उपदेशसारभाष्यम्
॥ श्रीः ॥
अथ रमणस्य भगवतो महर्षेरुपदेशसारं व्याख्यास्यामः ।
तस्यायमादिमः श्लोको भवति ॥
कर्तुराज्ञया प्राप्यते फलम् ।
कर्म किं परं कर्म तज्जडम् ॥ १॥
मीमांसकाभिमतं फलप्रदत्वे कर्मणः प्राधान्यं खण्डयितुमयमारम्भः ।
फलं कर्तुरीश्वरस्य आज्ञया प्राप्यते । कर्म परं किम् ।
नेत्यर्थः । तत्कर्म जडं भवति ।
कर्मणः परत्वाभावाय जडत्वमत्र हेतुत्वेनोपन्यस्तम् ।
कर्म यस्माज्जडं तस्मान्न परमिति यावत् ।
ननु, न वयं कर्मणः परत्वमुद्दिश्य विवदामः । फलप्रदत्वे कर्मणः
प्राधान्यमित्येवास्माकं वादः । मास्तु परं कर्म । तथाऽपि स्वजन्यापूर्वद्वारा
फलप्रदं भवेत् । एवं हि प्रमाणभूतानि वैदिकवाक्यानि सङ्गच्छेरन्निति
चेत् ।
न । ज्योतिष्टोमादीनां स्वर्गसाधकत्वादिबोधयतां वाक्यानां परमेश्वरस्य
शुभाशुभफलप्रदत्वे कर्मसापेक्षत्वोक्तेरपि समन्वेतुं शक्यत्वात् । अपि
च शुभाशुभफलप्रदत्वं च सर्वेषां जगन्नियामकत्वान्नातिरिच्यते ।
तज्जगन्नियामकं तदेव परं स्यात् । अत एव कर्मवादिनो दैवशब्देन
तज्जन्यापूर्वं वदन्ति । महर्षिश्च कर्म किं परमित्यत्र तदपूर्वमेवोद्दिशति,
व्यवहारेषु कर्मापूर्वयोरविभक्त्त्वात् । तस्मान्न वयं कर्म परं वदाम इति
पूर्वपक्षिणा वक्तुमशक्यम् । अयं भावः । मीमांसककल्पितमपूर्वं
जडत्वान्न परम् । न च शुभाशुभानि फलानि स्वतन्त्रतया दातुमीष्टे ।
गौरवं च भवति तस्य कल्पन ईश्वरस्यैव सापेक्षस्य कर्मफलदातृत्वे
प्रमाणवाक्यानामबाधात् ।
कृतिमहोदधौ पतनकारणम् ।
फलमशाश्वतं गतिनिरोधकम् ॥ २॥
फलं कर्मफलं अशाश्वतं सत्, भोगेनावक्षीणमनुशयमात्रशेषमिति यावत् ।
कृतिमहोदधौ कर्ममहासमुद्रे पतनकारणं भवतीति शेषः । यदि फलं
शाश्वतं स्यात् तर्हि पुनरावृत्तिर्न स्यात् । फलस्याशाश्वतत्वादेव
शेषानुशयवशात्पुनरावृत्तिसम्भव इति भावः । अत एव गतिनिरोधकम् ।
गतेः पुनरावृत्तिरहितायाः परधामगतेर्निरोधकं प्रतिबन्धकं भवतीति
शेषः । अत्राशाश्वतं फलमेव पतनकारणमुक्तं भगवता, न कर्म,
तस्मात्सकामकर्मैव दूषयति भगवानित्यवगन्तव्यम् ।
ईश्वरार्पितं नेच्छया कृतम् ।
चित्तशोधकं मुक्तिसाधकम् ॥ ३॥
ईश्वरार्पितं ईश्वराय विश्वाध्यक्षाय अर्पितं त्वमेवास्य कर्मणः फलं यथेष्टं
जगतः कार्ये विनिङ्क्ष्वेति समर्पितम् । नेच्छया अनिच्छया, नञो न
लोपाभावो नैकादिवत् । कृतं कर्म चित्तशोधकं चित्तस्य मनसः शोधकं
शुद्धिकारि । मुक्तिसाधकं मुक्तेः संसारबन्धाद्विमोक्षस्य साधकं च
भवति । मनसि शुद्धे हि मोक्षः सुलभः ।
कायवाङ्मनः कार्यमुत्तमम् ।
पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥
