पूर्वम्: ८।३।४९
अनन्तरम्: ८।३।५१
 
सूत्रम्
कःकरत्करतिकृधिकृतेष्वनदितेः॥ ८।३।५०
काशिका-वृत्तिः
कःकरत्करतिकृधिकृतेष्वनदितेः ८।३।५०

कः करत् करति कृधि कृत इत्येतेषु परतः अनदितेः विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये। कः विश्वतस्कः। करत् विश्वतस्करत् करति पयस्करति। कृधि उरु णस्कृधि कृत सदस्कृतम्। अनदितेः इति किम्? यथा नो अदितिः करत्।
न्यासः
कः करत्करतिकृधिकृतेष्वनदितेः। , ८।३।५०

वेति निवृत्तम्()। "कर्()" इति। कृञो लुङः, च्लिः, तस्य "मदत्रे घस" २।४।८२ इत्यादिना लुक्(), तिप्(), गुणः रपरत्वम्(), हल्ङ्यादिना ६।१।६६ तिलोपः, रेफस्य विसर्जनीयः, "बहुलं छन्दस्यामाङ्योगेऽपि" ६।४।७५ इत्यडागमाभावः। "करत्()" इति। कृञो लङ, "कृमृदृरुहिभ्यश्छन्दसि" ३।१।५१ इत्यङ, "ऋदृशोरङि गुणः" ७।४।१६ इति गुणः, पूर्ववदडागमाभावः। अथ वा लटः शत्रादेशः, व्यत्ययेन शप्()। "करति" इति। लट्(), तिप्(), पूर्ववच्छप्()। "कृधि" इति। कृञो लोट्(), "सेह्र्रपिच्च" ३।४।८७ इति सिपो हिरादेशः, तस्य "श्रुशृणुपृ()कृवृभ्यश्छन्दसि" ६।४।१०२ इति धिभावः, "बहुलं छन्दसि" २।४।७३ इति विकरणलुक्()। "कृतम्()" इति। निष्ठान्तमेतत्()। "वि()आतस्कः" इति। "पञ्चभ्यास्तसिल्()" ५।३।७। "उरुणस्कृधि" इति। पूर्ववन्नसादेशः, णत्वं च। "सदस्कृतम्()" इति। सदसि कृतमिति "सप्तमी" २।१।३९ इति योगविभागात्समासः॥