पूर्वम्: ८।३।५
अनन्तरम्: ८।३।७
 
सूत्रम्
पुमः खय्यम्परे॥ ८।३।६
काशिका-वृत्तिः
पुमः खय्यम्परे ८।३।६

पुंस्कामा।
लघु-सिद्धान्त-कौमुदी
पुमः खय्यम्परे ९४, ८।३।६

अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥
न्यासः
पुमः स्वय्यम्परे। , ८।३।६

"पुमः" इति। पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्दशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कार्यित्वात्()। "अम्परे" इति। अम्? परो यस्मात्? स तथोक्तः। अमिति प्रत्याहारस्य ग्रहणम्(), न द्वितीयैकवचनस्य। कुत एतत्()? व्याप्तिन्यायात्? "खयि" इति प्रत्याहारेण साहचर्याच्च। "पुंश्चली" इति। चलडिति पचादौ पठ()ते। तेन "चल कम्पने" (धा।पा।८३२) इत्यस्मात्? पचाद्यच्? टिद्भवति, "टिड्ढणञ्()" ४।१।१५ इति ङीप्()। पुंश्चलीति षष्ठीसमासः। "पुंस्कामा" इति। पुंसि कामोऽस्या इति बहुव्रीहिः। अथ वा--पुमांसं कामयत इति "शीलिकामिभिक्षाचरिभ्यो णो वक्तव्यः" (वा।२२९) इति णः; ततष्टाप्()। अत्र पुंस्कामेत्यत्रोदाहरणे। "सकार एवादेशः" इति। विसर्जनीयस्येत्यपेक्षते। "वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्()--"कुप्वोः क पौ च" ८।३।३७ इत्यत्र "वा शरि" ८।३।३६ इत्यतो वाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेनात्रापि विसर्जनीयस्य सकार एव भविष्यति, न विसर्जनीयजिह्वामूलीयाविति। इदं तावत्? पूर्वसूत्रे यदा द्विसकारपक्षो नाश्रीयते, तदा प्रतिविधानमुक्तम्()। यदा तु तत्र "द्विसकारको निर्देशः" इत्येष पक्ष आश्रीयते, तदा प्रतिविधातुमाह--"द्विसकारकनिर्देशपक्षे तु" इत्यादि। ननु च रुरप्यनुवरत्तत एव, तत्र यथा सकारोऽनुवत्र्तमानो भवति तथा रुरपि पक्षे स्यात्(), ततश्च रुत्वपक्षे विसर्जनीये कृते जिह्वामूलोयः स्यादेव? इत्यत आह--"रुत्वं त्वनुवत्र्तमानम्()" इत्यादि। तत्रैव कारणमाह--"सम्बन्धानुवृत्तिस्तस्य" इत्यादि। इतिकरणो हेतौ, स हि "मतुवसो रु सम्बुद्धौ" ८।३।१ इत्यतः स्वेन सम्बन्धिना मतुपा वसुना च सम्बद्ध इहानुवत्र्तते। तस्मान्नोत्सहते सम्बन्ध्यन्तरेण सम्बन्धमनुभवितुम्()। "पुंदासः" इति। षष्ठीसमासः--पुंसो दास इति। कर्मधारयो वा। एवं "पुगवः" इति। अत्र तु "गोरतद्धितलुकि" (५।४।९२) इति टच्? समासान्तः। "पुंक्षीरम्(), पुंक्षुरम्()" इति। षष्ठीसमासः। "खय्यमि" इति। वक्तव्ये परघणं विपरीतकल्पनानिरासार्थम्()। असति परग्रहणे--अमि खयि पर इति विज्ञायेत, ततश्च "पुमाख्यः, पुमाचारः" इत्यत्रापि स्यात्()। अतः परग्रहणम्()॥
बाल-मनोरमा
पुमः खय्यम्परे १३८, ८।३।६