तदेव कर्म विभजते । कायवाङ्मनः कार्यं पूजनं जपश्चिन्तनं च,
कायकार्यं पूजनं वाक्कार्यं जपः मनः कार्यं चिन्तनं चेति क्रमादन्वयो
बोध्यः । तदिदं त्रयं क्रमादुत्तमम् । पूजनं प्रथमं कर्म । तत उत्तमं
जपाख्यं कर्म । तत उत्तमं ध्यानमिति यावत् । अत्र स्तोत्रस्य जपे
सङ्ग्रहो ज्ञेयः ।
जगत ईशधीयुक्तसेवनम् ।
अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥
पूर्वश्लोके पूजनशब्देन सामान्यतो विग्रहाराधनमभिहितम् । तस्यावरत्वेन
कीर्तनादेतदवगम्यते । अधुना पूजाप्रसङ्गेन सर्वकर्मोत्कृष्टं विशिष्टं
पूजनमेकमभिदधाति । जगतः प्रपञ्चस्य ईशधीयुक्तसेवनं ईश्वर एवेदं
जगदिति धिया युक्तं सेवनम् । सर्वं खल्विदं ब्रह्न तज्जलानिति शान्त
उपासीते । शाण्डिल्यविद्योक्तमुपासनमिति यावत् । अष्टमूर्तिभृद्देवपूजनं
भवति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ जीवश्चेश्वरस्याष्टौ मूर्तिविशेषा
उच्यन्ते । ताभिश्च मूर्तिभिः सर्वं जगदाक्रान्तमिति हेतोर्विश्वस्येश्वर-
धियोपासनमष्टमूर्त्युपासनं भवतीति भावः । इदं तु पूर्णं पूजनम् । नास्य
पूर्वश्लोकोक्तपूजने सङ्ग्रहः । तस्य सर्वावरत्वादस्य सर्वोत्तमत्वात् ।
ध्यान एवास्य सङ्ग्रहो भवति । धिय एवैकरूपाया अत्र प्राधान्यात् ।
सामान्यतः पूजनं तु शिवमूर्तिष्वन्यतमस्याः पृथिव्याः स्वल्पैकदेशस्य
भवति । कायनिष्पाद्यं च भवति । इदं तु सर्वासां मूर्तिनां साकल्येन
बुद्धिनिष्पाद्यमित्यनयोरस्ति भूयान्विशेषः ।
उत्तमस्तवादुच्चमन्दतः ।
चित्तजं जपध्यानमुत्तमम् ॥ ६॥
उत्तमस्तवात्सत्याद्वैदिकात्तृशादार्षाद्वाऽन्यस्मात् । उच्चमन्दतः
उच्चान्मन्दादुपांशोश्च प्रकरणाज्जपादिति शेषः । चित्तजं मानसिकं जप-
ध्यानं जप एव ध्यानमित्यत्र समासः । न जपो ध्यानं च तयोः समाहार
इति । ध्यानस्य मानसिकजपादव्यतिरेकात् । उत्तमं भवति ।
स्तोत्रवाचकोपांशुजपेभ्यो ध्यानं श्रेष्ठमिति भावः । आद्येष्वपि त्रिषु यथोत्तरं
श्रैष्ठ्यमूह्यम् ।
आज्यधारया स्रोतसा समम् ।
सरलचिन्तनं विरलतः परम् ॥ ७॥
आज्यधारया घृतधारया स्रोतसा नदीप्रवाहेन च समम्, सरलचिन्तनं
सरलं नित्यं सहजं निर्यच्चिन्तनं ध्यानं विरलतः मध्ये मध्ये विच्छिन्नात्
परं श्रेष्ठम् । उत्तमे ध्यानेऽपि सच्छेदादविच्छेदं शस्यत इति यावत् ।
ध्याने भक्तिरूपस्नेहसम्बन्धं सूचयितुमाज्यधारौपम्यम् । नैर्मल्यं सूचयितुं
प्रवाहौपम्यम् ।
भेदभावनात्सोऽहमित्यसौ ।
भावनाऽभिदा पावनी मता ॥ ८॥
भूयो ध्याने विशेषान्तरमाह भेदभावनात् ध्याने ध्यातुः स्वस्मादीश्वरं
भिन्नं कल्पयित्वा यद्भावनं क्रियते तस्मात् सोऽहमित्यसौ ईश्वर
