शारदोक्तमहामृत्युञ्जयजपविधिः
ॐ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्टऋषिः अनुष्टुप्छन्दः श्रीत्र्यम्बकरुद्रो देवता श्रीं बीजं ह्रीं शक्तिः मम यजमानस्य वा शरीरे (१)सर्वारिष्टनिवृत्तिपूर्वकसकलमनोरथसिद्ध्यर्थे जपे(२) विनियोगः ॥
अथ ऋष्यादिन्यासः -
ॐ वसिष्ठ ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे ।
श्रीत्र्यम्बकरुद्रदेवतायै नमः हृदये । श्रीं बीजाय नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ॥
अथ करन्यासः -
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा अङ्गुष्ठाभ्यां नमः ।
ॐ हौं ॐ जूँ सः भूर्भुवः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय तर्जनीभ्यां स्वाहा ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा मध्यमाभ्यां वषट् ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं अनामिकाभ्यां हुँ ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय कनिष्ठिकाभ्यां वौषट् ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय करतलकरपृष्ठाभ्यां फट् ॥
एवं हृदयादिन्यासः ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्त्तये मां जीवय जीवय शिरसे स्वाहा ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्द्धनं ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा शिखायै वषट् ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः उर्व्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं कवचाय हुँ ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय नेत्रत्रयाय वौषट् ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय अस्त्राय फट् ॥
अथ वर्णन्यासः ।
ॐ त्र्यं नमः दक्षिणचरणाग्रे । बं नमः कं नमः यं नमः जां नमः दक्षिणचरणसन्धिचतुष्केषु । मं नमः वामचरणाग्रे ।
हें नमः सुं नमः गं नमः धिं नमः वामचरणसन्धिचतुष्केषु । पुं नमः गुह्ये । ष्टिं नमः आधारे । वं नमः जठरे ।
र्द्धं नमः हृदये । नं नमः कण्ठे । ॐ उं नमः दक्षिणकराग्रे । र्वां नमः रुं नमः कं नमः मिं नमः दक्षिणकरसन्धिचतुष्केषु ।
वं नमः वामकराग्रे । वं नमः धं नमः नां नमः मृं नमः वामकरसन्धिचतुष्केषु । त्यों नमः वदने । मुं नमः ओष्ठयोः ।
क्षीं नमः घ्राणयोः । यं नमः दृशोः । मां नमः श्रवणयोः । मृं नमः भ्रुवोः । तां नमः शिरसि । पदन्यासः । त्र्यम्बकं शिरसि ।
यजामहे भ्रुवोः । सुगन्धिं दृशोः । पुष्टिवर्द्धनं मुखे । उर्व्वारुकं गण्डयोः । इव हृदये । बन्धनात्जठरे, मृर्त्यो-गुह्ये । मुक्षीय-उर्वोः । मा जानुनोः । अमृतात् पादयोः ॥
अथ ध्यानम् ।
हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो, द्वाभ्यां तौ दधतं मृगाऽक्षवलये द्वाभ्यां वहन्तं परम् ।
अङ्कन्यस्तकरद्वयामृतघटं कैलाशकान्तं शिवं, स्वच्छाम्भोजगतं नवेन्दुमुकुटाभान्तं त्रिनेत्रं भजे ॥ १॥
इति ध्यात्वा मानसोपचारैः सम्पूज्य पूर्ववत् मालापूजनं पूर्ववत् मूलमन्त्रं जपेत् ॥
मन्त्रस्वरूपम् ।
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् भूर्भुवः स्वरों जूँ सः हौं ओम् ॥ १॥
जपान्ते प्रार्थना -
मृत्युञ्जय महारुद्र त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १॥
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं जपेन्मन्त्रञ्च त्र्यम्बकम् ॥ २॥
(१)- देवे तीर्थे द्विजे मन्त्रे दैवेज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥
(२)- मन्त्रजपे पाठे च भेदः -
मनसा यः स्मरेत्स्तोत्रं वचसा वा मनुं जपेत् ।
उभयं निष्फलं देविभिन्नभाण्डोदकं यथा (मं. शा.) ॥
इति शारदोक्तमहामृत्युञ्जयजपविधिः समाप्ता ।
Proofread by Paresh Panditrao