कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति। कृ चकृव, चकृम। सृ ससृव, ससृम। भृ बभृव, बभृम। वृञ् ववृव, ववृम। वृङ् ववृवहे, ववृमहे। स्तु तुष्टुव, तुष्टुम। द्रु दुद्रुव, दुद्रुम। स्रु सुस्रुव, सुस्रुम। श्रु शुश्रुव, शुश्रुम। सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततो ऽन्ये सेटः इति। बिभिदिव, बिभिदिम। लुलुविव, लुलुविम। अनुदात्तोपदेशानाम् अत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्ययं नियमः। वृञो हि थलि ववर्थ इति निपातनाद् व्यवस्था। स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य
७।२।६३ इत्यस्मादपि नियमात् य इट् प्राप्नोति सो ऽपि नेष्यते। तुष्टोथ। दुद्रोथ सुस्रोथ। शुश्रोथ।
कृञो ऽसुट्कस्य इति वक्तव्यम्। ससुट्कस्य इडगमो यथा स्यात्। सञ्चस्करिव, सञ्चस्करिम। ऋतो भारद्वाजस्य
७।२।६३ इत्येतदप्यसुट्कस्य एव इष्यते, सञ्चस्करिथ।
"सकृव, चकृम" इति। "परस्मैपदानाम्()"
३।४।८२ इत्यादिना वस्मसोर्वमादेशौ। "क्रादय एव" इति। नियमस्य स्वरूपं दर्शयति। "लिट()एव क्रादयोऽनिटः" इत्येष तु विपरीतनियमो नाशङ्कनीयः; "कृतलब्धक्रीतकुशलाः"
४।३।३८ इति "तमधिष्टो भृतो भूतो भावी वा"
५।१।७९ इत्यादिनिर्देशात्()।
केन पुनस्तेषामिट्प्रतिषेधः सिद्धः,
यतः सिद्धे सत्यारम्भो नियमार्थ उच्यते? इत्यत आह--"अनुदात्तोपदेशानाम्()" इत्यादि। अनुदात्तोपदेशा वृङ्वृञ्भ्यामन्ये करोत्यादयः, तेषामेव "अचः"
७।२।१० इत्यादिना प्रकृत्याश्रयः प्रतिषेधः सिद्धः। वृङ्वृञोस्तु "श्रयुकः किति"
७।२।११ इति प्रत्ययाश्रयः, न तु प्रकृत्याश्रयः; तयोरुदात्तत्वात्()। "तत्()" इत्यादि। यत एव तेषां यथायोगं प्रकृत्याश्रयः प्रत्ययाश्रयश्च प्रतिषेधः सिद्धः, तस्मादुभयस्यापि प्रतिषेधस्य प्रयुक्तस्यायं नियम इत्यर्थः। धात्वन्तरेभ्यो व्यवच्छिद्य करोत्यादीनां प्रतिषेधस्थेह नियमो वेदितव्यः।
"कथं पुनरेतद्वृञं प्रति थलि नियमार्थमुपपद्यते? सति हि प्रतिषेधे नियमो भवति। वृञस्थलीट्()प्रतिषधः। तस्य हि नात्र प्रकृत्याश्रयः प्रतिषेधः सिद्धः; उदात्तत्वात्()। नापि प्रत्ययाश्रयः; थलः कित्त्वाभावात्()।
तस्मात्? वृञं प्रति थलीट्प्रतिषेधार्थतैव युक्ता,
न नियमार्थता? इत्यत आह--"वृञो हि" इत्यादि। व्यवस्था=नियमः। "बभूथाततन्थजगृम्भववर्थेति निगमे"
७।२।६४ इति निपातनाट्वृञो निगम एव थलीट्प्रतिषेधेन भवितव्यम्(), न भाषायाम्()। यत एवं व्यवस्था तस्मान्नायं वृञस्थलीट्प्रतिषेधः; अन्यथा ववर्थेति निपातनस्य वैयथ्र्यं स्यात्()।
तस्मात्? प्रतिषेधाभावात्? वृञोऽप्येतत्? सूत्रं नियमार्थमेव विज्ञायत इत्येकान्त एषः।
"स्तुद्रुरुआउश्रुवां तु" इत्यादि।
अपिशब्दः आर्धधातुकलक्षणोऽपि य इट्? प्राप्नोति सोऽपि नेष्यत इति दर्शनार्थः। कथं पुनरिष्यमाणोऽपि लभ्यते, पुरस्तात्(), प्रतिषेधकाण्डस्य बलीयस्त्वात्()। इह च "न वृद्भ्याश्चतुभ्र्यः"
७।२।५९ इत्यस्यानन्तरमिदं प्रतिषेधकाण्डं कर्त्तुं युक्तम्()। एवं द्विष्प्रतिषेधाश्रयणं न कत्र्तव्यं स्यात्()।
यदयं पुरस्तात्? प्रतिषेधं करोति,
तस्यैतत्? प्रयोजनम्()--इष्मात्रस्यानाश्रितविशेषविधानस्य प्रतिषेधो विज्ञायते,
पुरस्तात्? प्रतिषेधे क्रियमाणे सति विशेषमनाश्रित्येण्मात्रस्यायमपवादो भवति।
तेन यावानिट्? प्राप्तस्तस्य सर्वस्य प्रतिषेधो भवति सिद्धः। अन्यस्त्वाह--"नेटि"
७।२।४ इत्यनुवत्र्तमाने पुनरिङ्ग्रहणसामथ्र्यात्(), पुनः प्रतिषेधसामथ्र्याच्च इण्मान्नस्य प्रतिषेधो विज्ञायते।