एवाहमित्याकारका अभिदा भेदरहिता भावना पावनी पवित्र मता ।
भेदेन ध्यानादभेदेन ध्यानमुत्तममिति भावः ।
भावशून्यसद्भावसुस्थितिः ।
भावनाबलाद्भक्तिरुत्तमा ॥ ९॥
भावनाबलात् अभेदभावनाबलादित्येव सामर्थ्यात् । भावशून्यसद्भाव-
सुस्थितिः भावशून्या सङ्कल्पशून्या सद्भावेन सत्तया सुस्थितिर्निष्ठा
उत्तमा भक्तिर्भवति । भिन्नभावनायां या भक्तिः सा त्ववरेति परिशेषन्यायात्
सिध्यति ॥
हृत्स्थले मनः स्वस्थता क्रिया ।
भक्तियोगबोधाश्च निश्चितम् ॥ १०॥
हृत्स्थले आत्मनः स्थाने मनःस्वस्थता मनसः स्वस्थानस्थितता ।
क्रिया कर्म भवति । भक्तियोगबोधाश्च भक्तिर्योगो बोधश्च भवति ।
निश्चितम्, न कश्चित्संशय इत्यर्थः । मनसः स्वजनिस्थाने हृदयेऽवतीर्य
निष्ठैव कर्म पर्यवसन्नं सर्वकर्ममौलिभूतम् । सैव भक्तिः पर्यवसन्ना
सर्वभक्तिमौलिभूता । सैव योगः पर्यवसन्नः सर्वयोगमौलिभूतः । सैव
ज्ञानं पर्यवसन्नमिति यावत् ।
वायुरोधनाल्लीयते मनः ।
जालपक्षिवद्रोधसाधनम् ॥ ११॥
वायुरोधनात् वायोः प्राणस्य रोधनात् प्रतिष्टम्भनान्नियमनाद्वा मनः
जालपक्षिवत् लीयते आत्मनि निश्चलं रुद्धं भवति । इदं रोधसाधनम् ।
पूर्ववाक्यार्थस्य कर्तृत्वादिदमिति तस्याक्षेपः । हठेन कुम्भकस्य साधनं
प्रतिष्टम्भनं प्राणस्य भवति । सततं यातायातप्रत्यवेक्षणान्नियमनं भवति ।
तस्यापि कुम्भकसंज्ञा राजयोगिनां मतेनाविरुद्धा । उत्तरैव महर्षेरिष्टा
प्रक्रिया यदयमाह गीतासु (रमणगीतासु) ॑ प्राणरोधश्च मनसा प्राणस्य
प्रत्यवेक्षणम् । कुम्भकं सिध्यति ह्येवं सततप्रत्यवेक्षणात् ॑ इति ।
चित्तवायवश्चित्क्रियायुताः ।
शाखयोर्द्वयी शक्तिमूलका ॥ १२॥
चित्क्रियायुताः क्रमेण चिता क्रियया च युताः चित्तवायवः चित्तानि मनांसि
वायवः प्राणश्च चिद्युतानि चित्तानि क्रियायुताः प्राणाश्चेति यावत् ।
शक्तिमूलका शक्तिरीश्वरशक्तिर्मूलं यस्यास्तादृशी शाखयोर्द्वयी भवति ।
आदिशक्तेर्ज्ञानशक्तिशाखा चित्तानि । क्रियाशक्तिशाखा प्राणा इति
तात्पर्यम् । जनबहुत्वापेक्षया चित्तप्राणयोर्बहुवचनेन निर्देशः । अयं
भावः । यतो मनो वायुश्च शाखाद्वयमीश्वरशक्तेः, तस्मात्तदुभयं च
तदधिगमाय मार्गीभवितुमर्हति ।
लयविनाशने उभयरोधने ।
लयगतं पुनर्भवति नो मृतम् ॥ १३॥
लयो विनाशनं च लयविनाशने, उभयरोधने उभयविधरोधने भवतः ।
मध्यमपदलोपसमासः । लयगतं मन इत्यध्याहारः । पुनर्भवति जायते ।
मृतं विनष्टं नो न जायते । वृत्तिमात्रोपसंहारो लयः । तद्वतो योगिन
उत्थानं समाधिश्च पर्यायेण भवतः । वृत्तिमूलाहङ्कारोपसंहारो विनाशनम् ।
तद्वतो ज्ञानिनो नित्यः समाधिर्भवति ।
प्राणबन्धनाल्लीनमानसम् ।
