पूर्वम्: ८।३।४
अनन्तरम्: ८।३।६
 
सूत्रम्
समः सुटि॥ ८।३।५
काशिका-वृत्तिः
वक्ष्यति समः सुति ८।३।५

संस्कर्ता। संस्कर्तुम्। संस्कर्तव्यम्।
लघु-सिद्धान्त-कौमुदी
समः सुटि ९०, ८।३।५

समो रुः सुटि॥
न्यासः
समः सुटि। , ८।३।५

"मोऽनुस्वारः" ८।३।२३ इत्यनुस्वारे प्राप्ते वचनम्()। "सँस्कर्ता"["संस्कर्तेति"--न्यासे, पदमञ्जर्यां च मुद्रितः पाठः] इत्यादि। करोतेः सम्पूर्वात्? तृजादयः, "सम्पर्युपेभ्यः करोतौ भूषणे" ६।१।१३२ (इति) सुट्(), समो मकारस्य "अलोऽन्तस्य" १।१।५१ इत्यनेन रुत्वे ततः पूर्वस्यानुनासिकः, रोर्विसर्जनीयः। तस्य "वा शरि" ८।३।३६ इति विकल्पेन सकारे प्राप्ते विसर्जनीये च यथा नित्यं सकारो भवति, तथा वृत्तौ दर्शितम्()। कथं पुनरस्मिन्? सूत्रे सकारो निर्द्दिश्यते? इत्याह--"समः स्सुटि" इत्यादि। यस्मिन्? पक्षे विभक्तिसकारस्य विसर्जनीये कृते "वा शरि" (८।३।३६) इति सकारो न क्रियते, सं पक्षमाश्रित्येदमुक्तम्(); अन्यथा हि त्रिसकारकोऽयं निर्देश इति वक्तव्यं स्यात्(); त्रयाणां सकाराणां सन्निपातात्()। एको हि विभक्तिसम्बन्धी सकारः, द्वितीयस्त्वादेशसम्बन्धी, तृतीयः सुटसम्बन्धी। यदा तु त्रिसकारं कृत्वा सूत्रं पठ()ते, तदा द्विशब्दोऽधिकसकारोपलणार्थो द्रष्टव्यः। यदि तर्हि सकार आदेशो विधीयते, "संस्कत्र्ता" इत्यत्रानुनासिको न प्राप्नोति; यस्मादत्रात्रग्रहणं रुणैव सह सन्नियोगप्रतिपत्त्यर्थमुक्तम्()। रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थत्वाददोषः। "रुणा सह" इति। रुप्रकरणे यद्विधीयते तेन सहेत्यर्थः। यदपि पूर्वस्मिन्? सूत्रे वृत्तो "रोः पूर्वः" इत्युक्तम्(), तत्रापि रुग्रहणस्यास्मिन्? प्रकरणे यद्विधीयते तदुपलक्षणार्थं वेदितव्यम्(); अन्यथा हि "संस्कर्ता" इति पक्षेऽनुस्वारो न स्यात्()॥
बाल-मनोरमा
समः सुटि १३४, ८।३।५

समः सुटि। "सम" इति षष्ट()न्तम्। "मतुवसो रु सम्बुद्धौ" इत्यतः रुग्रहणमनुवर्तते। तदाह-समो रुरिति। "रु" इत्युकार इत्। अलोऽन्त्यस्येति। "उपतिष्ठते" इति शेषः। सम्पूर्वात्करोतेस्तृचि "सम्परिभ्या करोतौ भूषणे" इति सुडागमे सम्-स्कर्तेति स्थिते मस्य रुत्वम्। सर्-स्कर्तेति स्थिते।

तत्त्व-बोधिनी
समः सुटि १०८, ८।३।५

समः सुटि। यद्यपि मोऽनुस्वारेण सिद्धं, तथापि अनुनासिकत्रिसकारसिध्द्यर्थमिदम्।