पूर्वम्: ८।३।१
अनन्तरम्: ८।३।३
 
सूत्रम्
अत्रानुनासिकः पूर्वस्य तु वा॥ ८।३।२
काशिका-वृत्तिः
अत्रानुनासिकः पूर्वस्य तु वा ८।३।२

अधिकारो ऽयम्। इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वम् अनुक्रमिष्यामस् तत्र। वक्ष्यति समः सुटि ८।३।५। सम्̐स्कर्ता। सम्̐स्कतुम्। सम्̐स्कर्तव्यम्। अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम्। अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोप ८।३।१३ इत्यत्र अपि पूर्वस्य अनुनासिकः आशङ्क्येत।
लघु-सिद्धान्त-कौमुदी
अत्रानुनासिकः पूर्वस्य तुवा ९१, ८।३।२

अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥
न्यासः
अत्रानुनासिकः पूर्वस्य तु वा। , ८।३।२

पूर्वत्वमिदमापेक्षिकम्(), रुश्चेहानुवत्र्तते। न च तदपेक्षं पूर्वत्वमस्य विज्ञात्तुं शक्यते; इत उत्तरं ह्रनुनासिको रुश्च समनुवृत्तेरेककालं विधौयत इत्यनुनासिकविधानकाले रोरनिष्पन्नत्वम्()। अतस्तदपेक्षया पूर्वत्वमिदमशक्यं विज्ञातुम्()। तस्माद्यस्य स्थाने रुत्वं विधीयते तदपेक्षया पूर्वत्वं विज्ञायते, इत्याह--"यस्य स्थाने रुर्विधीयते ततः पूर्वस्य" इति। तुशब्दः परस्मात कार्यिणः पूर्वस्य विशेषं दर्शयति। परस्य रुत्वकार्यम्(), पूर्वस्य त्वनुनासिक इति। अथ वा--रुत्वादननासिकस्य विशेषं दर्शयति। रुत्वं नित्यम्? अनुनासिकस्तु विभाषेति। अछाच्कद्कगणं किमर्थम्()? अत्र रुप्रकरणे यथा स्यादिति चेन्न; अधिकारादेवैतत्? सिद्धम्()। यथा हि "अनुनासिकः पूर्वस्य" इत्यधिकृतमुत्तरत्रानुवत्र्तते, तथा रुरित्येतदपि। तत्रान्तरेणाप्यत्रेति वचनं रुप्रकरणे भविष्यतीत्यत आह--"अत्र" इत्यागदि। सन्नियोगः--यौगपद्यम्()। यौगपद्यम्()। रुणा सह कथं नाम स प्रतीयेतेत्येवमर्थमत्रग्रहणम्()। अवधारणञ्चात्र द्रष्टव्यम्()--रुणैवेति। सन्नियोगमात्रं हि रुत्वानुनासिकयोः; उत्तरत्र द्वयोरप्यनुवृत्तेः। स्थानिऊभेदेन विरोधाभावाद्विनाप्यत्रग्रहणेन लभ्यत एव। ननु रुप्रकरणादूध्र्वमनुनासिकस्यास्वरितत्वादेव सन्नियोगो न विज्ञास्यते, त()त्क तदर्थेनात्रग्रहणेन? इत्यत आह--"अधिकारपरिमाणापरिग्रहे हि" इत्यादि। अधिकारस्य परिमाणमियत्ता, तस्य परिग्रहः=परिज्ञानम्(), निश्चयः। तस्मिन्नसति मन्दधीभिः प्रतिपत्तृभिः किमुत्तरत्रानुनासिकस्य स्वरितत्वमस्ति? अहोस्विन्नास्ति? इति जातसन्देहैः "ढोढे लोपः" (८।३।१३) इत्यादावपि यस्य स्थाने ढलोपदिकार्यं विधीयते तस्मात्? पूर्वस्यानुनासिक आशङ्क्येत। अथ वाग्रहणं किमर्थम्(), यावतोत्तरसूत्रे नित्यग्रहणादेव विकल्पोऽस्य विज्ञास्यते? नैतदस्ति; एवं हि पूर्वसत्रे विकल्पो विज्ञायेत। तस्माद्वेति वक्तव्यम्()? न वक्तव्यम्(); आचार्यप्रवृत्तिज्र्ञापयति--विकल्पेनायं विधिर्भवतीति, यदयमुत्तरसूत्रे यस्यानुनासिको न कृतस्तस्माद्रोः पूर्वस्मात्? परमनुस्वारागमं शास्ति न हि नित्येऽस्मिन्? विधौ तत्? सम्भवति, रोः पूर्वस्य यस्यानुनासिको न कृत इति। एवं तर्हि विस्पष्टार्थं वाग्रहणम्()॥
बाल-मनोरमा
अत्रानुनासिकः पूर्वस्य तु वा १३५, ८।३।२

अत्रानुनासिक। "मतुवसौ रु सम्बुद्धौ" इति रुत्वविध्यनन्तरमिदं पठितम्। अतोऽत्रेत्यनेन रुप्रकरणे इत्यर्थो गम्यते। पूर्वत्वं च "रु" इत्यपेक्षया ज्ञेयम्, प्रकृत्वात्। तदाह--अत्रेति। उत्तरसूत्रे अनुनासिकाभावपक्षानुवादादेव विकल्पे सिद्धे "वा"ग्रहणं स्पष्टार्थम्। "परस्य नित्यं रुत्वं, पूर्वस्य तु अनुनासिकविकल्प" इति वैषम्यस्य सिद्धस्यैव द्योतनार्थस्तुशब्दोऽपि स्पाष्टार्थ एव। इदमेवाभिप्रेत्य मूले विवरणवाक्ये वाग्रहणं त्यक्तमिति प्रौढमनोरमायां मूलकृतैव उक्तम्। अनेन सूत्रेण "सर्" इत्यत्र सकारादकारोऽनुनासिकः। सँर्()स्कर्तेति स्थिते।

तत्त्व-बोधिनी
अत्रानुनासिकः पूर्वस्य तु वा १०९, ८।३।२

अत्रानुनासिकः। अयमधिकारो विधिर्वेति पक्षद्वयम्। आद्ये "अत्राग्रहणमनर्थकम्, अधिकारादेव रूप्रकरणलाभात्। "तु"शब्दस्तु अधिकारपक्षे परस्मात्कार्यिणः पूर्वकार्यस्य विशेषद्योतनार्थः,-"परस्य नित्यं रुत्वं पूर्वस्य तु वाऽनुनासिक" इति। विधिपक्षे "तु"शब्दो व्यर्थो "वा" ग्रहणं स्पष्टार्थम्, "अनुनासिकात्परः" इति ज्ञापकादेव सिद्धेः। नहि विकल्पं विना "अनुनासिकं विहाये"त्यनुनासिकाऽभावपक्षः संभवति। इदमेव ध्वनयितुं वृत्तौ "तुध्वे"तिशब्दावनुक्त्वा "रोः पूर्वस्यानुनासिकः स्या"दित्येवोक्तम्। रोः पूर्वस्येति। उपलक्षणमेतल्लोपस्यापि। अत्र "रुप्रकरणे यो विधिस्ततः पूर्वस्ये"ति निष्कृष्टोऽर्थः। एवं "रोः पूर्वस्मात्पर" इत्यस्यापि "रुप्रकरणे यो विधिस्ततः पूर्वस्मात्पर" इत्यर्थो बोध्यः।