एकचिन्तनान्नाशमेत्यदः ॥ १४॥
वायुरोधनादिति श्लोकोक्तात्प्राणबन्धनात् प्राणप्रतिष्टम्भनात् प्राण-
नियमनाद्वा लीनमानसं लीनं मनः अदः एकचिन्तनादात्मैक्यानु-
सन्धानान्नाशमेति । प्राणरोधो मनसो लयहेतुरेव भवति न विनाशन-
हेतुः । लीने मनस्यैक्यानुसन्धानं मनोनाशनायेत्यर्थः ।
नष्टमानसोत्कृष्टयोगिनः ।
कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥
स्वस्थितिमात्मनिष्ठाम्, यतः प्राप्तस्य नष्टमानसोत्कृष्टयोगिनः कृत्यं
किमस्ति । नष्टे मनसि न किञ्चित्कर्तव्यं शिष्यत इति भावः ।
दृश्यवारितं चित्तमात्मनः ।
चित्त्वदर्शनं तत्त्वदर्शनम् ॥ १६॥
दृश्यवारितं दृश्येभ्यो वारितं परावृत्तमन्तर्मुखमिति यावत् । चित्तं
आत्मनश्चित्त्वदर्शनं भवति । व्यतिरेकतो विषयेभ्यः परावृत्तमेव
चित्तमन्वयत आत्मचित्त्वदर्शनं भवतीत्यक्षरार्थः । चित्तस्य
बहिर्मुखत्वाभावे निद्राऽभावे चान्तर्मुखं तदात्मचित्त्वदर्शनरूपमेव
पर्यवस्येत् । अथाऽऽह यदात्मनश्चित्त्वदर्शनं तदेव तत्त्वदर्शनम् ।
मानसं तु किं मार्गणे कृते ।
नैव मानसं मार्ग आर्जवात् ॥ १७॥
मानसं तु किं किं स्वरूप इति मार्गणे विचारणे कृते मानसं नैव न
परिशिष्यत इति भावः । विचारयिता स्वयमेव हि मानसस्य स्वरूपम् ।
स्वरश्मिविशेषत्वान्मानसस्य । विचारणसमये स च रश्मिरात्मन्युपसंहृतो
भवतीति तदा नैव मानसमित्युपदिशति भगवान् । अयमेवार्जवान्मार्गः ।
वृत्तयस्त्वहं वृत्तिमाश्रिताः ।
वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥
वृत्तयस्तु अहं वृत्तिं अहमित्याकारकं सङ्क्ल्पं आश्रिता तन्मूलकाः
तत्प्रकृतिका इत्यर्थः । वृत्तय एव मनः संसृतौ विजृम्भणकाले ।
तस्मान्मनोऽहं विद्धि । यस्मादहंवृत्तिमाश्रिताः सर्वा वृत्तयस्तस्मात्तद्रूपं
मनस्तत्प्रकृतिभूताऽहंवृत्तिरूपं पर्यवस्यतीति तात्पर्यम् ।
अहमयं कुतो भवति चिन्वतः ।
अयि पतत्यहं निजविचारणम् ॥ १९॥
अयमहं अहङ्कारः अहंवृत्तिरूपः कुतो भवति इति चिन्वतः मार्गयतः
विचारयतः, अहं सोऽहङ्कारः, पतति नाशमेति । इदमेव
निजविचारणमात्मविचारणम् । अयीति शिष्यसम्बोधनम् । अत्रापि
वाक्यार्थस्य कर्तृत्वादिदमित्याक्षिप्यते ।
अहमि नाशभाज्यहमहंतया ।
स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥
अहमि मनोमूलवृत्तिरूपे नाशभाजि सति परमपूर्णसत् परममखण्डं
सच्च हृत् स्वरूपं स्वयं अहमहंतया अहमहमिति धिया स्फुरति भासते ।
नन्वहमि नाशं प्राप्ते कुतः पुनरन्यस्याहमः सम्भव । उच्यते । अहन्ता
व्यक्तित्वान्नातिरिच्यते । तन्मनोगतमात्मगतं च द्विविधं भवति ।
मनोगतेऽहंभावे नात्मन्यहंभावः । तदुपरम आत्मनो व्यक्तित्वं भासेत ।
