॥ उत्तरगीता ॥

अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ अर्जुन उवाच - यदेकं निष्कलं ब्रह्म व्योमातीतं निरञ्जनम् । अप्रतर्क्यमविज्ञेयं विनाशोत्पत्तिवर्जितम् ॥ १॥ कारणं योगनिर्मुक्तं हेतुसाधनवर्जितम् । हृदयाम्बुजमध्यस्थं ज्ञानज्ञेयस्वरूपकम् ॥ २॥ तत्क्षणादेव मुच्येत यज्ज्ञानाद्ब्रूहि केशव । श्रीभगवानुवाच - साधु पृष्टं महाबाहो बुद्धिमानसि पाण्डव ॥ ३॥ यन्मां पृच्छसि तत्त्वार्थमशेषं प्रवदाम्यहम् । आत्ममन्त्रस्य हंसस्य परस्परसमन्वयात् ॥ ४॥ योगेन गतकामानां भावना ब्रह्म चक्षते । शरीरिणामजस्यान्तं हंसत्वं पारदर्शनम् ॥ ५॥ हंसो हंसाक्षरं चैतत्कूटस्थं यत्तदक्षरम् । तद्विद्वानक्षरं प्राप्य जह्यान्मरणजन्मनी ॥ ६॥ काकीमुखं ककारान्तमुकारश्चेतनाकृतिः । मकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७॥ काकीमुखककारान्तमुकारश्चेतनाकृतिः । अकारस्य तु लुप्तस्य कोऽर्थः सम्प्रतिपद्यते ॥ ७॥ गच्छंस्तिष्ठन्सदा कालं वायुस्वीकरणं परम् । सर्वकालप्रयोगेन सहस्रायुर्भवेन्नरः ॥ ८॥ यावत्पश्येत्खगाकारं तदाकारं विचिन्तयेत् । खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु । आत्मानं खमयं कृत्वा न किंचिदपि चिन्तयेत् ॥ ९॥ स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः । बहिर्व्योमस्थितं नित्यं नासाग्रे च व्यवस्थितम् । निष्कलं तं विजानीयाच्छ्वासो यत्र लयं गतः ॥ १०॥ पुटद्वयविनिर्मुक्तो वायुर्यत्र विलीयते ॥ ११॥ तत्र संस्थं मनः कृत्वा तं ध्यायेत्पार्थ ईश्वरम् ॥ १२॥ निर्मलं तं विजानीयात्षडूर्मिरहितं शिवम् । प्रभाशून्यं मनःशून्यं बुद्धिशून्यं निरामयम् ॥ १३॥ सर्वशून्यं निराभासं समाधिस्तस्य लक्षणम् । त्रिशून्यं यो विजानीयात्स तु मुच्येत बन्धनात् ॥ १४॥ स्वयमुच्चलिते देहे देही न्यस्तसमाधिना । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ १५॥ अमात्रं शब्दरहितं स्वरव्यञ्जनवर्जितम् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ १६॥ प्राप्ते ज्ञानेन विज्ञाने ज्ञेये च हृदि संस्थिते । लब्धशान्तिपदे देहे न योगो नैव धारणा ॥ १७॥ यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥ नावार्थी च भवेत्तावद्यावत्पारं न गच्छति । उत्तीर्णे च सरित्पारे नावया किं प्रयोजनम् ॥ १९॥ ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ २०॥ उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां त्यजेत् ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ २१॥ यथामृतेन तृप्तस्य पयसा किं प्रयोजनम् । एवं तं परमं ज्ञात्वा वेदैर्नास्ति प्रयोजनम् ॥ २२॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स तत्त्ववित् ॥ २३॥ तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ २४॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ २५॥ तादृशं परमं रूपं स्मरेत्पार्थ ह्यनन्यधीः । विधूमाग्निनिभं देवं पश्येदन्त्यन्तनिर्मलम् ॥ २६॥ दूरस्थोऽपि न दूरस्थः पिण्डस्थः पिण्डवर्जितः । विमलः सर्वदा देही सर्वव्यापी निरञ्जनः ॥ २७॥ कायस्थोऽपि न कायस्थः कायस्थोऽपि न जायते । कायस्थोऽपि न भुञ्जानः कायस्थोऽपि न बध्यते ॥ २८॥ कायस्थोऽपि न लिप्तः स्यात्कायस्थोऽपि न बाध्यते । तिलमध्ये यथा तैलं क्षीरमध्ये यथा घृतम् ॥ २९॥ पुष्पमध्ये यथा गन्धः फलमध्ये यथा रसः । काष्ठाग्निवत्प्रकाशेत आकाशे वायुवच्चरेत् ॥ ३०॥ तथा सर्वगतो देही देहमध्ये व्यवस्थितः । मनस्थो देशिनां देवो मनोमध्ये व्यवस्थितः ॥ ३१॥ मनस्थं मनमध्यस्थं मध्यस्थं मनवर्जितम् । मनसा मन आलोक्य स्वयं सिध्यन्ति योगिनः ॥ ३२॥ आकाशं मानसं कृत्वा मनः कृत्वा निरास्पदम् । निश्चलं तद्विजानीयात्समाधिस्थस्य लक्षणम् ॥ ३३॥ योगामृतरसं पीत्वा वायुभक्षः सदा सुखी । यममभ्यस्यते नित्यं समाधिर्मृत्युनाशकृत् ॥ ३४॥ ऊर्ध्वशून्यमधःशून्यं मध्यशून्यं यदात्मकम् । सर्वशून्यं स आत्मेति समाधिस्थस्य लक्षणम् ॥ ३५॥ शून्यभावितभावात्मा पुण्यपापैः प्रमुच्यते । अर्जुन उवाच- अदृश्ये भावना नास्ति दृश्यमेतद्विनश्यति ॥ ३६॥ अवर्णमस्वरं ब्रह्म कथं ध्यायन्ति योगिनः । श्रीभगवानुवाच- ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं यदात्मकम् ॥ ३७॥ सर्वपूर्णं स आत्मेति समाधिस्थस्य लक्षणम् । अर्जुन उअवाच- सालम्बस्याप्यनित्यत्वं निरालम्बस्य शून्यता ॥ ३८॥ उभयोरपि दुष्ठत्वात्कथं ध्यायन्ति योगिनः । श्रीभगवानुवाच- हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् ॥ ३९॥ अहमेव इदं सर्वमिति पश्येत्परं सुखम् । अर्जुन उवाच- अक्षराणि समात्राणि सर्वे बिन्दुसमाश्रिताः ॥ ४०॥ बिन्दुभिर्भिद्यते नादः स नादः केन भिद्यते । श्रीभगवानुवाच- अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ४१॥ ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ ४२॥ ॐकारध्वनिनादेन वायोः संहरणान्तिकम् । निरालम्बं समुद्दिश्य यत्र नादो लयं गतः ॥ ४३॥ अर्जुन उवाच- भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा । प्राणैर्विमुक्ते देहे तु धर्माधर्मौ क्व गच्छतः ॥ ४४॥ श्रीभगवानुवाच- धर्माधर्मौ मनश्चैव पञ्चभूतानि यानि च । इन्द्रियाणि च पञ्चैव याश्चान्याः पञ्च देवताः ॥ ४५॥ ताश्चैव मनसा सर्वे नित्यमेवाभिमानतः । जीवेन सह गच्छन्ति यावत्तत्त्वं न विन्दति ॥ ४६॥ अर्जुन उवाच- स्थावरं जङ्गमं चैव यत्किंचित्सचराचरम् । जीवा जीवेन सिध्यन्ति स जीवः केन सिध्यति ॥ ४७॥ श्रीभगवानुवाच- मुखनासिकयोर्मध्ये प्राणः संचरते सदा । आकाशः पिबते प्राणं स जीवः केन जीवति ॥ ४८॥ अर्जुन उवाच- ब्रह्माण्डव्यापितं व्योम व्योम्ना चावेष्टितं जगत् । अन्तर्बहिश्च तद्व्योम कथं देवो निरञ्जनः ॥ ४९॥ श्रीभगवानुवाच- आकाशो ह्यवकाशश्च आकाशव्यापितं च यत् । आकाशस्य गुणः शब्दो निःशब्दो ब्रह्म उच्यते ॥ ५०॥ अर्जुन उवाच- दन्तोष्ठतालुजिह्वानामास्पदं यत्र दृश्यते । अक्षरत्वं कुतस्तेषां क्षरत्वं वर्तते सदा ॥ ५१॥ अघोषमव्यञ्जनमस्वरं चा- प्यतालुकण्ठोष्ठमनासिकं च । अरेखजातं परमूष्मवर्जितं तदक्षरं न क्षरते कथंचित् ॥ ५२॥ अर्जुन उवाच- ज्ञात्वा सर्वगतं ब्रह्म सर्वभूताधिवासितम् । इन्द्रियाणां निरोधेन कथं सिध्यन्ति योगिनः ॥ ५३॥ श्रीभगवानुवाच- इन्द्रियाणां निरोधेन देहे पश्यन्ति मानवाः । देहे नष्टे कुतो बुद्धिर्बुद्धिनाशे कुतो ज्ञता ॥ ५४॥ तावदेव निरोधः स्याद्यावत्तत्त्वं न विन्दति । विदिते तु परे तत्त्वे एकमेवानुपश्यति ॥ ५५॥ भवच्छिद्रकृता देहाः स्रवन्ति गलिका इव । नैव ब्रह्म न शुद्धं स्यात्पुमान्ब्रह्म न विन्दति ॥ ५६॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ ५७॥ इति उत्तरगीतायां प्रथमोऽध्यायः ॥
॥ द्वितीयोऽध्यायः ॥ अरूढस्यारुरुक्षोश्च स्वरूपे परिकीर्तिते । तत्रारूढस्य बिम्बैक्यं कथं स्यादिति पृच्छति ॥ अर्जुन उवाच- ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञं परमेश्वरम् । अहं ब्रह्मेति निर्देष्टुं प्रमाणं तत्र किं भवेत् ॥ १॥ श्रीभगवानुवाच- यथा जलं जले क्षिप्तं क्षीरे क्षीरं घृते घृतम् । अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ २॥ जीवे परेण तादात्म्यं सर्वगं ज्योतिरीश्वरम् । प्रमाणलक्षणैर्ज्ञेयं स्वयमेकाग्रवेदिना ॥ ३॥ अर्जुन उवाच- ज्ञानादेव भवेज्ज्ञेयं विदित्वा तत्क्षणेन तु । ज्ञानमात्रेण मुच्येत किं पुनर्योगधारणा ॥ ४॥ श्रीभगवानुवाच- ज्ञानेन दीपिते देहे बुद्धिर्ब्रह्मसमन्विता । ब्रह्मज्ञानाग्निना विद्वान्निर्दहेत्कर्मबन्धनम् ॥ ५॥ ततः पवित्रं परमेश्वराख्य- मद्वैतरूपं विमलाम्बराभम् । यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थः ॥ ६॥ आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा । स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कया पश्यति चान्तरात्मा ॥ ७॥ यत्र यत्र मृतो ज्ञानी येन केनापि मृत्युना । यथा सर्वगतं व्योम तत्र तत्र लयं गतः ॥ ८॥ शरीरव्यापितं व्योम भुवनानि चतुर्दश । निश्चलो निर्मलो देही सर्वव्यापी निरञ्जनः ॥ ९॥ मुहूर्तमपि यो गच्छेन्नासाग्रे मनसा सह । सर्वं तरति पाप्मानं तस्य जन्म शतार्जितम् ॥ १०॥ दक्षिणे पिङ्गला नाडी वह्निमण्डलगोचरा । देवयानमिति ज्ञेया पुण्यकर्मानुसारिणी ॥ ११॥ इला च वामनिश्वाससोममण्डलगोचरा । पितृयानमिति ज्ञेयं वाममाश्रित्य तिष्ठति ॥ १२॥ गुदस्य पृष्ठभागेऽस्मिन्वीणादण्डस्य देहभृत् । दीर्घास्ति मूर्ध्निपर्यन्तं ब्रह्मदण्डीति कथ्यते ॥ १३॥ तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरिभिः । इलापिङ्गलयोर्मध्ये सुषुम्ना सूक्ष्मरूपिणी । सर्वं प्रतिष्ठितं यस्मिन्सर्वगं सर्वतोमुखम् ॥ १४॥ तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः । भूतलोका दिशः क्षेत्रसमुद्राः पर्वताः शिलाः ॥ १५॥ द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः । स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः ॥ १६॥ बीजं बीजात्मकास्तेषां क्षेत्रज्ञाः प्राणवायवः । सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् ॥ १७॥ नानानाडीप्रसवकं सर्वभूतान्तरात्मनि । ऊर्ध्वमूलमधः शाखं वायुमार्गेण सर्वगम् ॥ १८॥ द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः । कर्ममार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मकाः ॥ १९॥ अधश्चोर्ध्वगतास्तासु नवद्वाराणि शोधयन् । वायुना सह जीवोर्ध्वज्ञानी मोक्षमवाप्नुयात् ॥ २०॥ अमरावतीन्द्रलोकोऽस्मिन्नासाग्रे पूर्वतो दिशि । अग्निलोको हृदि ज्ञेयश्चक्षुस्तेजोवती पुरी ॥ २१॥ याम्या संयमनी श्रोत्रे यमलोकः प्रतिष्ठितः । नैरृतो ह्यथ तत्पार्श्वे नैरृतो लोक आश्रितः ॥ २२॥ विभावरी प्रतीच्यां तु पृष्ठे वारुणिका पुरी । वायोर्गन्धवती कर्णपार्श्वे लोकः प्रतिष्ठितः ॥ २३॥ सौम्या पुष्पवती सौम्ये सोमलोकस्तु कण्ठतः । वामकर्णे तु विज्ञेयो देहमाश्रित्य तिष्ठति ॥ २४॥ वामे चक्षुषि चैशानी शिवलोको मनोन्मनी । मूर्ध्नि ब्रह्मपुरी ज्ञेया ब्रह्माण्डं देहमाश्रितम् ॥ २५॥ पादादधः शिवोऽनन्तः कालाग्निप्रलयात्मकः । अनामयमधश्चोर्ध्वं मध्यमं तु बहिः शिवम् ॥ २६॥ अधः पदोऽतलं विद्यात्पादं च वितलं विदुः । नितलं पादसन्धिश्च सुतलं जङ्घमुच्यते ॥ २७॥ महातलं तु जानु स्यादूरुदेशो रसातलम् । कटिस्तालतलं प्रोक्तं सप्त पातालसंज्ञया ॥ २८॥ कालाग्निनरकं घोरं महापातालसंज्ञया । पातालं नाभ्यधोभागो भोगीन्द्रफणिमण्डलम् ॥ २९॥ वेष्टितः सर्वतोऽनन्तः स बिभ्रज्जीवसंज्ञकः । भूलोकं नाभिदेशं तु भुवर्लोकं तु कुक्षितः ॥ ३०॥ हृदयं स्वर्गलोकं तु सूर्यादिग्रहतारकाः । सूर्यसोमसुनक्षत्रं बुधशुक्रकुजाङ्गिराः ॥ ३१॥ मन्दश्च सप्तमो ह्येष ध्रुवोऽतः स्वर्गलोकतः । हृदये कल्पयन्योगी तस्मिन्सर्वसुखं लभेत् ॥ ३२॥ हृदयस्य महर्लोकं जनोलोकं तु कण्ठतः । तपोलोकं भ्रुवोर्मध्ये मूर्ध्नि सत्यं प्रतिष्ठितम् ॥ ३३॥ ब्रह्माण्डरूपिणी पृथ्वी तोयमध्ये विलीयते । अग्निना पच्यते तोयं वायुना ग्रस्यतेऽनलः ॥ ३४॥ आकाशं तु पिबेद्वायुं मनश्चाकाशमेव च । बुद्ध्यहङ्कारचित्तं च क्षेत्रज्ञः परमात्मनि ॥ ३५॥ अहं ब्रह्मेति मां ध्यायेदेकाग्रमनसा सकृत् । सर्वं तरति पाप्मानं कल्पकोटिशतैः कृतम् ॥ ३६॥ घटसंवृतमाकाशं नीयमाने घटे यथा । घटो नश्यति नाकाशं तद्वज्जीव इहात्मनि ॥ ३७॥ घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति निरालम्बं ज्ञानालोक्यं न संशयः ॥ ३८॥ तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम् ॥ ३९॥ आलोड्य चतुरो वेदान्धर्मशास्त्राणि सर्वदा । यो वै ब्रह्म न जानाति दर्वी पाकरसं यथा ॥ ४०॥ यथा खरश्चन्दनभारवाही सारस्य वाही न तु चन्दनस्य । एवं हि शास्त्राणि बहून्यधीत्य सारं त्वजानन्खरवद्वहेत्सः ॥ ४१॥ अनन्तकर्म शौचं च जपो यज्ञस्तथैव च । तीर्थयात्रादिगमनं यावत्तत्त्वं न विन्दति ॥ ४२॥ गवामनेकवर्णानां क्षीरं स्यादेकवर्णकम् । क्षीरवद्दृश्यते ज्ञानं देहिनां च गवां यथा ॥ ४३॥ अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे बन्धमोक्षाय न ममेति ममेति च ॥ ४४॥ ममेति बध्यते जन्तुर्न ममेति विमुच्यते । मनसो ह्युन्मनीभावाद्द्वैतं नैवोपलभ्यते । यदा यात्युन्मनीभावं तदा तत्परमं पदम् ॥ ४५॥ हन्यान्मुष्टिभिराकाशं क्षुधार्तः कण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते ॥ ४६॥ इति उत्तरगीतायां द्वितीयोऽध्यायः ॥
