पूर्वम्: ८।२।१२
अनन्तरम्: ८।२।१४
 
सूत्रम्
उदन्वानुदधौ च॥ ८।२।१३
काशिका-वृत्तिः
उदन्वनुदधौ च ८।२।१३

उदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, संज्ञायां विषये च। उदन्वान् नाम ऋषिः यस्य औदन्वतः पुत्रः। उदधौ उदन्वान्। यस्मिन्नुदकं धीयते स एवम् उच्यते। उदधाउ इति किम्? उदकवान् घटः इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासम्बन्धसामान्यम्।
न्यासः
उदन्वानुदधौ च। , ८।२।१३

"उदधावर्थे" इति। यस्मिन्नुदकं धीयते तस्मिन्नर्थं इत्यर्थः। तथा ह्रुदके कर्मण्युपपदे "कर्मण्यधिकरणे च" ३।३।९३ इति किप्रत्यये कृते "पेषंवासवाहनधिषु च" ६।३।५७ इत्युदकस्योदभावे कृत उदधिशब्दो व्युत्पाद्यते। चकारेण "संज्ञायाम्()" ८।२।११ इत्यनुकृष्यत इति दर्शयति। "संज्ञायां च" इत्यादि। "उदधावर्थे" इत्यादि। उदधिग्रहणञ्च संज्ञार्थम्()। "उदन्दान्" इति। डदकं धेयमास्मिन्नस्तीत्यर्थविवक्षायां मतुप्()। "स एव मुच्यते" इति। न तु गङ्गादिः। यदि यस्मिन्नुदकं धीयते [नास्ति--कांउ।पुस्तके] स एव मुच्यते--उदकवान्? घट इत्यभिधानं प्राप्नोति, घटेऽप्युदकं धीयत इत्यत आह--"उदकवान्? घटः" इत्यादि। इह विवक्षा शब्दव्युत्पत्तेः प्रधानं कारणम्(), न वस्तुनः सत्ता। स च येन दधात्यर्थेनोदधिरित्युच्यते, सोऽस्मिन्? प्रयोगे घटे न विवक्षितः, किं तर्हि? उदकसत्तायाः सम्बन्धमात्रम्()। उदकमस्मिन्नस्तीत्येवन्मात्रं विवक्षितम्। अतो दधात्यर्थस्याविवक्षितत्वाद्घटस्योदधित्वं विद्यमानमप्यसङ्कल्प्यमेवेति नायं निपातनस्य विषयः। तेन घट उदकवानित्युच्यते। यदा तु दधात्यर्थो विवक्ष्यते तदोदन्वानित्येवं वक्तव्यम्()
बाल-मनोरमा
संज्ञायाम् १८७४, ८।२।१३

संज्ञायाम्। "अहीवती"त्यादि नदीविशेषस्य, नगरीविशेषस्य वा संज्ञा। शरादित्वादिति। "शरादीनां चे"ति दीर्घ इत्यर्थः।

बाल-मनोरमा
उदन्वानुदधौ च १८७६, ८।२।१३

उदन्वानुदधौ च। उदधौ संज्ञायां चेति। वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्।