प्रणवविधानम्
(भगवान् आत्मनाथो भगवती योगनायिका च गुरुस्वरूपौ,
प्रणवस्वरूपौ, दक्षिणामूर्तिस्वरूपौ च श्रीमाणिक्यवाचक-
भाग्यपरिपाकेन जनैः कृतां सपर्यां स्वीकुरुतः । तयोः स्वरूपं इदमीदृक्
इति नावगन्तुं पार्यते । दक्षिणामूर्तिरेव तथा आत्मानं दर्शयामासेति
वृद्धाः । बाह्यपूजायां लब्धावकाशा एता नामावल्यः । ध्यानयोगेन
प्रणवात्मना परात्मना भावनं योगिमात्रसुकरम् । स ध्यानयोगश्च
क्रोडपत्रोपलब्धः इह प्रकाश्यते । गुरुवृद्धसम्पदायानुसार्येष गुरुमुखा
देवावगन्तव्यः । पत्रलब्धं न नष्टं भवेदिति धिया अत्र सङ्गृह्यते ।
प्रणवजपभावनाक्रमः
अस्य श्रीप्रणवमहामन्त्रस्य, प्रजापतिः ऋषिः । देवीगायत्री
छन्दः । परमात्मा देवता । अं बीजं, उं शक्तिः । अं ॐ आं हृदयाय
नमः । इं ॐ ईं शिरसे स्वाहा । उं ॐ ऊं शिखायै वषट् । एं ॐ ऐं
कवचाय हुम् । ओं ॐ औं नेत्रत्रयाय वौषट् । अं ॐ अः अस्त्राय फट् ।
(अथवा) ॐ भूः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ सुवः
शिखायै वषट् । ॐ महः कवचाय हुम् । ॐ जनः नेत्रत्रयाय वौषट् । ॐ
तपः अस्त्राय फट् ।
१. अं ॐ नमः ब्रह्माणं भावयामि । (नाभौ)
उं ॐ नमः विष्णुं भावयामि । (हृदये)
मं ॐ नमः रुद्रं भावयामि । (भ्रूमध्ये) ।
ॐ ॐ नमः ईश्वरं भावयामि । (मूर्धनि) ।
२. पृथक् पृथक् एषां लमित्यादिमानसपूजा । तेजोरूपान् विभाव्य,
प्रणवोच्चारणेन तानेकीकृत्य षोडशान्तस्थामृतेन योजयेत् । पुनरेवं
अं नमः इति प्रणवप्रणवावयवेन ब्रह्माणं चतुर्षु स्थानेषु
पूर्ववत्सम्पूज्य प्रणवेन तेजोरूपं कृत्वा अमृतेन योजयेत् । एवं उं
नमः, मं नमः इति द्वाभ्यां विष्णुरुद्रौ तथैवामृतेन योजयेत् ।
३. पुनः एवमेव प्रणवावयवैः त्रिभिरपि ब्रह्मविष्णु रुद्रान्
नाभेर्दक्षिणतो वामतो नाभौ च, हृदयस्य दक्षिणतो वामतो मध्ये
च भ्रूमध्यस्य दक्षिणतो वामतो मध्यतश्च यथायोगं भावयित्वा
सम्पूज्य तेजोरूपान् षोडशान्तामृतेन योजयेत् ।
पुनः प्रणवेन एवमेव चतुर्षु स्थानेषु भावयित्वा सम्पूज्य
तेजोरूपं ईश्वरं अमृतेन योजयेत् ।
४. मातृकास्थानेषु न्यासस्त्वेवम्-
अं अं नमः - शिरसि
उं आं नमः - मुखवृत्ते
मं इं नमः - दक्षनेत्रे
अं ईं नमः - वामनेत्रे
उं उं नमः - दक्षकर्णे
मं ऊं नमः - वामकर्णे
अं ऋं नमः - दक्षनासायां
उं ॠं नमः - वामनासायां
मं लृं नमः - दक्षकपोले
अं लॄं नमः - वामकपोले
उं एं नमः -ऊर्ध्वोष्ठे
मं ऐं नमः -अधरोष्ठे
अं ओं नमः -ऊर्ध्वदन्तेषु
उं औं नमः - अधोदन्तेषु
मं अं नमः - जिह्वाग्रे
अं अः नमः - कण्ठे
उं कं नमः - दक्षबाहुमूले
मं खं नमः - दक्षकूर्परे
