मण्डलब्राह्मणोपनिषत्
बाह्यान्तस्तारकाकरं व्योमपञ्चकविग्रहम् ।
राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम ।
तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति ।
सहोवाच नारायणः ।
ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते ।
शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं
विषयेन्द्रियनिग्रहश्चैते यमाः ।
गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च
तद्वस्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः
फलानभिलाषो वैराग्यभावश्च नियमाः ।
सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति ।
पूरककुम्भकरेचकैः षोडशचतुष्षष्टि-
द्वात्रिऽन्शत्सङ्ख्यया यथाक्रमं प्राणायामः ।
विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः ।
सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ।
विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं
धारणं भवति ।
ध्यानविस्मृतिः समाधिः ।
एवं सूक्ष्माङ्गानि । य एवं वेद स मुक्तिभाग्भवति ॥ १॥
देहस्य पञ्चदोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः ।
तन्निरासस्तु निःसङ्कल्पक्षमालघ्वाहारप्रमादतातत्त्वसेवनम् ।
निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं
दारपङ्कं संसारवार्धिं तर्तुं सूक्ष्ममार्गमवलम्ब्य
सत्त्वादिगुणानतिक्रम्य तारमवलोकयेत् ।
भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म ।
तदुपायं लक्ष्यत्रयावलोकनम् ।
मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा ।
मृणालतन्तुसूक्ष्मा कुण्डलिनी । ततो तमोनिवृत्तिः ।
तद्दर्शनात्सर्वपापनिवृत्तिः । तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये
फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्य नीलज्योतिः
पश्यति । एवं हृदयेऽपि । बहिर्लक्ष्यं तु नासाग्रे चतुः-
षडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्व-
सदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति
स तु योगी चलनदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य
दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दृष्टिः स्थिरा भवति ।
शीर्षोपरि द्वादशाङ्गुलिमानज्योतिः पश्यति तदाऽमृतत्वमेति ।
मध्यलक्ष्यं तु प्रातश्चित्रादिवर्णसूर्यचन्द्रवह्निज्वाला-
वलीवत्तद्विहीनान्तरिक्षवत्पश्यति ।
तदाकाराकारी भवति । अभ्यासान्निर्विकारं
गुणरहिताकाशं भवति । विस्फुरत्तारकाकारगाढ-
तमोपमं पराकाशं भवति । कालानलसमं
द्योतमानं महाकाशं भवति । सर्वोत्कृष्ट-
परमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति ।
कोटिसूर्यप्रकाशं सूर्याकाशं भवति ।
एवमभ्यासात्तन्मयो भवति । य एवं वेद ॥ २॥
तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः ।
पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति ।
तारकं द्विविधम् । मूर्तितारकममूर्तितारकमिति ।
यदिन्द्रियान्तं तन्मूर्तितारकम् । यद्भ्रूयुगातीतं
तदमूर्तितारकमिति । उभयमपि मनोयुक्तमभ्यसेत् ।
मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति ।
भ्रूयुगमध्यबिले तेजस आविर्भावः । एतत्पूर्वतारकम् ।
उत्तरं त्वमनस्कम् । तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते ।
तद्दर्शनादणिमादिसिद्धिः । लक्ष्येऽन्तर्बाह्यायां
दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी
मुद्रा भवति । सर्वतन्त्रेषु गोप्यमहाविद्या भवति ।
तज्ज्ञानेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् ।
अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति । महर्षिवेद्यं
अन्तर्बाह्येन्द्रियैरदृश्यम् ॥ ३॥
सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । बुद्धिगुहायां
सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे ।
शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं
नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् ।
अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ।
उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृष्ट्या
वा यः पश्यति स एव ब्रह्मनिष्ठो भवति । जीवः
पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य
षड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति ।
एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो
भूत्वा परमाकाशाखण्डमण्डलो भवति ॥ ४॥
इति प्रथमं ब्राह्मणम् ॥
अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ ।
भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् । मया तन्न
ज्ञातम् । तद्ब्रूहि मह्यम् । तदुहोवाच पञ्चभूत-
कारणं तडित्कूटाभं तद्वच्चतुःपीठम् । तन्मध्ये
तत्त्वप्रकाशो भवति । सोऽतिगूढ अव्यक्तश्च ।
तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् । तद्बाह्याभ्यन्तर्लक्ष्यम् ।
तन्मध्ये जगल्लीनम् । तन्नादबिन्दुकलातीतमखण्डमण्डलम् ।
तत्सगुणनिर्गुणस्वरूपम् । तद्वेत्ता विमुक्तः । आदावग्निमण्डलम् ।
तदुपरि सूर्यमण्डलम् । तन्मध्ये सुधाचन्द्रमण्डलम् ।
तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् । तद्विद्युल्लेखावच्छुक्ल-
भास्वरम् । तदेव शाम्भवीलक्षणम् । तद्दर्शने तिस्रो मूर्तय
अमा प्रतिपत्पूर्णिमा चेति । निमीलितदर्शनममादृष्टिः ।
अर्धोन्मीलितं प्रतिपत् । सर्वोन्मीलनं पूर्णिमा भवति । तासु
पूर्णिमाभ्यासः कर्तव्यः तल्लक्ष्यं नासाग्रम् । तदा
तालुमूले गाढतमो दृश्यते । तदभ्यासादखण्डमण्डलाकार-
ज्योतिर्दृश्यते । तदेव सच्चिदानन्दं ब्रह्म भवति । एवं
सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति । तामेव
खेचरीमाहुः । तदभ्यासान्मनःस्थैर्यम् । ततो वायुस्थैर्यम् ।
तच्चिह्नानि । आदौ तारकवद्दृश्यते । ततो वज्रदर्पणम् । तत
उपरि पूर्णचन्द्रमण्डलम् । ततो वह्निशिखामण्डलं क्रमाद्दृश्यते ॥ १॥
तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र-
बिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसवर्णनव-
रत्नादिप्रभा दृश्यन्ते । तदेव प्रणवस्वरूपम् ।
प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्र-
दर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखी-
करणेन प्रणवध्वनिं निशम्य मनस्तत्र लीनं भवति ।
तस्य न कर्मलेपः । रवेरुदयास्तमययोः किल कर्म
कर्तव्यम् । एवंविदश्चिदादित्यस्योदयास्तमयाभावा-
त्सर्वकर्माभावः । शब्दकाललयेन दिवारात्र्यतीतो भूत्वा
सर्वपरिपूर्णज्ञानेनोन्यान्यवस्थावशेन ब्रह्मैक्यं
भवति । उन्मन्या अमनस्कं भवति । तस्य निश्चिन्ता
ध्यानम् । सर्वकर्मनिराकरणमावाहनम् ।
निश्चयज्ञानमासनम् । उन्मनीभावः पाद्यम् ।
सदाऽमनस्कमर्घ्यम् । सदादीप्तिरपारामृतवृत्तिः
स्नानम् । सर्वत्र भावना गन्धः । दृक्स्वरूपावस्थान-
मक्षताः । चिदाप्तिः पुष्पम् । चिदग्निस्वरूपं धूपः ।
चिदादित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्यैकीकरणं
नैवेद्यम् । निश्चलत्वं प्रदक्षिणम् । सोहंभावो नमस्कारः ।
मौनं स्तुतिः । सर्वसन्तोषो विसर्जनमिति य एवं वेद । ॥ २॥
एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवात-
स्थितदीपवदचलसम्पूर्णभावाभावविहीनकैवल्यद्योतिर्भवति ।
जाग्रन्निन्दान्तःपरिज्ञानेन ब्रह्मविद्भवति ।
सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयो-
र्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च । समाधौ
मृदिततमोविकारस्य तदाकाराकारिताखण्डाकार-
वृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः सम्पद्यते
प्रपञ्चस्य मनःकल्पितत्वात् । ततो भेदाभावात्कदाचि-
द्बहिर्गतेऽपि मिथ्यात्वभानात् । सकृद्विभातसदानन्दा-
नुभवैकगोचरो ब्रह्मवित्तदेव भवति । यस्य सङ्कल्पनाशः
स्यात्तस्य मुक्तिः करे स्थिता । तस्माद्भावाभावौ परित्यज्य
परमात्मध्यानेन मुक्तो भवति । पुनःपुनः सर्वावस्थासु
ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये
चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् । य एवं वेद ॥ ३॥
पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः ।
जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः ।
पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति
काङ्क्षते । स एव स्वीकृतवैराग्यात्कर्मफलजन्माऽलं
संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्ग-
प्रवृत्तो भवति । स एव संसारतारणाय गुरुमाश्रित्य
कामादि त्यक्त्वा विहितकर्माचरन्साधनचतुष्टयसम्पन्नो
हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूपमासाद्य
सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा
एक एवाहमद्वितीयः कञ्चित्कालमज्ञानवृत्त्या
विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या
प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य
परंतु नहि मदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति
भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यान-
तदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः
परिपक्वो भवति । सङ्कल्पादिकं मनो बन्धहेतुः । तद्वियुक्तं
मनो मोक्षाय भवति । तद्वांश्चक्षुरादिबाह्यप्रपञ्चरतो
विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्यक्ताहङ्कारो
ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति
भावयन्कृतकृत्यो भवति ॥ ४॥
सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति ।
तं ब्रह्मेति स्तुवन्ति । सर्वलोकस्तुतिपात्रः सर्वदेश-
संचारशीलः परमात्मगगने बिन्दुं निक्षिप्य
शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डा-
नन्दपदानुवृत्त्या जीवन्मुक्तो भवति । तच्चानन्द-
समुद्रमग्ना योगिनो भवन्ति । तदपेक्षया इन्द्रादयः
स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ ५॥
इति द्वितीयं ब्राह्मणम् ॥ २॥
याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ
स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं
पुनस्तल्लक्षणं ब्रूहीति । तथेति मण्डलपुरुषोऽब्रवीत् ।
इदममनस्कमतिरहस्यम् । यज्ज्ञानेन कृतार्थो
भवति तन्नित्यं शांभवीमुद्रान्वितम् । परमात्मदृष्ट्या
तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं
शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीना-
मेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो
गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः
संविदितमनोन्मन्यनुभवस्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्क-
सुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं
परंब्रह्म प्राप्नोति । ततः शुष्कवृक्षवन्मूर्च्छानिद्रामय-
निःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः
परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति ।
पयस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे
मनोनाशं भवति तदेवामनस्कम् । तदनु नित्यशुद्धः
परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव
त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥ १॥
परिपूर्णपराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः
संन्यस्तसर्वेन्द्रियवर्गः अनेकजन्मार्जितपुण्यपुञ्जपक्व-
कैवल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति
कृतकृत्यो भवति । त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः ।
इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् ॥ २॥
इति तृतीयं ब्राह्मणम् ॥ ३॥
अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ
व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति । स
होवाचाकाशं पराकाशं महाकाशं
सूर्याकाशं परमाकाशमिति पञ्च भवन्ति ।
बाह्याभ्यन्तरमन्धकारमयमाकाशम् ।
बाह्यस्याभ्यन्तरे कालानलसदृशं पराकाशम् ।
सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् ।
सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् ।
अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं
परमाकाशम् । एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति ।
नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
सम्यगेतन्न जानाति स योगी नामतो भवेत् ॥ १॥
इति चतुर्थं ब्राह्मणम् ॥ ४॥
सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति ।
अतः सर्वं जगच्चित्तगोचरम् । तदेव चित्तं निराश्रयं
मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति । तल्लयं
परिपूर्णे मयि समभ्यसेत् । मनोलयकारणमहमेव ।
अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
तन्मनो विलयं याति तद्विष्णोः परमं पदम् ।
तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् ।
एतदेव परमतत्त्वम् । स तज्ज्ञो बालोन्मत्त-
पिशाचवज्जडवृत्त्या लोकमाचरेत् एवममनस्काभ्यासेनैव
नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गा-
जाड्यनिद्रादृग्वायुचलनाभावब्रह्मदर्शनाज्ज्ञात-
सुखस्वरूपसिद्धिर्भवति । एवं चिरसमाधिजनित-
ब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंस
अवधूतो भवति । तद्दर्शनेन सकलं जगत्पवित्रं भवति ।
तत्सेवापरोऽज्ञोऽपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तारयति ।
तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् ॥
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥
Encoded by Sunder Hattangadi