तस्मादुक्तमेकस्मिन्नहमि नाशं गतेऽन्यदहंतया स्फुरतीति ।
इदमहंपदाभिख्यमन्वहम् ।
अहमि लीनकेऽप्यलयसत्तया ॥ २१॥
इदं हृत् अहंपदाभिख्यं अहं पदमभिख्या यस्येति । अहमिति पदं
मनसि गौणमात्मनि मुख्यमिति भावः । हेतुमाह । अन्वहं अहमि
लीनकेऽपि मनोमयाहङ्कारे नष्टेऽपि अलयसत्तया अनष्टसद्भावेन ।
अयं भावः । योऽहंपदार्थः स आत्मेति पामरोऽप्यङ्गीकुर्यात् । अहङ्कारे
शान्ते नात्मा शान्तो दृश्यते । स्फुरत्येवाहमिति । मनस्तु शान्तं भवति ।
एवमन्वयव्यतिरेकाभ्यामहंपदं मनसि गौणमात्मनि मुख्यमिति सिद्धम् ।
कथं गौणं कथं मुख्यम् । मनसोऽहङ्कारसम्बन्धात्तत्र गौणम् ।
आत्मन्यहन्तायाः सत्तारूपेण नित्यं भानात्तत्र मुख्यम् ।
विग्रहेन्द्रियप्राणधीतमः ।
नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥
एकसत् एकसद्रूपः अहं विग्रहेन्द्रियप्राणधीतमो न, देहेन्द्रियप्राणबुद्धि-
रूपं तिमिरं न । कारणमाह । हि यस्मात्कारणात् तद्विग्रहादि जडं
असच्च । यज्जडं तत्कथमात्मा । यन्नास्ति तत्कथमात्मा ।
सत्त्वभासिका चित्क्व वेतरा ।
सत्तया हि चिच्चित्तया ह्यहम् ॥ २३॥
सद्वस्तु केन भासत इत्याशङ्क्य परिहरति । सत्त्वभासिका इतरा चित्
क्व वा । नेत्यर्थः । सत्तां भासयितुमन्यस्याश्चितो नावसर इति यावत् ।
कारणमाह । हि यस्मात् सत्तया चिद्भवति यत्सत्तदेव
स्वभावतश्चिन्मयम् इत्यर्थः । हि यस्माच्च कारणात् अहं चित्तया भवामि ।
या चित्सैव स्वभावतोऽहंपदार्थ इत्यर्थः । सत्ताचित्ताहन्तानां त्रिकं
स्वभावतः समानाधिकरणमिति यावत् । चिद्रश्मिसन्बन्धान्मनस्यहन्ता
गौणीति प्रागेवावेदितम् ।
ईशजीवयोर्वेषधीभिदा ।
सत्स्वभावतो वस्तु केवलम् ॥ २४॥
ईशजीवयोः वेषधीभिदा भवति । वेषतो भेदश्चाण्डपिण्डोपाधिकृतः ।
धीतो भेदः सर्वज्ञत्वाल्पज्ञत्वाभ्याम् । एवमपि वस्तु केवलमेकमेव ।
कुतः । सत्स्वभावतः सत्तारूपधर्मान्वयात् । अत्र कालत्रयेऽपि सदेव
सच्छब्देनोच्यते । अन्यथा दृश्यानां च विनश्वराणां भानकालिकसत्ताम्
आश्रित्य सत्स्वभावप्रसक्तिः स्यात् ।
वेषहानतः स्वात्मदर्शनम् ।
ईशदर्शनं स्वात्मरूपतः ॥ २५॥
वेषहानतः पिण्डोपाधिसम्बन्धभावनानाशनात् स्वात्मदर्शनं भवति ।
अपरोक्ष आत्मानुभवः स्यादित्यर्थः । अस्तु स्वात्मदर्शनं कथमीशदर्शनं
स्यादिति चेदत्राह । स्वात्मरूपतः ईश एव स्वात्मनो रूपमिति
हेतोस्तदेवेशदर्शनम् । शुद्धस्वात्मदर्शनादीशदर्शनं नापरमस्तीति
तात्पर्यम् । वेषहीनस्यात्मनोऽपरिच्छिन्नत्वान्न तदनुभवः परिच्छिन्नः,
अपि तु पूर्ण एवेति ।
आत्मसंस्थितिः स्वात्मदर्शनम् ।
आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥
दर्शनमिति पूर्वश्लोकोक्तपदेन भूयस्त्रिपुटीसम्भवमाशङ्क्य परिहरति ।
आत्मसंस्थितिरात्मनिष्ठैवात्मदर्शनम् । न तत्र त्रिपुट्या अवसरः । सा
चात्मनिष्ठता आत्मनिर्द्वयाद्भवति । आत्मनिङ्क्षष्ठतायां द्वैतसम्पर्को
लेशतोऽपि न वर्तितव्यः । यदि द्वैतं भासेत तत्र तन्मयनिष्ठा कथं
स्यादिति तात्पर्यम् ।
ज्ञानवर्जिताऽज्ञानहीनचित् ।
ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥
ज्ञानवर्जिता अज्ञानहीना च चित् ज्ञानं भवति । ननु ज्ञाने ज्ञानवर्जितत्वं
कथमिति चेत्कारणमाह । ज्ञातुं यत् किञ्चिदिन्यद्वेदितुं अन्तरं भेदः
अस्ति किम् । नास्तीति भावः । तत्र स्थितौ भेदाभावात्तदाश्रितलोक-
प्रसिद्धज्ञानाभावः । एवमपि सा स्थितिर्ज्ञानमय्येव पूर्णानुभूतिरूप-
त्वात् ।
किं स्वरूपमित्यात्मदर्शने ।
अव्ययाभवापूर्णचित्सुखम् ॥ २८॥
किं स्वरूपं किं मे रूपमिति विचारणविधया आत्मदर्शने सति,
आत्मनिष्ठायां सिद्धायां, अव्ययं नाशरहितं अभवमकृत्रिमं सहजमिति
यावत् । आपूर्णमासमन्तात्पूर्णं चित्सुखं सम्पद्यत इति शेषः ।
एतदनुभूतिवर्णनं भवति पुनर्मार्गप्रदर्शनपूर्वकम् ।
बन्धमुक्त्यतीतं परं सुखम् ।
विन्दतीह जीवस्तु दैविकः ॥ २९॥
दैविकः देहात्मभावरहित आत्मनिष्ठः तस्यामवस्थायामेव हि आत्मनो
दिव्यत्वं परिस्फुरेत् । जीवस्तु बन्धमुक्त्यतीतं बन्धमुक्तिभ्यामतीतं
परं सुखमानन्दं विन्दति प्राप्नोति । बन्धस्फूर्तिसापेक्षा मुक्तिस्फूर्तिः ।
तस्मादज्ञानिनां व्यवहार एव साऽवस्थ मुक्तिरित्यभिधीयते । अनुभविनो
बन्धस्फूर्तिरहितस्य मुक्तिस्फूर्तिरपि नास्तीति तस्य सावस्था बन्ध-
मुक्त्यतीतैव वक्तव्या ।
अहमपेतकं निजविभानकम् ।
महदिदं तपो रमणवागियम् ॥ ३०॥
अहमपेतकं अहमा मनोमूलाहङ्कारेण अनात्मगतयाऽहंवृत्येति यावत् ।
अपेतकं वियुतं निजविभानकं स्वरूपविभानं इदं महत्तपः । आत्मनो-
ऽप्यहमहंतया स्फुरणादहमपेतकमित्यत्र गौणस्याहंभावस्य निरासो
बोध्यः । सर्वेभ्यस्तपेभ्यो नित्यमात्मस्फुरणं महत्तप इति तात्पर्यम् ।
इयं रमणवाक् रमणस्य महर्षेर्वाक् इयमित्यनेन सर्वस्यापि ग्रन्थस्य
ग्रहणम् । नैतच्छ्लोकमात्रस्य । स एष उपदेशसारस्त्रिंशता श्लोकानां
निबद्धो भगवतो रमणस्य महर्षेर्विजयतेतरां विजयतेतराम् ।
इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिः उपदेशसारभाष्यं समाप्तम् ।
विभवाब्दे ज्येष्ठमासे पौर्णम्यां भानुवासरे ।
चन्द्रोपरागसमये भाष्यमेतदुदीरितम् ॥
From The Collected Works of Vasishtha Kavyakantha Ganapati Muni Vol 07-31
Proofread by Sunder Hattangadi