पूर्वम्: ७।४।४६
अनन्तरम्: ७।४।४८
 
सूत्रम्
अच उपसर्गात्तः॥ ७।४।४७
काशिका-वृत्तिः
अच उपसर्गात् तः ७।४।४७

अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययम् आदेशो भवति तकारादौ किति। प्रत्तम्। अवत्तम्। नीत्तम्। परीत्तम्। अचः इति किम्? निर्दत्तम्। दुर्दत्तम्। उपसर्गातिति किम्? दधि दत्तम्। मधु दत्तम्। घोः इत्येव, अवदातम् मुखम्। उपसर्गातिति पच्चमीनिर्देशादादेरलः प्राप्नोति? तत्र समाधिमाहुः। अचः इत्येतद् द्विरावर्तयितव्यम्, तत्र एकं पच्चम्यन्तं उपसर्गविशेषणार्थम्, अपरम् अपि षष्ठ्यन्तं स्थानिनिर्देशर्थम् इत्याकारस्य स्थाने तकारो भवति। द्वितकारो वा संयोगो ऽयम् आदिश्यते, सो ऽनेकाल्त्वात् सर्वस्य भविष्यति। अपो भि ७।४।४८ इत्यत्र पञ्चम्यन्तम् अचः इत्यनुवर्तते। तेन पकारमात्रस्य भविस्यति। द्यतेरित्त्वादचस्त इत्येतद् भवति विप्रतिषेधेन। अवत्तम्। प्रत्तं जुहोति।
न्यासः
अच उपसर्गात्तः। , ७।४।४७

ददादेशस्यायमपवादः। "त इत्ययमादेशो भवति" इति। अकार उच्चारणार्थः। प्रत्तमित्यादावाकारस्य तकारे कृते दकारस्य चत्र्वम्()--तकारः "नीत्तम्()" इति। "दस्ति" ६।३।१२३ इति दीर्घत्वम्()। "अवदात्तम्()" इति। "दैप्? शोधने" (धा।पा।९२४) इत्येतस्यैतद्रूपम्()। "आदेरलः प्राप्नोति" इति। "आदेः परस्य" १।१।५३ इति वचनात्()। "अच इत्येतद्द्विरावत्र्तयितव्यम्()" इति। "अचः" इत्येतस्य द्विरावृत्तावचोऽच इति द्वे शब्दरूपे भवतः। तत्रैकं पञ्चम्यन्तम्(); अपरं षष्ठ()न्तम्()। तत्रैकेनोपसर्गो विशिष्यते--अजन्तादुपसर्गादिति। इतरेणापि स्थानी निर्दिश्यत इत्येवमाकारस्यायमादेशो भवति। "द्वितकारो वा" इति। अथ वा--"अच उपसर्गात्तः" इति। द्वितकार एव संयोगादेशो निर्दिश्यते, तेनास्यानेकास्त्वात्? सर्वस्यैव भवति, यदि तर्हि द्वितकारकोऽयं निर्देशस्तदा "अपो भि" ७।४।४८ इत्यनेनापि सर्वादेशः प्राप्नोति, नेकाल्त्वादित्याह--"अषो भि" इत्यादि। "अपो भि" इत्यत्र पञ्चम्यन्तमच इत्यनुवत्र्तते, तेन सत्यप्यनेकाल्त्वे "तस्मादित्युत्तरस्य" १।१।६६ इति पकारमात्रस्य भविष्यति, न सर्वस्येति। "द्यतेः" इत्यादि। द्यतेरित्यस्यावकाशः--यत्राजन्त उपसर्गो न भवति--निर्दितम्(), दुर्दितमिति; अस्यादेशस्यावकाशः--अजन्तादुपसर्गात्? परो योऽन्यो घुसंज्ञकः--"डुदाञ्? दाने" (धा।पा।१०९१), अवत्तम्(), परीत्तमिति; अजन्तादुपसर्गादुत्तरस्य द्यतेरुभयप्रसङ्गे सति तकार एव भवति विप्रतिषेधेन--अवत्तम्(), प्रत्तमिति॥
बाल-मनोरमा
अच उपसर्गात्तः ८८४, ७।४।४७

अच उपसर्गात्तः। त इत्यत्राऽकार उच्चारणार्थः। "अच" इत्यावर्तते, एकमुपसर्गविशेषणं, द्वितीयं तु स्थानिसमर्पकं। तदाह-- अजन्तादिति। घोरिति। घोरवयवस्येत्यर्थः। तः स्यादिति। तकारः स्यादित्यर्थः। ददादेशापवादः। चत्त्र्वमिति। प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चर्त्वेन तकार इत्यर्थः। अवदत्तं विदत्तं चेति। भाष्यस्थश्लोकोऽयम्। अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते। नाऽयम् "अच उपसर्गात्तः" इत्यस्याऽपवाद इति भ्रमितव्यमित्याह-- चशब्दाद्यथाप्राप्तमिति। तथा चाऽवदत्तादिशब्देषु ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः। अत एव प्रकृतसूत्रभाष्ये "अच उपसर्गात्तःर" इत्यस्यावकासः-- प्रत्तमवत्तमिति सङ्गच्छते इति भावः।

तत्त्व-बोधिनी
अच उपसर्गात्तः ७२८, ७।४।४७

अच उपसङख्यार्गात्तः। तकारादकार उच्चारणार्थः। "अच" इत्यावर्तते। तत्रैकं पञ्चम्यन्तमुपसर्गं विशिनष्टि। अपरं षष्ठ()न्तं स्थानलाभायेति व्याचष्टे-- अजन्तादित्यादिना। यद्वा "अच इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकाल्त्वात्सर्वस्य घोर्भवविष्यति। एकतकारो हि "अलोऽन्त्यस्ये"ति बाधित्वा "आदेः परस्ये" त्यादेरेव स्याद च इति पञ्चमीनिर्देशात्। यद्येवम् "अपो भी" त्युत्तरसूत्रेऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत्। अत्राहुः-- पञ्चम्यान्तस्याऽच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यत तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्त्वेन सिद्धमिष्टमिति। अवदत्तमित्यादि। आदिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं, नेतरेषाम् , असंभवात्। दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्याऽर्थः। इष्यते इति। तादेशबाधनार्थं निपातनमिष्यत इत्यर्थः। अन्ये तु अवादीनामपुसर्गप्रतिरूपकत्वाश्रयणे ह्रवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गत्वाश्रयणे तु पूर्वोक्तमवत्तं वीत्तमित्यादीति नाऽपूर्वमिदं वचनमित्याहुः।