पूर्वम्: ८।२।१०८
अनन्तरम्: ८।३।२
 
सूत्रम्
मतुवसो रु सम्बुद्धौ छन्दसि॥ ८।३।१
काशिका-वृत्तिः
मतुवसो रु सम्बुद्धौ छन्दसि ८।३।१

संहितायाम् इति वर्तते। मत्वन्तस्य वस्वन्तस्य च पदस्य रुः इत्ययम् आदेशो भवति सम्बुद्धौ परतः छन्दसि विषये। मत्वन्तस्य तावत् इन्द्र मरुत्व इह पाहि सोमम्। हरिवो मेदिनं त्वा। मरुतो ऽस्य सन्ति, हरयो ऽस्य सन्ति इति मतुप्। सुप्तकारयोः हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुः भवति। वस्वन्तस्य खल्वपि मीढ्वस्तोकाय तनयाय मृल। इन्द्र साह्वः। क्वसोर् निपातनम् दाश्वान्साह्वान्मीढ्वांश्च इति। मतुवसोः इति किम्? ब्रह्मन् स्तोष्यामः। सम्बुद्धौ इति किम्? य एवं विद्वानग्निम् उपतिष्ठते। छन्दसि इति किम्? हे गोमन्। हे पपिवन्। वन उपसङ्ख्यानं कर्तव्यम्। यस्त्वायन्तं वसुना प्रातरित्वः। इणः प्रातःपूर्वस्य छन्दसि क्वनिप्। विभाषा भवद्भगवदघवतामोच्चावस्य। छन्दसि भाषायां च भवत् भगवतघवतित्येतेषां विभाष रुः वक्तव्यः, अवशब्दस्य च ओकारादेशः। सामान्येन छन्दसि भाषायां च इदं वचनम्। भवत् हे भोः, हे भवन्। भगवत् हे भगोः, हे भगवन्। अघवन् हे अघोः, हे अघवन्। निपातनविज्ञानाद् वा सिद्धम्। अथ वा भो इत्येवम् आदयो निपाता द्रष्टव्याः। असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते। भो देवदत्तयज्ञदत्तौ। भो देवदत्तयज्ञदत्तविष्णुमित्राः। तथा स्त्रियाम् अपि च दृश्यन्ते, भो ब्राह्मणि इत्यादि। संहिताधिकार उत्तरत्र उपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ नश्छव्यप्रशान् ८।३।७ इति।
न्यासः
मतुवसो रु सम्बुद्धौ छन्दसि। , ८।३।१

