पूर्वम्: ७।४।६२
अनन्तरम्: ७।४।६४
 
सूत्रम्
न कवतेर्यङि॥ ७।४।६३
काशिका-वृत्तिः
न कवतेर् यङि ७।४।६३

कवतेः अभ्यासस्य यङि परतः चुः न भवति। कोकूयते उष्ट्रः। कोकूयते स्वरः। कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः। तयोः चुत्वम् एव भवति। चोकूयते। यङि इति किम्? चुकुवे।
न्यासः
न कवतेर्यङि। , ७।४।६३

पूर्वेण प्राप्तस्य चुत्वस्यायं निषेधः। "कोकूयते" इति। "अकृत्सार्वधातुकयोः" ७।४।२५ इति दीर्घः, "गुणो यङ्लुकोः" ७।४।८२ इत्यभ्यासस्य गुणः। अथ विकरणनिर्देशः किमर्थः, न "कोः" इत्येवोच्येत? इत्यत आह--"कवतेः" इत्यादि। "कुङ्? शब्दे" (धा।पा।१४०१) इति तौदादिकः, "कु शब्दे" (धा।पा।१०४२) इत्यादादिकः, "कुङ्()" (धा।पा।१५१) इति मौदादिकः शब्दार्थ एव; तत्र भौवादिकस्य ग्रहणं यथा स्यात्(), इतरयोर्मा भूदित्येवमर्थो विकरणनिर्देशः। ननु चानयोर्निवृत्तेरेतत्? फलम्()--चोकूयत इत्येतदपि रूपं यथा स्यादिति, एतच्च "कोः" इत्यपि निर्देशे निरनुबन्धकपरिभाषया कौतेरेव निरनुवन्धकस्य ग्रहणे सति सिध्यत्येव, तस्मात्? "कोः" इत्येवं निर्देशः कत्र्तव्यः? नैतदेवम्(); सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्()। तथा हि--कवतिस्तावदव्यक्तशब्दे वत्र्तते--उष्ट्रः कोकूयत इति; कुवतिरप्यात्र्तस्वरे वत्र्तते--चोकूयते बृषल इति, पोडित इत्यर्थः; कौतिस्तु शबदमात्रे। तस्माद्विशिष्यटार्थस्य परिग्रहो यथा स्यादित्येवमर्थो विकरणनिर्देशः कत्र्तव्यः। ननु लुग्विकरणपरिभाषया कौतेर्न भविष्यतीति, तत्किमर्थं तन्निवृत्तयर्थता विकरणस्योपपद्यते? एवं मन्यते--कुवतिनिवृत्त्यर्थोऽवश्यं विकरणनिर्देशः कत्र्तव्यः, सोऽन्यार्थः क्रियमाणः कौतेर्निवृत्त्यर्थोऽपि भवति, तेन लुग्विकरणपरिभाषा (व्या।प।५०) अत्र कौतेर्निवृत्त्यर्थमाश्रयितव्या न भवति। "चुकुवे" इति। पूर्ववत्? तशब्दस्यैच्? "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङ्()॥
तत्त्व-बोधिनी
न कवतेर्यङि ४०४, ७।४।६३

न कवतेर्यङि। इह कोरित्येव वाच्ये कवतेरिति शपा निर्देशात्कूङ् शब्द इति भ्वादिरेव गृह्रते न तु कु शब्द इत्यदादिः, कूङ् शब्द इति तुदादिश्चेत्याशयेनाह-- कौतिकुवत्योस्त्विति। ननु "को"रित्युक्तेऽपि कूङः प्रसङ्गो नास्ति, दीर्घान्तत्वात्, लुग्विकरणपरिभाषया च कौतेरपि प्रसङ्गो नास्तीति चेत्। अत्राहुः-- "को"रित्युक्ते तु निनुबन्धपरिभाषाया अपि जागरूकत्वादुभयोग्र्रहणं स्यादिति कौतिव्यावृत्त्यर्थं शपा निर्देश कर्तव्यः। कृते च तस्मिन्कुवतिमपि व्यावर्तयतीत्यत्र तात्पर्यमिति। "कुङ" इत्येवाऽत्र सुवचम्।