वसिष्ठकल्पोक्तं महामृत्युञ्जयादिविधानम्

वसिष्ठकल्पोक्तं महामृत्युञ्जयादिविधानम्

त्र्यम्बकस्य विधानन्तु कीर्तयिष्ये मुनीश्वराः । यथोक्तविधिना युक्तं संस्मृतं ब्रह्मणा पुरा ॥ १॥ मृत्युञ्जयस्त्रिधा प्रोक्त आद्यो मृत्युञ्जयः स्मृतः । मृतसञ्जीवनी चैव महामृत्युञ्जयस्तथा ॥ २॥ मृत्युञ्जयः केवलः स्यात्पुटितो व्याहृतित्रयैः । तारं (ॐ) त्रिबीजं (हौं जूँ सः) व्याहृत्य पुटितो मृतजीवनी ॥ ३॥ तारं त्रिबीजं व्याहृत्य पुटितैस्तैस्त्रियम्बकः । महामृत्युञ्जयः प्रोक्तः सर्वमन्त्रविशारदैः ॥ ४॥ तत्रैव विशेषः - ``प्रणवान्ते प्रसाद - (हौं) श्च मृतिहारक - (जूँ सः) - मेव च । भूरादिव्याहृतयश्च त्र्यम्बकेति च ऋक् ततः ॥ ५॥ विपर्ययेण त्रिबीजं तद्वच्च व्याहृतित्रयम् । स्वाहान्तो मनुरेषोऽयं शुक्रेणाराधितः पुरा ॥ ६॥ महामृत्युञ्जय इति विश्रुतो भुवनत्रये । ॐ कारैः सहितः षड्भिश्चतुर्दशभिरेव च ॥ ७॥ मृत्युञ्जयं तं विधिवदुपास्येप्सितमाप्नुयात् ॥अ। (आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतिश्च, प्रोच्चार्य त्र्यम्बकं यो जयति मृतिहरं भूय एवैतदाद्यम् । ) कृत्वा न्यासं षडङ्गं स्रवदमृतकरं मण्डलान्तः प्रविष्टम्, ध्यात्वा योगीशरुद्रं स जयति मरणं शुक्रविद्याप्रसादात् ॥ ८॥ ॥ अथ मन्त्रस्वरूपम् ॥ ॐ भूः ॐ भुवः ॐ स्वः ॐ त्र्यम्बकं यजामहे इति ऋक् ॐ स्वः ॐ भुवः ॐ भूः ॐ इत्यष्टचत्वारिंशद् (४८) - वर्णात्मकः केवलमृत्युञ्जयः ॥ १॥ ॐ हौं जूँ सः ॐ भूर्भुवः स्वः ॐ त्र्यम्बकं यजामहे. इति ऋक् ॐ स्वः भुवः भूः ॐ सः जूँ हौं ॐ इति द्विपञ्चाशद् (५२) - वर्णात्मको मृतसञ्जीवनीमन्त्रः ॥ ॥ अथ महामृत्युञ्जयमन्त्रः ॥ ॐ हौं ॐ जूँ ॐ सः ॐ भूः ॐ भुवः ॐ स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॐ स्वः ॐ भुवः ॐ भूः ॐ सः ॐ जूँ ॐ हौं ॐ स्वाहा इति द्विषष्टि (६२) - वर्णात्मको महामृत्युञ्जयशुक्राराधितो मन्त्रः ॥ ॥ अथ प्रयोगविशेषः ॥ ग्रहपीडासु सर्वासु महागदनिपीडने । वियोगे बान्धवानाञ्च जनमार उपस्थिते ॥ १॥ राज्यभङ्गे धनग्लानौ क्षिप्रमृत्युविनाशने । अभियोगे (राजकीयव्याधौ) समुत्पन्ने मनोधर्मविपर्यये ॥ २॥ मृत्युञ्जयस्य देवस्य विधानं क्रियते बुधैः । राष्ट्रभङ्गे जनक्लेशे महारोगनिपीडने ॥ ३॥ कोटिसङ्ख्यः जपः प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः । सामान्यगदपीडायां दुष्टस्वप्नस्य दर्शने ॥ ४॥ मृत्युञ्जयस्य देवस्य जपो लक्षमितः शुभः । अपमृत्युविनाशाय जपोऽयुतमितः स्मृतः ॥ ५॥ दुर्वार्ताश्रवणे जाप्यं सुहृदामनृते क्षुते । यात्रायामयुतं कार्यं सहस्रं वा समाहितैः ॥ ६॥ पूर्णस्य स्वस्य जाप्यस्य दशांशवहनं मतम् । पायसेन च साज्येन समिद्भिस्तिलसर्पिषा ॥ ७॥ श्रीवृक्षस्य (बिल्व) फलैः पत्रेः कमलैः शतपत्रकैः । खर्जूरीभिश्च साज्याभिरन्यैर्यज्ञफलैस्तथा ॥ ८॥ हवनं कारयेद् विद्वान् कृत्वाचार्यार्चनक्रियाम् । ब्राह्मणान् भोजयेत्सम्यग् दशांशेन यजेत्तथा ॥ ९॥ एवं कृते विधाने च सर्वकर्मफलं लभेत् । चिन्तितार्थस्य सिद्धिः स्यान्नात्र कार्य्या विचारणा ॥ १०॥ शान्तिरत्ने विशेषः -- आयुः कामो घृतेनाग्नौ जुहुयाल्लक्षसङ्ख्यया । अयुतं वा सहस्रं वा शतमष्टोत्तरं तु वा ॥ ११॥ आरोग्यकामो जुहुयादर्ककाष्ठैर्घृतप्लुप्तैः । पयसा वापि जुहुयाद् गव्येनाज्येन वा पुनः ॥ १२॥ पलाशसमिधो वापि सर्वरोगप्रशान्तये । अच्छिद्रैराम्रपर्णैस्तु पयोक्तैर्जुहुयाज्ज्वरे ॥ १३॥ गुडूचीखण्डकैर्वापि खादिरैर्वा घृतप्लुतैः । प्रमेहे मधुना होमः पयसा वा घृतेन वा ॥ १४॥ औदुम्बरसमिद्भिर्वा होम आमलकेन वा । गुल्मे शाल्मलिहोमः स्यात्तिलैः कृष्णैर्घृतेन वा ॥ १५॥ वर्धसानसमिद्धोमः सद्यः शूलहरो भवेत् । करञ्जसमिधो वापि निर्गुण्डीसमिधोऽपि वा ॥ १६॥ तैलेनाभ्यज्य जुहुयाद्वातरोगप्रशान्तये । शमीसमिद्भिर्जुहुयादतिसारप्रशान्तये ॥ १७॥ शान्त्यर्थमक्षिरोगस्य पलाशसमिधः स्मृताः । उन्मत्त (धत्तूर) - समिधो हुत्वा अपस्मारात्प्रमुच्यते ॥ १८॥ कुबेराक्षेन्द्रवल्लीभ्यां नेत्रशूलेषु होमयेत् । तैलेनाभ्यज्य जुहुयाद्वज्ज्रखण्डैस्तथैव च ॥ १९॥ मातुलुङ्गगुडूचीनां होमः कामलनाशनः । मधुरत्रयहोमेन शान्तिः स्याद्राजयक्ष्मणाम् ॥ २०॥ होमाच्च फलमूलानां गर्भरोगः प्रशाम्यति । कुष्ठे मसूरिकैर्होमो मधुरत्रयसंयुतैः ॥ २१॥ अथवा तैलसंयुक्तैर्जुहुयाद् गौरसर्षपैः । ये चान्ये मुखरोगाः स्युः शिरोरोगास्तथैव च ॥ २२॥ ते सर्वे प्रशमं यान्ति तिलैर्होमाद् घृतप्लुतैः । औदराणां तु रोगाणां सर्वेषां शान्तिमिच्छता ॥ २३॥ बिल्ववृक्षसमिद्धोमः कर्तव्यो द्विजसत्तम । अधःस्रावे तु जुहुयात्पद्मपत्रैर्घृतप्लुतैः ॥ २४॥ दूर्वाभिर्वा पयोक्ताभिर्जुहुयाच्चन्दनेन वा । अश्वत्थस्य समिद्भिश्च रक्तस्रावे तु होमयेत् ॥ २५॥ अथवा गोघृतेनैव रक्तातीसारशान्तये । अन्यरोगेषु सर्वेषु कण्ठरोगमहोदरे ॥ २६॥ त्रिभिः फलैस्तु जुहुयान्मधुक्षीरघृतप्लुतैः । मधुरत्रयहोमस्तु सर्वरोगोपशान्तये ॥ २७॥ आयुर्वेदेषु यत्प्रोक्तं यस्य रोगस्य भेषजम् । तस्य रोगस्य शान्त्यर्थं तेन तेन च होमयेत् ॥ २८॥ श्रीकामो बिल्ववृक्षस्य समिद्भिरथवा फलैः । पत्रैर्वाऽप्यस्य जुहुयान्महतीं श्रियमाप्नुयात् ॥ २९॥ विद्यार्थी जुहुयाद्यस्तु रुद्राक्षैर्गोघृतप्लुतैः । विद्यां चायुस्ततो वित्तं लभते नात्र संशयः ॥ ३०॥ वृष्टिकामस्तु सम्पूज्य देवदेवं त्रियम्बकम् । अर्घ्यपाद्यादिभिर्देवमब्लिङ्गैरभिषेचयेत् ॥ ३१॥ आपो हिष्ठेति तिसृभिर्हिरण्यवर्णादिभिस्तथा । पावमानानुवाकेन त्र्यम्बकेत्यनया ऋचा ॥ ३२॥ वैतसीभिः समिद्भिश्च जुहुयात्पयसा प्लुतैः । अयुतं वा सहस्रं वा जुहुयात्पयसाऽपि वा ॥ ३३॥ पुण्याहं वाचयेद्विप्रैर्ब्राह्मणान्भोजयेत्ततः । दशाहाभ्यन्तरे वृष्टिर्भवत्येव न संशयः ॥ ३४॥ वृष्टिकामश्चार्द्रवासा वटवृक्षसमुद्भवैः । समिद्भिर्जुहुयान्मन्त्रान्सद्यो वृष्टिमवाप्नुयात् ॥ ३५॥ नाभिमात्रजले स्थित्वा ध्यायन् वै पुष्टिवर्द्धनम् । जपेत्त्रियम्बकं मन्त्रं महतीं वृष्टिमाप्नुयात् ॥ ३६॥ अग्निहोत्रात्समादाय सितं भसितमुत्तमम् । अनया तु ऋचा हुत्वा जले वृष्टिं निवारयेत् ॥ ३७॥ पुत्रकामस्तु जुहुयात्पायसं घृतसंयुतम् । चरुशेषं स्वयं भुक्त्वा पुत्रमाप्नोति मानवः ॥ ३८॥ इति वशिष्टकल्पोक्तं मृत्युञ्जयसञ्जीवनीमहामृत्युञ्जयविधानम् ॥ मन्त्रमहोदधौ विशेषः -- स्वजन्मदिवसे यस्तु पायसैर्मधुरान्वितैः । जुहोति तस्य वर्द्धन्ते कमलारोग्यकीर्तयः ॥ १॥ गुडूचीबकुलोत्थाभिः समिद्भिर्हवनं नृणाम् । जन्मतारात्रये रोगान्मृत्युं चापि विनाशयेत् ॥ २॥ प्रत्यहं जुहुयाद्दूर्वां अपमृत्युविनष्टये । किं बहूक्तेन सर्वेष्टं प्रयच्छति शिवो नृणाम् ॥ ३॥ इति मृत्युञ्जयविधानं ।

अपरो द्वादशाक्षरो मृत्युञ्जयः

``ॐ जूँ सः पालय पालय सः जूँ ॐ'' ॐ अस्य श्रीद्वादशाक्षरमृत्युञ्जयमन्त्रस्य श्रीकहोल ऋषिः, देवी गायत्री छन्दः मृत्युञ्जयरुद्रो देवता, जूँ बीजं, सः शक्तिः, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । ॐ हर हर स्वाहा हृदये । ॐ कपर्दिने स्वाहा शिरसे । ॐ नीलकण्ठाय स्वाहा शिखायै वषट् । ॐ कालकूटविषभक्षणाय स्वाहा कवचाय हुँ । ॐ नीलङ्कण्ठिने स्वाहा अस्त्राय फट् । अथ ध्यानं - बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः । खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं व्याघ्रत्वक्परिधानमक्षवलयं श्रीनीलकण्ठं भजे ॥ १॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ मनुनाऽनेन सञ्जप्तैः कुम्भस्थैः सलिलैः शुभैः । अभिषिञ्चेत् विषाक्रान्तं विषान् मुच्येत स द्रुतम् । स्पृष्ट्वा जपेद्विषाक्रान्तं तत्क्षणान्निर्विषो भवेत् ॥ इति अपरो द्वादशाक्षरो मृत्युञ्जयः सम्पूर्णः ।

त्र्यक्षरीमृत्युञ्जयजपविधिः

ॐ अस्य श्रीत्र्यक्षरात्मकमृत्युञ्जयमन्त्रस्य कहोलऋषिः, देवी गायत्रीछन्दः, श्रीमृत्युञ्जयो देवता, जूँ बीजं, सः शक्तिः, ॐ कीलकं, सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः । कहोलऋषये नमः शिरसे । देवीगायत्रीच्छन्दसे नमः मुखे । श्रीमृत्युञ्जयदेवतायै नमः हृदि । जूँ बीजाय नमः गुह्ये । सः शक्तये नमः पादयोः । ॐ कीलकाय नमः सर्वाङ्गे । इति हृदयादिन्यासः ॥ अथ करन्यासः - सां अङ्गुष्ठाभ्यां नमः । सीं तर्जनीभ्यां नमः । सूँ मध्यमाभ्यां नमः । सैं अनामिकाभ्यां नमः । सौं कनिष्ठिकाभ्यां नमः । सः करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः - सं हृदि । सीं शिरसि । सूँ शिखायै । सैं नेत्रत्रयाय । सौं कवचाय हुँ । सः अस्त्राय फट् ॥ अथ ध्यानं - चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् । कोटीरेन्दुगलत् सुधास्नुततनुं हारादिभूषोज्ज्वलं कान्त्या विश्वविमोहनं पशुपति मृत्युञ्जयं भावयेत् ॥ १॥ मूलमन्त्रः - ॐ जूँ सः सः जूँ ॐ ॥ अथ पुराणोक्तमृत्युञ्जयमन्त्रः - ॐ मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे । अमृतेशाय शर्वाय महादेवाय ते नमः ॐ ॥ इति त्र्यक्षरीमृत्युञ्जयजपविधिः समाप्ता । इति वसिष्ठकल्पोक्तं महामृत्युञ्जयादिविधानं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Vasishthakalpoktam Mahamrityunjayadi Vidhanam
% File name             : mahAmRRityunjayAdividhAnamvasiShThakalpoktaM.itx
% itxtitle              : mahAmRityunjayAdividhAnam (vasiShThakalpoktam)
% engtitle              : mahAmRityunjayAdividhAnam vasiShThakalpoktaM
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Includes mRRityunjayajapavidhiHtryakSharI and mRRityunjayaHaparodvAdashAkSharo
% Indexextra            : (Scan)
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org