पूर्वम्: ८।१।४६
अनन्तरम्: ८।१।४८
 
सूत्रम्
जात्वपूर्वम्॥ ८।१।४७
काशिका-वृत्तिः
जात्वपूर्वम् ८।१।४७

जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति। जातु भोक्ष्यसे। जातु करिष्यामि। अपूर्वम् इति किम्? कटं जातु करिष्यति।
न्यासः
जात्वपूर्वम्?। , ८।१।४७

"अपूर्वम्()" इति। अविद्यमानं पूर्वं यस्मात्? तदपूर्वम्()। अत्र च द्वयं सम्भाव्यते--तिङन्तस्य चेदं विशेषणं स्यात्(), जातुशब्दस्य वेति। तत्र यदि तिङन्तस्य स्यात्? "आहोउताहो जानन्तरन्()" ८।१।४९ इत्यत्रानन्तर ग्रहणं न कुर्यात्()। अस्यैव ह्रपूर्वग्रहणस्य तत्रानुवृत्तेस्तिङन्तस्यानन्तर्य लभ्यते; तस्माज्जातुशब्दस्येदं विशेषणम्(), इत्यालोच्याह--"जात्वित्येतत्()" इत्यादि॥