पूर्वम्: ६।१।६६
अनन्तरम्: ६।१।६८
 
प्रथमावृत्तिः

सूत्रम्॥ एङ्ह्रस्वात् सम्बुद्धेः॥ ६।१।६७

पदच्छेदः॥ एङ्ह्रस्वात् ५।१ सम्बुद्धेः ६।१ हल् १।१ ६६ लोपः १।१ ६४

समासः॥

एङ् च ह्रस्वश्च एङ्ह्रस्वं, तस्मात् ॰ समाहारो द्वन्द्वः।

अर्थः॥

एङन्तात् ह्रस्वन्तात् च प्रातिपदिकात् उत्तरस्य हल् लुप्यते, सः चेत् सम्बुद्धेः भवति।

उदाहरणम्॥

एङन्तात् -- हे अग्ने, हे वायो। ह्रस्वन्तात् -- हे देवदत्त, हे नदि, हे वधु, हे कुण्ड।
काशिका-वृत्तिः
एङ् ह्रस्वात् सम्बुद्धेः ६।१।६९

लोपः इति वर्तते, हलिति च। अपृक्तम् इति न अधिक्रियते, तथा च पूर्वसूत्रे पुनरपृक्तग्रहणं कृतम्। एङन्तात् प्रातिपदिकात् ह्रस्वन्ताच् च परो हल् लुप्यते स चेत् सम्बुद्धेर् भवति। एङन्तात् हे अग्ने। हे वायो। ह्रस्वान्तात् हे देवदत्त। हे नदि। हे वधु। हे कुण्ड। कुण्डशब्दाततो ऽम् ७।१।२४ इति अम्। अमि पूर्वः ६।१।१०३ इति पूर्वत्वे क्र्ते लह्मात्रस्य मकारस्य लोपः। हे कतरतित्यत्र डिदयम् अद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावान् न अस्ति सम्बुद्धिलोपः। एङ्ग्रहणम् क्रियते सम्बुद्धिगुणबलीयस्त्वात्।
लघु-सिद्धान्त-कौमुदी
एङ्ह्रस्वात्सम्बुद्धेः १३४, ६।१।६७

एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥
न्यासः
एङ्हस्वात्सम्बुद्धेः। , ६।१।६७

"हलिति च" इति। वत्र्तत इत्यपेक्षते। यदि हलिति नानुवत्र्तेत, तदा हे कुण्ड+सु इति स्थिते लोपात्? परत्वादम्भावे कृते "आदेः परस्य" १।१।५३ इत्यकारलोपे "सुपि च" ७।३।१०२ इति दीर्घत्वे च हे कुण्डमित्यनिष्टं रूपं स्यादित्यभिप्रायः। "अपृक्तमिति नाधिक्रियते" इति। यदि ह्रपृक्तमिहानुवर्तेत, तर्हि हे कुण्डेत्यत्र लोपो न स्यात्(); अपृक्तसंज्ञाया अभावादिति भावः। कथं पुनज्र्ञायते--अपुक्त इह नानुवत्र्तते? इत्याह--"तथा च" इत्यादि। तथा चेति हितौ। यस्मात् पूर्वसूत्रेऽपृक्तग्रहणं कृतमतोऽवसीयते--नात्र प्रकरणेऽपृक्तग्रहणस्यानुवृत्तिरस्तौति; अन्यथा हि "वेरपृक्तस्य" ६।१।६५ इत्यत एवापृक्तग्रहणमनुवर्त्तिष्यत इति पुनरपृक्तग्रहणं पूर्वसूत्रे न क्रियेतेति। "स चेत्? सम्बुद्धेर्भवति" इति। यदि सम्बुद्धेः सम्बद्धो भवतीत्यर्थः। एतेन सम्बुद्धेरित्यस्यावयवषष्ठ()न्ततां दर्शयति। "हे अग्ने, हे वायो" इति। "ह्यस्वस्य गुणः" ७।३।१०८। "हे नदि, हे वधु" इति। "अम्बार्थनद्योह्र्यस्वः" ७।३।१०७ इति ह्यस्वत्वम्()। "हल्मात्रस्य मकारस्य लोपः" इति। हलित्यनुवृत्तेः। हे कतरदित्यत्रैकादेशे कृते ह्यस्वात्? सम्बुद्धेर्हल्? भवतीति तस्य लोपः कस्मान्न भवति? इत्याह--"हे कतरत्()" इत्यादि। "अद्ड्डतरादिभ्यः" (७।१।२५) इत्यत्र द्विडकारनिर्देशात्? डिच्छब्द आदेशो भवतीति डित्वाट्? टिलोपे ह्यसवो नास्तीति न भवति लोपः। अथैङ्ग्रहणं किमर्थम्(), यावता हे अग्ने इत्यादावपि प्रागेव सम्बुद्()धिगुणाद्? ह्यस्वादित्येवं लोपे न भवितव्यम्()? इत्यत आह--"एङ्ग्रहणम्()" इत्यादि। नित्यत्वात्? परत्वाच्च सम्बुद्धिगुमो बलीयानिति तनैव तावत्? भवितव्यम्(), तत्र कृते ह्यस्वात्? परः सम्बुद्धेर्हल्? न सम्भवतीति लोपो न प्राप्नोति, अत एङ्ग्रहणं क्रियते। ननु च विहितविशेषणं विज्ञास्यते--ह्यस्वाद्विहितायाः सम्बुद्धेरिति? नैतदस्ति; एका हीयं पञ्चमी, तत्र यदि ह्यस्वाद्विहिति विशेषणं विज्ञायते तदैङन्तादपि विज्ञायेत। तथा च --हे गौरित्यत्रापि स्यात्()। तस्मादेङ्ग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
एङ्?ह्यस्वात्संबुद्धेः १९२, ६।१।६७

एङ्ह्यस्वात्। "एङ्ह्यस्वा"दित्यङ्गविशेषणं, तदन्तविधिः। सुतिस्यपृक्तं हलित्यतो हलिति प्रथमान्तमनुवर्तते, तच्चाङ्गादित्यत्रान्वेति - "अङ्गात् परं ह"सिति। "लोपो व्यो"रित्यतो "लोप" इत्यनुवर्तते। तच्च हलित्यनेन सामानाधिकरण्येनान्वेति। लुप्यते इति लोपः। कर्मणि घञ्। "संबुद्धे"रित्यवयवषष्ठी-हलित्यत्रान्वेति। ततस्च एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं यत् संबुद्ध्यवयवभूतं "तल्लुप्यते इत्यर्थः फलति। तदाह--एङन्तादित्यादिना। ननु एङ्ह्यस्वादित्यस्याङ्गधिकारस्थत्वाभावात् कथमङ्गस्य विशेष्यत्वलाभः। तस्य वा किं प्रयोजनम्। एङो ह्यस्वाच्च परं संबुद्ध्यवयवभूतं हल्लुप्यत इत्येवास्तु। तत्राह-सम्बुद्ध्यक्षिप्तस्येत्यादि। संबुद्धेः प्रत्ययत्वात्तत्प्रकृतेरङ्गत्वमर्थाल्लब्धम्। तस्य च एङा ह्यस्वेन च विशेषितत्वात्तदन्तविधौ एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परं हल्लुप्यत इत्यर्थलाभादिह लोपो नेत्यर्थः। इहेत्यस्य विशेष्यमाह-हे कतरत्कुलेतीति। कतरशब्दस्य नपुंसकत्वस्फोरणाय कुलशब्दः। कतरशब्दान्नपुंसकलिङ्गात्संबुद्धिः सुः। "अद्()डादेशः। डकार इत्। डित्त्वसामथ्र्यादभत्वेऽपि टेरिति रेफादकारस्य लोपः "वाऽवसान#ए" इति चर्त्वे कतरदिति रूपम्। यदि एङ्ह्यस्वादित्यत्राङ्गस्य विशेष्यत्वं न स्यात्, तदा कतरदित्यत्र तकारस्य हलो ह्यस्वादकारात् परत्वात्संबुद्ध्यवयवत्वाच्च लोपः प्रसज्येत। अङ्गस्य विशेष्यत्वे तु न दोषः। अत्र हि टिलोपानन्तरं कतरिति रेफान्तमङ्गम्। तत्तु न ह्यस्वान्तम्। यत्तु तन्नाङ्गम्। रेफादकारस्य सुस्थानिकाद्डादेशावयवत्वेन प्रत्ययावयवतया प्रकृतिभागानन्तर्भावात्। नन्विह हल्ग्रहणानुवृत्तिव्र्यर्था, एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परस्य संबुद्धेर्लोपः स्यादित्येव व्याख्यायाताम्। अस्तु वा हलनुवृत्तिः , तथापि "एङन्ताद्ध्रस्वान्ताच्चाङ्गात्परा या संबुद्धिस्तदवयवो हल्लुप्यते" इति कुतो न व्याख्यायत इति चेत्, एवं सति हे ज्ञानाति न सिध्येत्। तदिदमजन्तनपुंसकलिङ्गाधिकारे ज्ञानशब्दाप्रक्रियावासरे मूल एव स्पष्टीभविष्यति। हे हरे हे विष्णो इति। हरिशब्दाद्विष्णुशब्दाच्च संबुद्धिः सुः। "ह्यस्वस्य गुण" इति गुणः। हे हरेस्, हे विष्णोसिति स्थिते, ह्यस्वात्परत्वाऽभावात्सुलोपो न स्यादत एङ्ग्रहणमित्यर्थः। ननु गुणात्पूर्वं हे हरि स्, हे विष्णु सित्यस्यामेव दशायां ह्यस्वात्परत्वादेव सुलोपसंभवादेङ्ग्रग्रहणं व्यर्थमित्यत आह--अत्रेति। संबुद्धिलोपापेक्षयाऽयं गुणः परः, नित्यश्च, अकृतेऽपि संबुद्धिलोपे तत्प्रवृत्तेः, कृते।ञपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्तेः, कृतेऽपि संबुद्धिलोपे प्रत्ययलक्षणमाश्रित्य तत्प्रवृत्ते, अतः संबुद्धिलोपात्प्रागेव ह्यस्वस्य गुणे कृते सति ह्यस्वात्परत्वा।ञभावात्सोर्लोपो न स्यात्। अत एङ्ग्रहणमित्यर्थः।

