उपदेशसारः
गर्गसंहितायां विश्वजित्खण्डे त्रयस्त्रिंशाध्यः
प्रद्युम्न उवाच -
इदं शरीरं भुवि पाञ्चभौतिकं फेनोपमं कर्मगुणादिनिर्मितम् ।
गतागतं कालवशं कदापि बुधा न शोचन्ति यथार्भकैः कृतम् ॥ १॥
गच्छन्ति चोर्ध्वं किल सात्विका जना मध्ये च तिष्ठन्ति हि राजसा नराः ।
अधः प्रगच्छन्ति हि तामसाः परे मुहुर्मुहुस्ते विचरन्ति कर्मभिः ॥ २॥
बिभेत्ययं वा किल सर्वतो यथा नेत्रभ्रमेणाचलतीव भूर्वृथा ।
तथा च सर्वं मनसा कृतं जगत्काचेऽर्भकं ह्यभर्क आवृतो यथा ॥ ३॥
यथा सुखं मण्डलवर्तिनां चलं तथास्ति पातालनिवासिनामपि ।
तथामराणां क्रतुभिः कृतं स्मरेत्सर्वं त्यजेत्तत्तृणवत्परो जनः ॥ ४॥
ऋतोर्गुणा देहगुणाः स्वभावा अहर्दिनं यान्ति यथा तथा जनाः ।
दृश्यं च यद्यन्न हि किञ्चिदस्ति यथा व्रजे गच्छति पान्थसङ्गमम् ॥ ५॥
दृष्टं यथा वस्तु यदोल्कया तथा परे गते किं ह्युभयप्रयोजनम् ।
विधाय मार्गं विचरेच्छिवस्य पश्यन्हि सर्वत्र हरिं परेश्वरम् ॥ ६॥
यथेन्दुरेको जलपात्रवृन्दगो यथाग्निरेको विदितः समिच्चये ।
तथा परात्मा भगवाननेकवत्सोऽन्तर्बहिः स्यात्सुकृतेषु देहिषु ॥ ७॥
यो ज्ञाननिष्ठोऽतिविरागमाश्रितः श्रीकृष्णभक्तस्त्वनपेक्षकोऽपि यः ।
तपोवनं वापि गृहं गृहं वनं स्पृशन्ति तं ते त्रिगुणा न सर्वतः ॥ ८॥
ततो यतिस्त्वध्यगमत्परात्परं सुखी सदाऽऽनन्दमयस्तु बालवत् ।
देहेन पश्यत्युत सर्वकारणं धृतं च वासो मदिरामदान्धवत् ॥ ९॥
सूर्योदये सर्वतमो विलियते प्रदृश्यते वस्तु गृहे यथा जनैः ।
ज्ञानोदयेऽज्ञानतमः प्रलीयते सम्भ्राजते ब्रह्म परं तनौ तथा ॥ १०॥
यथेन्द्रियाणां च पृथक् च वर्त्मभिर्नोन्नीयतेऽर्थस्त्रिगुणाश्रयः परः ।
एकं ह्यनन्तस्य परस्य धाम तथा मुनीनां किल शास्त्रवर्त्मिभिः ॥ ११॥
परं पदं केऽपि वदन्ति वैष्णवं के वापि वैकुण्ठपरं परेशम् ।
शान्तिं च यत्केऽपि तमःपरं बृहत्कैवल्यमेके प्रवदन्ति धामके ॥ १२॥
यदक्षरं केऽपि दिशं वदन्ति के गोलोकमाद्यं प्रवदन्त्यथापरे ।
केचिन्निकुञ्जं निजलीलयाऽऽवृतं प्राप्नोति कृष्णस्य पदं च तन्मुनिः ॥ १३॥
इति गर्गसंहितायां विश्वजित्खण्डे त्रयस्त्रिंशाध्यान्तर्गतः
उपदेशसारः समाप्तः ।
Garga Samhita, Vishwajitkhanda, Adhaya 33 verses 11-23
Encoded by Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/
Proofread by PSA Easwaran