पुमः। "रु" ग्रहणमनुवर्तते। अम् परो यस्मादिति विग्रहः। तदाह-अम्परे खयीति। "पुमान्-कोकिल" इति कर्मधारये "सुपो धातुप्रातिपदिकयो"रिति सुब्लुकि "संयोगान्तस्य लोप" इति सकारलोपे पुम्-कोकिल इति स्थिते मस्य रुत्वम्, अनुनासिकानुस्वारविकल्पः, विसर्गः, "संपुंकाना"मिति सः। ननु "विसर्जनीयस्य स" इत्येव सिद्धे "संपुंकाना"मित्यत्र "पु"ग्रहणं व्यर्थमित्यत आह। व्युत्पत्तीत्यादि। ><क><पयोः प्राप्तौ संपुंकानामिति स इत्यन्वयः। "विसर्जनीयस्य स" इति सत्वापवादं कुप्वो ><क><चेति विधिं बाधितुं पुंग्रहणमित्येव वक्तुमुचितमित्यत आह--अप्रत्ययस्येति षत्वपर्युदासादिति। पूञो डुम्सुन्नित्यौणादिकप्रत्ययस्थमकारस्थानिकत्वाद्विसर्गस्येति भावः। ननूणादयोऽव्युत्पन्नानि प्रातिपदिकानीत्यायनेयीति सूत्रस्थभाष्यरीत्या औणादिकप्रत्ययान्तेषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह--व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागाभावात्कथमिहाप्रत्ययस्येति पर्युदास इत्यत आह--व्युत्पत्तिपक्ष इति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागव्युत्पादनमस्ति नास्तीति पक्षद्वयमादेशप्रत्यययोरिति सूत्रभाष्ये स्थितम्। तत्र व्युत्पत्तिपक्षे पुंस्()शब्दस्य डुम्सुन्()प्रत्ययान्ततया तत्र मकारस्थानिकविसर्गस्याऽप्रत्ययस्येति पर्युदासेनेदुदुपधस्य चाप्रत्ययस्येति षत्वस्य तत्र न प्रसक्तिः। अतस्तत्र कुप्वोरिति विधिं बाधितुं "संपुंकाना"मिति पुंग्रहणमित्यर्थः। अव्युत्पत्तीति। औणादिकशब्देषु प्रकृतिप्रत्ययविभागाऽभावपक्षेऽप्रत्ययस्येति पर्युदासस्यात्राऽप्रसक्तेरिदुदुपधस्येति प्रसक्तं षत्वं बाधितुं "संपुकाना"मिति पुंग्रहणमित्यर्थः। "पुँस्कोकिल" इत्यनुनासिकपक्षे रूपम्। "पुंस्कोकिल" इत्यनुस्वारपक्षे रूपम्। "पुंस्कोकिल" इत्यनुस्वारपक्षे रूपम्। ननु चक्षिङ् व्यक्तायां वाचि"अस्मात् ल्युट्, अनादेशः, चक्षिङः ख्याञ्, पुंसः ख्यानं पुंख्यानमित्यत्रापि पुमो मस्य रुत्वं स्यादित्यत आह--

ख्याञादेशे नेति। भाष्ये "चक्षिङः ख्शा" ञिति पठित्वा पूर्वत्रासिद्धमित्यसिद्धकाण्डे रषाभ्यामिति णत्वविध्यनन्तरं "ख्शाञश्शस्य यो वे"ति पठितमिति वक्ष्यते। एवंच यत्वस्याऽसिद्धतया खकारस्याऽम्परकत्वाऽभावात् "पुनः खयी"ति रुत्वं नेत्यर्थः। पुंख्यानमिति। "मोऽनुस्वारः" "वा पदान्तस्ये"ति परसवर्णविकल्पः। नच "वर्जने प्रतिषेधः, असनयोश्चे"त्यनादेशे परे प्रतिषेधात्कथमत्र ख्याञादेश इति वाच्यं, ख्शाञादेशप्रयोजनपरवार्तिके पुंख्यानमित्यादिप्रयोगात्तदुपपत्तेः।

तत्त्व-बोधिनी
पुमः खय्यंम्परे ११२, ८।३।६

पुमःखयि। पुंसः संयोगान्तलोपेऽवशिष्टभागस्येदमनुकरणम्। "अम्पर" इति बहुव्रीहिः। पर्युदासादिति। "इदुदुपधस्ये"ति षत्वविधायके सूत्रे इति भावः। ख्य ञादेशे नेति। "चक्षिङः ख्या"ञित्यत्र ख्()शादिरयमादेशः। असिद्धकाण्डे णत्वानन्तरं "शस्य यो वे"ति स्थितमिति वक्ष्यते। एवंच यत्वस्यासिद्धतयाऽम्परत्वाऽभावात् "पुमः खयी"ति रुत्वं नेत्यर्थः।

पुंख्यानमिति। चक्षिङो "ल्युट् चे"ति ल्युटि ख्याञादेशः। ननु आदेश इह दुर्लभः, "वर्जने प्रतिषेधः"-"असनयोश्चे"ति वार्तिकादिति चेत्सत्यम् ; "बहुलं तण्यन्नवधकगात्रविचक्षणाऽजिरातद्यर्थ"मिति वार्तिके बहुलग्रहणात्समाध्रेयम्। विस्तरस्तिवह मनोरमायामनुसन्धेयः। त्रायस्वेति। "त्रैङ् पालने"लोटि शप्यायादेशः।