अं गं नमः - दक्षमणिबन्धे
उं घं नमः - दक्षकराङ्गुलिमूले
मं ङं नमः - दक्षकराङ्गुल्यग्रे
अं चं नमः - वामबाहुमूले
उं छं नमः - वामकूर्परे
मं जं नमः - वाममणिवन्धे
अं झं नमः - वामकराङ्गुलिमूले
उं ञं नमः - वामकराङ्गुल्यग्रे
मं टं नमः - दक्षोरुमूले
अं ठं नमः - दक्षजानुनि
उं डं नमः - दक्षगुल्फे
मं ढं नमः - दक्षपादाङ्गुलिमूले
अं णं नमः - दक्षपादाङ्गुल्यग्रे
उं तं नमः - वामोरुमूले
मं थं नमः - वामजानुनि
अं दं नमः - वामगुल्फे
उं धं नमः - वामपादाङ्गुलिमूले
मं नं नमः - वामपादाङ्गुल्यग्रे
अं पं नमः - दक्षपार्श्वे
उं फं नमः - वामपृष्ठे
मं बं नमः - वामपार्श्वे
अं भं नमः - नाभौ
उं मं नमः - जठरे
मं यं नमः - हृदये
अं रं नमः - दक्षकक्षे
उं लं नमः - गलपृष्ठे
मं वं नमः - वामकक्षे
अं शं नमः - हृदयादि दक्षकराङ्गुल्यन्तं
उं षं नमः - हृदयादिवामकराङ्गुल्यन्तं
मं सं नमः - हृदयादि दक्षपादाङ्गुल्यन्तं
अं हं नमः - हृदयादि वामपादाङ्गुल्यन्तं
उं ळं नमः - कट्यादि दक्षिणपादाङ्गुल्यन्तं
मं क्षं नमः - कट्यादिवामपादाङ्गुल्यन्तं
५. पुनः ॐ अं ॐ नमः । ॐ आं ॐ नमः इत्येवं
प्रणवपुटितवर्णान् मातृकास्थानेषु न्यसेत् ।
६. पुनः ॐ अं ब्रह्मणे नमः । ॐ आं विष्णवे । इं रुद्राय ।
ईं ओङ्काराय । उं प्रणवाय । ऊं सर्वव्यापिने । ऋं अनन्ताय ।
ॠं ताराय । लृं सूक्ष्माय । लॄं शुक्लाय । एं वैद्युताय ।
ऐं पराय । ॐ ब्रह्मणे । औं एकाय । अं एकरुद्राय । अः ईशानाय ।
कं भगवते । खं महेश्वराय । गं महादेवाय । घं सदाशिवाय ।
ङं सर्वरक्षित्रे । चं सर्वगताय । छं सर्वप्रियतमाय ।
जं नित्यतृप्ताय ।
झं सर्वापगमाय । ञं सर्वकान्ताय । टं सर्वप्रतिष्ठाय ।
ठं सर्वश्रोत्रे । डं सर्वस्वामिने । ढं सर्वसमृद्धाय ।
णं सर्वचक्राय । तं सर्वक्रियाय । थं सर्वेच्छाय ।
दं सर्वदीप्ताय । धं सर्वावाप्ताय । नं सर्वालिङ्गिताय ।
पं सर्वहिंसकाय । फं सर्वदाहकाय । बं सर्वभावाय ।
भं सर्ववृद्धाय । मं गुणबीजाय । यं स्रुवाय । रं वेदादये ।
लं आदये । वं मध्यमाय । शं पराय । षं त्रिमात्राय । सं योनये ।
हं सर्वदेहाश्रयाय । ळं संवादकाय । क्षं सर्वात्मने ।
इति प्रणवादीन् नमोऽन्तान्मातृकाक्षरस्थानेषु न्यसेत् ।
ध्यानक्रमः-
षट्कुक्षिं पीठसंस्थं तदुपरि विलसत्सोमसूत्रं सबिन्दुं
तन्मध्ये नादसंज्ञं प्रणवमभिवृतं बिन्दुनादौ पुनश्च ।
इत्थं सञ्चिन्त्य योगी विविधमनुदिनं तारगं व्योमसंस्थं
सर्वाधारं महेशं सकृदपि मनसा संस्मरेद्यः स मुक्तः ॥
इति प्रणवविधानं सम्पूर्णम् ।
Proofread by Aruna Narayanan