति विशेषः। अन्वादेशे त्विति। "द्वितीयाटौस्स्वेनः" इत्यस्य एतच्छब्देऽपि प्रवृत्तेरिति भावः।

तत्त्व-बोधिनी
तदोः सः सावनन्त्ययोः ३४१, ७।२।१०६

तदोः सः सावनन्त्ययोः। "त्यदादीनामः" इत्यतोऽनुवर्तनादाह--त्यदादीनामिति। त्यदादीनामिति किम्()। आतपः। तारकः। तदोरिति किम्()। यः। अनन्त्ययोः किम्()। हे स।अत्र परत्वात्त्यदाद्यत्वं बाधित्वा दस्य सकारे सति हल्ड()आदिना सुलोपे रुत्वविसर्गौ स्याताम्, तथाच "हे सः"इति रूपं सयात्।किञ्च स्त्रियां "स्"ति रूपं न स्यात्। यदा त्वन्त्यस्य सकारे जातेऽपि पुनःप्रसङ्गविज्ञानात्त्यदाद्यत्वं सकारस्य स्वीक्रियते, तदा न किंचिदनिष्टमित्यनन्त्ययोरिति त्यक्तुंशक्यम्। यदि तु "तदोः सः सा"--वित्यस्यानन्तरम् "अदस औ सुलोपश्चे"त्यत्र "अदसः"इति योगं विभज्याऽदस एव दकारस्य सत्वं नान्यस्य दस्ये"ति नियमः [स्वी]क्रियते, तदा तु "सकृद्गता "विति न्यायेप्यनन्त्ययोरिति त्यक्तुं शक्यम्। न चैवं द्वावात्मन इच्छति "द्वीयति", ततः क्विपि "स्व"इति रूपं नस्यात्, किंतु "द्व"इति रूपं स्यादिति फले भेदान्नियमपक्षो न संभवतीति वाच्यं,--गौणे अत्वसत्वयोरसंभवे "द्वी"रित्यस्यैव रूपस्य न्याय्यत्वादिति मनोरमायामुक्तत्वात्। सौ किम्()। तौ ते तं तौ तान्। ननु "तोः सः सौ"इत्येव सूत्रमस्तु, किमनेन "तदो"रिति पृथग्ग्रहणेनेति चेन्मैवम्, "अनेष"इत्यत्र नकारस्य सत्वप्रसङ्गात्। "नलोपो नञः""तस्मान्नडचि"इत्यजाद्युत्तरपदस्य "एष"इत्यस्य नुङ्विधानेन त्यदादितवर्गत्वान्नतारस्य। न च सत्वे सति नुङ्विधानं व्यर्थमिति वाच्यम्, "अन()आ"इत्यादौ सावकाशत्वात्। तथाच "तदौ"रित्येव सूत्रं युक्तम्। ननु "तस्मान्नुडची"ति सूत्रे "तस्मादिति पदं परित्यज्य लाङवात् "नुगची"त्येवोच्यतां, तथाच अजाद्युत्तरपदे परे नञ एव नुगागम इत्यनेष इत्यत्रनोक्तदोष इति चेत्ेवं तर्हि "नलोपः प्रातिपदिकान्तस्ये"ति सूत्रे पञ्चम्यन्तमावश्यकमेव टिदनुबन्धश्चेति। "तदो"रिति सूत्रे तोरिति वक्तुमशक्यम्। "अने,"इत्यत्रोक्तदोषात्। अत्र कैयटः--"तो"--रित्युक्तेऽप्यनेष इत्यत्र सत्वं न भवेत्, नुडागमस्य पदद्वयाश्रितत्वेन बहिरङ्गत्वादन्तरङ्सत्वद्दष्ट()आ असिद्धत्वादिति। उत्ररपदाधिकारस्थाकार्ये बहिरङ्गपरिभाषाऽभावस्य "इच एकाचोऽम्--"इत्यत्र भाष्ये उक्तत्वादयं कैयटश्चिन्त्यः। गौणेचरितार्थत्वादिति। गौणे हि अन्तर्गणकार्यत्वात्सत्वं न प्रवर्तते। "स्वाहौ सा"वित्युक्ते तु "अतिस्व"मिति स्यादिति भावः। अत्वसत्वे नेति। तयोः सर्वाद्यन्तर्गणकार्यत्वादिति भावः।अतित्यदिति। त्यमतिकान्तोऽतित्यद्।