"युधोः" (७।१।१) इत्यत्र द्वेष्यपरीहारायोक्तं तत्? "मतुवसोः" इत्यत्रापि द्रष्टव्यम्()। "इन्द्रमरुत्व" इति। मरुच्छब्दान्मतुप्(), "झयः" ८।२।१० इति यत्वम्(), "उगिदचाम्()" ७।१।७० इति नुम्(), हल्ङ्यादि ६।१।६६ संयोगान्त ८।२।२३ लोपौ, नकारस्य रुत्वम्(), तस्य "भोभगो" ८।३।१७ इत्यादिना यकारः, तस्यापि "लोपः शाकल्यस्य" ८।३।१९ इति लोपः। "हरिषो मेदिनं त्वा" इति। हरिशब्दान्मतुप्(), "छन्दसीरः" ८।२।१५ इति वत्वम्(), पूर्ववन्नुमादि। अयं त्वत्र विशेषः--"हशि च" ६।१।११० इति रोरुत्वम्(), पूर्वेण स ह "आद्गुणः" ६।१।८४। "मीढ्वस्तोकाय" इति। "मिह सेचने" (धा।पा।९९२) लिटः क्वसुः, "दा()आआन्? सह्वान्? मीढ्वांश्च" ६।१।१२ इत्यद्वित्वम्(), अनिट्त्वम्? उपधादीर्घत्वञ्च निपात्यते, "हो ढः" ८।२।३१ इति ढत्वम्(), रोर्विसर्जनीये कृते तस्य "विसर्जनीयस्य सः" ८।३।३४ ति सकारः। शत्रादेशस्य वसोः सम्बुद्धौ छन्दसि दिषये प्रयोगो नास्तीति तस्यानुदाहरम्()। अत एव "एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य" (व्या।प।५२) इत्येषा परिभाषा नोपतिष्ठते; एकानुबन्धकस्य सम्बुद्धिपरस्य च्छन्दसि वसोः प्रयोगादर्शसात्()। "विद्वान्()" इति। "विदेः शतुर्वसुः" ७।१।३६। "हे पपिवन्()" इति। पातेः पिबतेर्वा परस्य क्वसोः "वस्वेकाजाद्घसाम्()" ७।२।६७ इतीट्(), "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः स्थानिवद्भावाद्()द्विर्वचनम्()। "वन उपसंख्यानम्()" इति। अननुबन्धकस्य वनोऽसम्बवात्सामान्येन क्वनिब्बनिपोग्र्रहणम्()। यश्च मत्वर्थे "क्वनिब्वनिपौ छन्दसि वक्तव्यौ" (वा।५८२()) इत्यौपसंख्यानिकः, तस्यापि ग्रहणम्()। "प्रातरित्व" इति। "इण्? गतौ" (धा।पा।१०४५) प्रातापूर्वः, आतो मनिन्क्वनिब्धनिपश्च" ३।२।७४ इत्यनुवत्र्तमाने "अन्येभ्योऽपि दृश्यन्ते" ३।२।७५ इति क्वनिप्(), "ह्यस्वस्य पिति कृति तुक्()" ६।१।६९। इदं तु सम्पदादित्वादिना क्विपि तुकि तदन्तन्मतुपि "झयः" ८।२।१० इति वत्वे मत्वन्तादेव सिध्यतीति नोपसंख्यानं प्रयोजयति। "विभाषा" इत्यादि। भवच्छब्दः "भातेर्डवतुः" ["भातेर्डवतुप्()"--पं।उ।१-६४] इति डवतुप्रत्ययान्तो व्युत्पादितः। अव्युत्पन्नं वोकारानुबन्धं प्रातिपदिकम्(); इतरौ तु मत्वन्तौ। "हे भोः" इति। नुमो रुत्वे कृतेऽवशब्दस्य सर्वस्यैव स्थान ओकारः क्रियते, नालोऽन्त्यस्य, "नान्र्थकेऽलोन्त्यविधिः" (व्या।प।६२) इति कृत्वा। "नुपातविज्ञानात्? सिद्धम्()" इति। एतद्ग्रहणकवाक्यम्()। "अथ वा" इति। अस्यैव विवरणम्()। "असम्बद्धावपि" इत्यादि। एतेन निपातत्वे हेतुं दर्शयति। यद्युपसंख्यानादेव भो इत्येवमादिकं स्यात्(), द्विवचनबहुवचनयोर्न स्यात्(); सम्बुद्ध्यभावात्()। स्त्रियाञ्च सम्बुद्धावपि न स्यात्()--भो ब्राआहृणीति; अत्र स्त्रीलिङ्गविशिष्टानामनुपादानात्()। "प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्()" (व्या।प।२९) इति चेत्(), न; विभ्कतौ तत्प्रतिषेधात्()--विभक्तौ यत्कार्यं विषीयते तत्रेयं परिभाषा प्रतिषिध्यते; "विभक्तौ लिङ्गविशिष्टस्याग्रहणम्()" (व्या।प।३०) इति वचनात्()। अथापि न प्रतिषिध्यते? एवमपि भवतीति स्थिते इकारस्य["ईकारस्य"--प्रांउ।पाठः] रुत्वे कृतेऽवशब्दस्य चौकारे कृते रुत्वस्यासिद्धत्वात्? संयोगान्तलोपाभावे सति विसर्जनीये कृतेनिष्टं रूपं स्यात्()। तस्मादसम्बुद्धौ, स्त्रियाञ्च दर्शनान्निपाता एवैते वेदितव्याः। निपातत्वं पुनरेषां विभक्तिप्रतिरूपकत्वात्(), "विभक्तिस्वरप्रतिरूपकाश्च" (ग।सू।१६) इति चादिषु पाठात्()। पवञ्च भोः शब्दस्य निपातत्वं स्यात्(); भवतेर्विचि कृते गुणे च विभक्त्यन्ते भोःशब्दस्यैव विद्यमानत्वात्(), इतरयोस्तु न स्यात्()। न ह्रसत्यस्मिशुपसंख्याने भगोशब्दः, अघोःशब्दस्च विभक्त्यन्तोऽस्ति, यत्प्रतिरूपकौ निपातौ स्याताम्()। तस्मात्? सौत्रा एवैते निपाता वेदितव्याः; "भोभगोअधोअपूर्वस्य" ८।३।१७ इत्यत्र सूत्रे एषां पाठात्()। अथ वा--उपसर्गविभक्तित्वरप्रतिरूपकाश्चेति चकारस्यानुक्तसमुच्चयार्थत्वान्निपातत्वमेषां वेदित्वयम्()। यदि तर्हि निपातत्वमेषामाश्रित्योपसंख्यानं प्रत्याख्यायते, तदा भोःशब्दप्रयोगे समोस्ततोभोस्तत्रभो इत्यत्र "इतराभ्योऽपि दृश्यन्ते" (५।३।१४) ति भवदादियोगे विधीयमानास्तसिलादयो न सिध्यन्ति? अनिष्टस्वाददोषः। यो हि निपातत्वादुपसंख्यानं प्रत्याचष्टे स भोःशब्दप्रयोगे तसिलादीन्नेच्छत्येव॥