"कुञोऽसुट्कस्येति वक्तव्यम्()" इति। करोतेरविद्यमानसुटः षतिषेधो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः।
किमर्थम्()? ससुट्कस्येडागमो यथा स्यात्()। तत्रेदं व्याख्यानम्()--"द्वन्द्वे घि" (२।२।
३२) इत्यनेन स्तुप्रभृतीनामन्यतमस्य घिसंज्ञकस्य पूर्वनिपातमकृत्वैतत्? सूचितम्()--यतेह पूर्वनिपातलक्षणं व्यभिचरति स्वविषये न प्रवत्र्तते, तथेदमपीति। तेन यदा करोतिः ससुट्कः, तत्र न प्रवत्र्तत इति। "सञ्चस्करिव, सञ्चस्करिम" इति। "सम्पर्युपेभ्यः करोतौ भूषणे"
६।१।१३२ इति सुडित्यनुवत्र्तमाने "अडब्यासव्यवायेऽपि"
६।१।१३१ इति सुट् क्रियते।
"ऋतो भारद्वाजस्य
७।२।६३ इत्येतदप्यसुयट्कस्यैवेष्यते" इति। "कृञः" इति सम्बध्यते।
कथं पुनरसुट्कस्यैव भवतीति लभ्यते? यथा लभ्यते तच्च श्रूयताम्()--तत्र हि "उदितो वा"
७।२।५६ इत्यतो वेत्यनुवत्र्तते मण्डूकल्पुतिन्यायेन, सा च व्यवस्थितविभाषा, तेनासुट्कस्यैव भवतीति॥
कृसृभृ। "डुकृञ् करणे"। "कृञ् हिंसायाम्"। इह निरनुबन्धग्रहणादेकानुबन्धद्वयनुबन्धयोरुभयोग्र्रहणम्। एवमग्रेऽपि "भृञ् भरणे" "डुभृञ् धारणपोषणयो"रित्युभयोग्र्रहमम्। "सृ गतौ"। "वृङ् संभक्तौट। "वृञ् वरणे"। इह निरनुबन्धकग्रहणाद्भिन्नानुबन्धयोरप्युभयोग्र्रहणम्। कृ सृ भृ एषामनुदात्तत्वात् "एकाच उपदेश" इति प्रकृत्याश्रये निषेधे प्राप्ते, वृङ्वृञोस्तूदात्तत्वात् "श्र्युकः किती"ति प्रत्ययाश्रये निषेधे प्राप्ते नियमोऽयमित्याह-- क्रादीनां चतुर्णामिति। इह स्तुद्व्रादीनां चतुर्णां ग्रहणस्य भारद्वाजनियमप्रापितेण्निषेधोऽपि प्रयोजनमिति बोधयितुमष्टानां ग्रहणमिति नोक्तम्। इण्निषेध इति। "नेड्वशी"ति प्रक्रमान्नञा प्रापितस्यैवाऽभावस्य नियमो न तु विभाषाबलभ्यस्यापि। "अनन्तरस्ये"ति न्यायादपि संनिहितस्यैव नियम उचितः। तेन-- सिषेधिथ। सिषेद्ध। सिषिधिव। सिषिध्व इत्याद्युभयं भवति। नान्येभ्य इति।तेन पेचिव, बभूविवेत्यादि सिद्धम्। नचैवं क्रादिनियमेनैव "नेड्वशि कृती"ति निषेधस्याप्यप्रवृत्तौ सेदिवान् जक्षिवानित्यादि सिध्यत्येवेति "वस्वेकाजाद्धसा"मितीड्विधानं किमर्थमिति शङ्क्यं, तस्य नियमार्थत्वेन व्याख्यास्यमानत्वात्। अन्यथा बभूवानित्यत्रापीडागमः स्यादिति। नन्विह "क्रादिभ्यश्चेदिण्न स्यात्तर्हि लिट()एवे"ति विपरीतनियमः किं न स्यात्। तथा च कर्ता अकार्षीदित्यादाविडागमः स्यादिति चेत्। मैवम्। "कृते ग्रन्थे", "तमधीष्टो भृतः", परिवृतो रथः" इत्यादिनिर्देशविरोधापत्तेः। वमादिष्विति। आदिशब्ेदन सेध्वेवहिमहीनां ग्रहणम्। तुष्टुध्वे। तुष्टुवहे। तुष्टुमहे इत्यादि। स्यादेतत्-- अस्तु प्रकृत्याश्रयनिषेधस्य नियमः, प्रत्ययाश्रयस्य तु न संभवति, वृग्रहमस्य ववर्थेत्यत्राऽप्राप्तनिषेधप्रापकत्वात्। न ह्रत्र प्रत्ययाश्रयो निषेधः प्राप्नोति, थलोऽकित्त्वात्। नापि प्रकृत्याश्रयः , वृञ उदात्तत्वात्। न चैवम्पि वृङो नियमार्थत्वमस्त्विति वाच्यं, तस्य विशिष्याऽग्रहणात्। यद्यपि विशिष्य ग्रहणे वृञोऽपि नास्ति, तथाप्यप्राप्तनिषेधप्राप्तिफलकत्वाद्वृ इति वृञ एव ग्रहणं भवेत्। विदिनियमयोर्विधिरेव ज्यायानिति न्यायात्। एवं च बभूविवेत्यादौ "श्र्युकः किती"ण्निषेधो दुर्वार इति चेत्। अत्राहुः-- "बभूथाततन्थजगृजगृम्भववर्थेति निगमे" इति सूत्रेण छन्दसि ववर्थेति निपातनाद्भाषायां वृञस्थल इटः स्वीकर्तव्यतया वृग्रहणस्य थल्विषयत्वाऽयोगात्, वमादीनां च कित्त्वन नियमस्य सुस्थत्वादिति।