॥ तृतीयोऽध्यायः ॥ योगी व्यर्थक्रियालापपरित्यागेन शान्तधीः । तृतीये शरणं यायाद्धरिमेवेति कीर्त्यते ॥ श्रीभगवानुवाच- अनन्तशास्त्रं बहुवेदितव्य- मल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमिश्रम् ॥ १॥ पुराणं भारतं वेदशास्त्राणि विविधानि च । पुत्रदारादिसंसारो योगाभ्यासस्य विघ्नकृत् ॥ २॥ इदं ज्ञानमिदं ज्ञेयं यः सर्वं ज्ञातुमिच्छति । अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ ३॥ विज्ञेयोऽक्षरतन्मात्रं जीवितं चापि चञ्चलम् । विहाय शास्त्रजालानि यत्सत्यं तदुपास्यताम् ॥ ४॥ पृथिव्यां यानि भूतानि जिह्वोपस्थनिमित्तिकम् । जिह्वोपस्थपरित्यागे पृथिव्यां किं प्रयोजनम् ॥ ५॥ तीर्थानि तोयपूर्णानि देवान्पाषाणमृन्मयान् । योगिनो न प्रपद्यन्ते आत्मध्यानपरायणाः ॥ ६॥ अग्निर्देवो द्विजातीनां मुनीनां हृदि दैवतम् । प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनाम् ॥ ७॥ सर्वत्रावस्थितं शान्तं न प्रपश्येज्जनार्दनम् । ज्ञानचक्षुर्विहीनत्वादन्धः सूर्यमिवोदितम् ॥ ८॥ यत्र यत्र मनो याति तत्र तत्र परं पदम् । तत्र तत्र परं ब्रह्म सर्वत्र समवस्थितम् ॥ ९॥ दृश्यन्ते दृशि रूपाणि गगनं भाति निर्मलम् । अहमित्यक्षरं ब्रह्म परमं विष्णुमव्ययम् ॥ १०॥ दृश्यते चेत्खगाकारं खगाकारं विचिन्तयेत् । सकलं निष्कलं सूक्ष्मं मोक्षद्वारेण निर्गतम् ॥ ११॥ अपवर्गस्य निर्वाणं परमं विष्णुमव्ययम् । सर्वज्योतिर्निराकारं सर्वभूतगुणान्वितम् ॥ १२॥ सर्वत्र परमात्मानं अहमात्मा परमव्ययम् । अहं ब्रह्मेति यः सर्वं विजानाति नरः सदा । हन्यात्स्वयमिमान्कामान्सर्वाशी सर्वविक्रयी ॥ १३॥ निमिषं निमिषार्धं वा शीताशीतनिवारणम् । अचला केशवे भक्तिर्विभवैः किं प्रयोजनम् ॥ १४॥ भिक्षान्नं देहरक्षार्थं वस्त्रं शीतनिवारणम् । अश्मानं च हिरण्यं च शाकं शाल्योदनं तथा ॥ १५॥ समानं चिन्तयेद्योगी यदि चिन्त्यमपेक्षते । भूतवस्तुन्यशोचित्वं पुनर्जन्म न विद्यते ॥ १६॥ आत्मयोगमवोचद्यो भक्तियोगशिरोमणिम् । तं वन्दे परमानन्दं नन्दनन्दनमीश्वरम् ॥ इति उत्तरगीतायां तृतीयोऽध्यायः ॥ Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Uttara-Gita
% File name             : uttaragiitaa.itx
% itxtitle              : uttaragItA
% engtitle              : Uttara Gita
% Category              : gItA
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Vyasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Indexextra            : Translation, Tamil, bhAShya
% Latest update         : April 30, 2008
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP