पूर्वम्: ८।३।७८
अनन्तरम्: ८।३।८०
 
सूत्रम्
विभाषेटः॥ ८।३।७९
काशिका-वृत्तिः
विभाषा इटः ८।३।७९

इणः परस्मातिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति विभाषा। लविषीढ्वम्, लविषीध्वम्। पविषीढवम्, पविषीध्वम्। लुङ् अलविढवम्, अलविध्वम्। लिट् लुलुविढ्वे, लुलुविध्वे। इणः इत्येव, आसिषीध्वम्। अथ इह कथं भवितव्यम्, उपदिदीयिध्वे? केचिदाहुः, इणन्तादङ्गादुत्तरस्य इट आनन्तर्यं युटा व्यवहितम् इति न भवितव्यं ढत्वेन इति। अपरेषां दर्शनम्, अङ्गातिति निवृत्तम्, इणः इत्यनुवर्तते, ततश्च यकारादेव इनः परो ऽनन्तरः इटिति पक्षे भवितव्यं मूर्धन्येन इति।
लघु-सिद्धान्त-कौमुदी
विभाषेटः ५२९, ८।३।७९

इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥
न्यासः
विभाषेटः। , ८।३।७९

क्वचित्? पूर्वेण नित्ये प्राप्ते, क्वचिदप्राप्त एव विकल्पार्थ वचनम्()। एतच्चोदाहरणे व्यक्तोकरिष्यामः। अत्रेण्ग्रहणमिटो विशेषणम्(), सोऽपि षोध्वमादोनाम्(), तेऽपि धकारस्येति दर्शयन्नाह--"इणः परस्मात्()" इत्यादि। ननु षीध्वमो लिटश्चेडपेक्षं परत्वं न सम्भवति, तस्य तद्ग्रहणेन ग्रहणात्()? यद्यपि शास्त्रकृतं न सम्भवति, तथापि श्रुतिकृतं तु सम्भवत्येवेत्यदोषः। "लविषीध्वम्(), लविषीढ्वम्()" इति। अत्र षीध्वंशब्दस्येटि कृते तस्य तद्ग्रहणेन ग्रहणाद्व्यवधानं नास्तीति पूर्वेण नित्यं प्राप्नोति। "अलविध्वम्()" इत्यत्रापि सिच एवेडागमः क्रियते, न लुङ इति तस्य तद्ग्रहणेनाग्रहणात्? पूर्वेण न प्राप्नोति। "लुलुविढ्वे" इत्यत्रापि लिट एवेडागम इति तस्य तद्ग्रहणेन ग्रहणादसति व्यदधाने पूर्वेण नित्यं प्राप्नोति। "आसिषीध्वम्()" इति। "आस उपदशने" (धा।पा।१०२१), लिङ्(), सोवुट्(), धातुसकारस्येणोऽसन्नि वेशादिणः परोऽत्रोडागमो न भवति। "अथेह कथं भवितव्यम्()" इति। किमत्रानेन विकल्पेन भवितव्यम्()? उत नित्येन भवितव्यमित्यभिप्रायः। "दीङ्? क्षये" (धा।पा।११३४), लिट्(), क्रादिनियमादिट्? ७।२।१३। "दीङो युडचि क्ङिति" ६।४।६३ इति गुट्(), टेरेत्तवम्()। उपदिदीयिध्व इति स्थिते केचिदाहुनं भवितव्यमेवात्र ढत्वविकल्पेन; इणन्तादङ्गादिटो यदानन्तर्य तस्य युटा व्यवहितत्वात। समुदायभक्तो ह्रसौ युट्? समुदायमेव न व्यवदधाति। अवयवं तु व्यवदधात्येव। अथ पूर्वेण नित्यं कस्मान्न भवति? अत्रेणन्तादङ्गादुत्तरो लिट्(), सत्सम्बन्धी च धकार इति भवितव्यम्()। तथा च वृत्तिकृता सूत्रार्थो दर्शितः। अथ तु नेष्यते, ततो विभाषाग्रहणं पूर्वेणासम्बन्धनीयम्()। सा च व्यवस्थितविभाषः, तेनेह न भवति। एवमन्यत्र तु नित्यमेव भविष्यति। "अपरेषाम्()" इत्यादि। यदाङ्गग्रहणमिह निवृत्तम्(), इण इत्येतदेवानुवत्र्तते, तदेणैव केवलेनेडागमो विशेष्यते--इणः परो य इडिति। एवञ्चात्र भवितव्यमेव पाक्षिकेण ढत्वेन। भवति ह्रत्र यकारादिण उत्तरोऽनन्तरश्चेडागमः॥
बाल-मनोरमा
विभाषेटः १६५, ८।३।७९

विभाषेटः। "इणः षीध्वंलुङ्लिटा धः" इत्यनुवर्तते। "अपदान्तस्ये"त्यतो मूर्धन्य इति च। तदाह-- इणः परो य इडित्यादि। इणन्तादङ्गादित्यर्थः। अयिषीढ्वमिति। लुङो ध्वमि च्लेः सिचि आटि वृद्धौ सिच इटि "धि चे"ति सलोपः। ध्वम इवर्णान्तादङ्गात्परत्वान्नित्ये प्राप्ते विकल्पः। अङ्गादिति। निवृत्तमिति केचित्।

तत्त्व-बोधिनी
विभाषेटः १३८, ८।३।७९

लुह्लिटां धस्येति। लिटि लिलिहिढ्वे। लिलिहिध्वे।