पूर्वम्: ७।२।१३
अनन्तरम्: ७।२।१५
 
सूत्रम्
श्वीदितो निष्ठायाम्॥ ७।२।१४
काशिका-वृत्तिः
श्वीदितो निष्थायाम् ७।२।१४

श्वयतेः ईदितशनिष्थायाम् इडागमो न भवति। शूनः। शूनवान्। ईदितः ओलजी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओदितश्च ८।२।४५ इति निष्थातकारस्य नकारः। दीपी दीप्तः। दीप्तवान्। डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य। स हि नत्वार्थः, नत्वं च निष्थातो ऽनन्तरस्य विधीयते। उड्डीनः। उड्डीनवान्। निष्ठायाम् इत्यधिकारः आर्धधातुकस्य इड्वलादेः ७।२।३५ इति यावत्।
न्यासः
�आईदितो निष्ठायाम्?। , ७।२।१४

"शूनः" इति। वच्यादि ६।१।१५ सूत्रेण सम्प्रसारणम्(), "हलः" ६।४।२ इति दीर्घः। "लग्नः" इति। नत्वस्यासिद्धत्वात्? "चोः कुः" ८।२।३० इति कुत्वम्()। "उड्डीनः" इति। "ङिङ्? विहायसा गतौ" (धा।पा।११३५)। "ननु ङीङ उदात्तत्वान्निष्ठायामिट् प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः; हि उड्डयित इत्यनिष्टं रूपं स्यादिति यो मन्येत, तं प्रत्याह--"ङीङः" इत्यादि। "ओदिताम्()" इति। स्वादीनामित्यर्थः। "स्वादय ओदितः" इति वचनात। स्वादयः "षूङ्? प्राणिगर्भविमोचने" (धा।पा।१०३१) इत्यादयः। कथं कृत्वा ज्ञापकः? इत्याह--"स हि" इत्यादि। स्वदीनां ह्रोदितां मध्ये तस्यैवमर्थः पाठः--निष्ठातकारस्यौदित उत्तरस्य नत्वं यथा स्यात्()। स्यादेतत्()--इट()पि कृते नत्वं भविष्यति? इत्याह--"नतवं च" इत्यादि। "तस्मादित्युत्तरस्य" १।१।६६ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थस्यानुवृत्तेरोदितो धातोरनन्तरस्य निष्ठातकारस्य नत्वं विधीयते। तत्र यदि ङीङ परस्या निष्ठाया इट्? स्यात्(), तदा सत्यप्योदित्त्वे इटा व्यवहितत्वान्नत्वेन न भवितव्यम्()। नित्योदितां मध्ये तस्य पाठोऽनर्थकत्वान्न कृतः स्यात्(), स चास्ति; तस्मात्? स एव पाठो ज्ञापकः? नैतदस्ति; एवं ह्रानन्तर्यपरिभाषा बाधिता भवति, शास्त्रं चानिष्टं स्यात्(), एतच्चायुक्तम्(); न ह्रनिष्टार्था शास्त्रे प्रक्लृप्ति(भो प।सू।१०७) रस्ति। तस्माद्यथानन्तर्यपरिभाषा न बाध्यते शास्त्रञ्च नानिष्टं भवति, ओद#इतां मध्ये ङीङ पाठश्च सफलो भवति--स प्रकरोऽभ्युपगन्तव्यः। ततश्चौदितां मध्ये ङीङः पाटो ज्ञापक एव। अपरः प्रकारः--"ओदितश्च" ८।२।४५ इत्यत्रौदित इत्येतद्()द्विरावत्र्तयिष्यते "तस्मादित्युत्तरस्य" १।१।६६ इत्यस्याः परिभाषाया द्विरुपस्थानार्थम्(), तत्रास्या यद्()द्वितौयमुपस्थानं तस्यैतत्? प्रयोजनम्()--ङीङोऽप्यनन्तरस्यैव निष्ठातकारस्य नत्वं यथा स्यादिति। यदि च ङीङो निष्ठायामिट्? स्यात्? इटा व्यवहितत्वान्नत्वं न स्यात्()। न च शक्यते वक्तुम्()--व्यवधानेऽपि पाठसामथ्र्याद्भविष्यतीति। एवं हि परिभाषाया द्विरुपस्थानमनर्थकं स्यात्? एतच्चायुक्तम्(); तस्मादोदितां मध्ये ङीङः पाठो ज्ञापक एव। ()इआग्रहणं शक्यमकर्तुम्(), ओदित्करणादेव निष्ठायामिण्न भविष्यति, ओदित्त्वं हि नत्वार्थं क्रियते, नत्वं च निष्ठातोऽनन्तरस्य विधीयते; यदि च ततः परस्या निष्ठाया इट्? स्यात्? ओदित्त्वमनर्थकं स्यात्()? वैचित्र्यार्थं ()इआग्रहणं वेदितव्यम्()॥
बाल-मनोरमा
�आईदितो निष्ठायाम् ८४५, ७।२।१४

()आईदितो निष्ठायाम्। ()इआ, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी। "नेड्वशी"त्यतो नेडित्यनिवर्तते। तदाह---()आयतेरिति।