अथ द्वितीया विभक्तिः। राम अमिति स्थिते, "न विभक्तौ तुस्मा" इति मकारस्य नेत्त्वम्।

तत्त्व-बोधिनी
एङ्ह्यस्वात्संबुद्धेः १६०, ६।१।६७

संबुद्ध्याक्षिप्तस्येति। तदन्तस्यैव संज्ञाभ्युपगमे तु सम्बुद्ध्याऽङ्गमाक्षेप्तुं न शक्यते इति बोध्यम्। ह्यस्वात्परत्वं नास्तीति। तथा च सूत्रे एङ्ग्रहणमावश्यकमिति भावः। किं च "इमां किमाचामयसे न चक्षुषी"इति श्रीहर्षप्रयोगे "से" इति पृथक्पदं, "सलक्ष्मीके हे दमयन्ती"त्यर्थ इति "निगरणचलनार्थेभ्यश्चे"ति सूत्रे मनोरमायां व्युत्पादितम्। ततश्च तत्रापि संबुद्धिलोपार्थमेङ्ग्रहणमावश्यकमेव। स्यादेतत्। एङ्ग्रहणस्य "से" इत्यत्र सावकाशतया "हे हरे" इत्यादौ संबुद्धिलोपो न स्यात्, संनिपातपरिभाषाविरोधात्। तथा ह्यस्वग्रहणस्यापि "हे रामे"त्यत्र सावकाशत्वात् "हे गौरी"-त्यादौ परत्वाद्धल्ङ्यादिलोपं बाधित्वा "अम्बार्थनाद्यो"रिति ह्यस्वे कृते संबुद्धिलोपो न स्यात्। लक्ष्मीशब्दे तु हल्ङ्यादिलोपस्याप्यभावाद्धे लक्ष्मीत्यत्र सुतरां संबुद्धिलोपो न स्यात्। सत्यम्, "गुणात्संबुद्धे"रिति वक्तव्ये एङ्ह्यस्वग्रहणसामथ्र्यात्संनिपातपरिभाषां बाधित्वाऽपि संबुद्धिलोपः प्रवर्तते इति दिक्