॥ उपदेशसारभाष्यम् ॥

॥ श्रीः ॥ अथ रमणस्य भगवतो महर्षेरुपदेशसारं व्याख्यास्यामः । तस्यायमादिमः श्लोको भवति ॥ कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ १॥ मीमांसकाभिमतं फलप्रदत्वे कर्मणः प्राधान्यं खण्डयितुमयमारम्भः । फलं कर्तुरीश्वरस्य आज्ञया प्राप्यते । कर्म परं किम् । नेत्यर्थः । तत्कर्म जडं भवति । कर्मणः परत्वाभावाय जडत्वमत्र हेतुत्वेनोपन्यस्तम् । कर्म यस्माज्जडं तस्मान्न परमिति यावत् । ननु, न वयं कर्मणः परत्वमुद्दिश्य विवदामः । फलप्रदत्वे कर्मणः प्राधान्यमित्येवास्माकं वादः । मास्तु परं कर्म । तथाऽपि स्वजन्यापूर्वद्वारा फलप्रदं भवेत् । एवं हि प्रमाणभूतानि वैदिकवाक्यानि सङ्गच्छेरन्निति चेत् । न । ज्योतिष्टोमादीनां स्वर्गसाधकत्वादिबोधयतां वाक्यानां परमेश्वरस्य शुभाशुभफलप्रदत्वे कर्मसापेक्षत्वोक्तेरपि समन्वेतुं शक्यत्वात् । अपि च शुभाशुभफलप्रदत्वं च सर्वेषां जगन्नियामकत्वान्नातिरिच्यते । तज्जगन्नियामकं तदेव परं स्यात् । अत एव कर्मवादिनो दैवशब्देन तज्जन्यापूर्वं वदन्ति । महर्षिश्च कर्म किं परमित्यत्र तदपूर्वमेवोद्दिशति, व्यवहारेषु कर्मापूर्वयोरविभक्त्त्वात् । तस्मान्न वयं कर्म परं वदाम इति पूर्वपक्षिणा वक्तुमशक्यम् । अयं भावः । मीमांसककल्पितमपूर्वं जडत्वान्न परम् । न च शुभाशुभानि फलानि स्वतन्त्रतया दातुमीष्टे । गौरवं च भवति तस्य कल्पन ईश्वरस्यैव सापेक्षस्य कर्मफलदातृत्वे प्रमाणवाक्यानामबाधात् । कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ २॥ फलं कर्मफलं अशाश्वतं सत्, भोगेनावक्षीणमनुशयमात्रशेषमिति यावत् । कृतिमहोदधौ कर्ममहासमुद्रे पतनकारणं भवतीति शेषः । यदि फलं शाश्वतं स्यात् तर्हि पुनरावृत्तिर्न स्यात् । फलस्याशाश्वतत्वादेव शेषानुशयवशात्पुनरावृत्तिसम्भव इति भावः । अत एव गतिनिरोधकम् । गतेः पुनरावृत्तिरहितायाः परधामगतेर्निरोधकं प्रतिबन्धकं भवतीति शेषः । अत्राशाश्वतं फलमेव पतनकारणमुक्तं भगवता, न कर्म, तस्मात्सकामकर्मैव दूषयति भगवानित्यवगन्तव्यम् । ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्तिसाधकम् ॥ ३॥ ईश्वरार्पितं ईश्वराय विश्वाध्यक्षाय अर्पितं त्वमेवास्य कर्मणः फलं यथेष्टं जगतः कार्ये विनिङ्क्ष्वेति समर्पितम् । नेच्छया अनिच्छया, नञो न लोपाभावो नैकादिवत् । कृतं कर्म चित्तशोधकं चित्तस्य मनसः शोधकं शुद्धिकारि । मुक्तिसाधकं मुक्तेः संसारबन्धाद्विमोक्षस्य साधकं च भवति । मनसि शुद्धे हि मोक्षः सुलभः । कायवाङ्मनः कार्यमुत्तमम् । पूजनं जपश्चिन्तनं क्रमात् ॥ ४॥ तदेव कर्म विभजते । कायवाङ्मनः कार्यं पूजनं जपश्चिन्तनं च, कायकार्यं पूजनं वाक्कार्यं जपः मनः कार्यं चिन्तनं चेति क्रमादन्वयो बोध्यः । तदिदं त्रयं क्रमादुत्तमम् । पूजनं प्रथमं कर्म । तत उत्तमं जपाख्यं कर्म । तत उत्तमं ध्यानमिति यावत् । अत्र स्तोत्रस्य जपे सङ्ग्रहो ज्ञेयः । जगत ईशधीयुक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ ५॥ पूर्वश्लोके पूजनशब्देन सामान्यतो विग्रहाराधनमभिहितम् । तस्यावरत्वेन कीर्तनादेतदवगम्यते । अधुना पूजाप्रसङ्गेन सर्वकर्मोत्कृष्टं विशिष्टं पूजनमेकमभिदधाति । जगतः प्रपञ्चस्य ईशधीयुक्तसेवनं ईश्वर एवेदं जगदिति धिया युक्तं सेवनम् । सर्वं खल्विदं ब्रह्न तज्जलानिति शान्त उपासीते । शाण्डिल्यविद्योक्तमुपासनमिति यावत् । अष्टमूर्तिभृद्देवपूजनं भवति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ जीवश्चेश्वरस्याष्टौ मूर्तिविशेषा उच्यन्ते । ताभिश्च मूर्तिभिः सर्वं जगदाक्रान्तमिति हेतोर्विश्वस्येश्वर- धियोपासनमष्टमूर्त्युपासनं भवतीति भावः । इदं तु पूर्णं पूजनम् । नास्य पूर्वश्लोकोक्तपूजने सङ्ग्रहः । तस्य सर्वावरत्वादस्य सर्वोत्तमत्वात् । ध्यान एवास्य सङ्ग्रहो भवति । धिय एवैकरूपाया अत्र प्राधान्यात् । सामान्यतः पूजनं तु शिवमूर्तिष्वन्यतमस्याः पृथिव्याः स्वल्पैकदेशस्य भवति । कायनिष्पाद्यं च भवति । इदं तु सर्वासां मूर्तिनां साकल्येन बुद्धिनिष्पाद्यमित्यनयोरस्ति भूयान्विशेषः । उत्तमस्तवादुच्चमन्दतः । चित्तजं जपध्यानमुत्तमम् ॥ ६॥ उत्तमस्तवात्सत्याद्वैदिकात्तृशादार्षाद्वाऽन्यस्मात् । उच्चमन्दतः उच्चान्मन्दादुपांशोश्च प्रकरणाज्जपादिति शेषः । चित्तजं मानसिकं जप- ध्यानं जप एव ध्यानमित्यत्र समासः । न जपो ध्यानं च तयोः समाहार इति । ध्यानस्य मानसिकजपादव्यतिरेकात् । उत्तमं भवति । स्तोत्रवाचकोपांशुजपेभ्यो ध्यानं श्रेष्ठमिति भावः । आद्येष्वपि त्रिषु यथोत्तरं श्रैष्ठ्यमूह्यम् । आज्यधारया स्रोतसा समम् । सरलचिन्तनं विरलतः परम् ॥ ७॥ आज्यधारया घृतधारया स्रोतसा नदीप्रवाहेन च समम्, सरलचिन्तनं सरलं नित्यं सहजं निर्यच्चिन्तनं ध्यानं विरलतः मध्ये मध्ये विच्छिन्नात् परं श्रेष्ठम् । उत्तमे ध्यानेऽपि सच्छेदादविच्छेदं शस्यत इति यावत् । ध्याने भक्तिरूपस्नेहसम्बन्धं सूचयितुमाज्यधारौपम्यम् । नैर्मल्यं सूचयितुं प्रवाहौपम्यम् । भेदभावनात्सोऽहमित्यसौ । भावनाऽभिदा पावनी मता ॥ ८॥ भूयो ध्याने विशेषान्तरमाह भेदभावनात् ध्याने ध्यातुः स्वस्मादीश्वरं भिन्नं कल्पयित्वा यद्भावनं क्रियते तस्मात् सोऽहमित्यसौ ईश्वर एवाहमित्याकारका अभिदा भेदरहिता भावना पावनी पवित्र मता । भेदेन ध्यानादभेदेन ध्यानमुत्तममिति भावः । भावशून्यसद्भावसुस्थितिः । भावनाबलाद्भक्तिरुत्तमा ॥ ९॥ भावनाबलात् अभेदभावनाबलादित्येव सामर्थ्यात् । भावशून्यसद्भाव- सुस्थितिः भावशून्या सङ्कल्पशून्या सद्भावेन सत्तया सुस्थितिर्निष्ठा उत्तमा भक्तिर्भवति । भिन्नभावनायां या भक्तिः सा त्ववरेति परिशेषन्यायात् सिध्यति ॥ हृत्स्थले मनः स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ १०॥ हृत्स्थले आत्मनः स्थाने मनःस्वस्थता मनसः स्वस्थानस्थितता । क्रिया कर्म भवति । भक्तियोगबोधाश्च भक्तिर्योगो बोधश्च भवति । निश्चितम्, न कश्चित्संशय इत्यर्थः । मनसः स्वजनिस्थाने हृदयेऽवतीर्य निष्ठैव कर्म पर्यवसन्नं सर्वकर्ममौलिभूतम् । सैव भक्तिः पर्यवसन्ना सर्वभक्तिमौलिभूता । सैव योगः पर्यवसन्नः सर्वयोगमौलिभूतः । सैव ज्ञानं पर्यवसन्नमिति यावत् । वायुरोधनाल्लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ ११॥ वायुरोधनात् वायोः प्राणस्य रोधनात् प्रतिष्टम्भनान्नियमनाद्वा मनः जालपक्षिवत् लीयते आत्मनि निश्चलं रुद्धं भवति । इदं रोधसाधनम् । पूर्ववाक्यार्थस्य कर्तृत्वादिदमिति तस्याक्षेपः । हठेन कुम्भकस्य साधनं प्रतिष्टम्भनं प्राणस्य भवति । सततं यातायातप्रत्यवेक्षणान्नियमनं भवति । तस्यापि कुम्भकसंज्ञा राजयोगिनां मतेनाविरुद्धा । उत्तरैव महर्षेरिष्टा प्रक्रिया यदयमाह गीतासु (रमणगीतासु) ॑ प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम् । कुम्भकं सिध्यति ह्येवं सततप्रत्यवेक्षणात् ॑ इति । चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ १२॥ चित्क्रियायुताः क्रमेण चिता क्रियया च युताः चित्तवायवः चित्तानि मनांसि वायवः प्राणश्च चिद्युतानि चित्तानि क्रियायुताः प्राणाश्चेति यावत् । शक्तिमूलका शक्तिरीश्वरशक्तिर्मूलं यस्यास्तादृशी शाखयोर्द्वयी भवति । आदिशक्तेर्ज्ञानशक्तिशाखा चित्तानि । क्रियाशक्तिशाखा प्राणा इति तात्पर्यम् । जनबहुत्वापेक्षया चित्तप्राणयोर्बहुवचनेन निर्देशः । अयं भावः । यतो मनो वायुश्च शाखाद्वयमीश्वरशक्तेः, तस्मात्तदुभयं च तदधिगमाय मार्गीभवितुमर्हति । लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ १३॥ लयो विनाशनं च लयविनाशने, उभयरोधने उभयविधरोधने भवतः । मध्यमपदलोपसमासः । लयगतं मन इत्यध्याहारः । पुनर्भवति जायते । मृतं विनष्टं नो न जायते । वृत्तिमात्रोपसंहारो लयः । तद्वतो योगिन उत्थानं समाधिश्च पर्यायेण भवतः । वृत्तिमूलाहङ्कारोपसंहारो विनाशनम् । तद्वतो ज्ञानिनो नित्यः समाधिर्भवति । प्राणबन्धनाल्लीनमानसम् । एकचिन्तनान्नाशमेत्यदः ॥ १४॥ वायुरोधनादिति श्लोकोक्तात्प्राणबन्धनात् प्राणप्रतिष्टम्भनात् प्राण- नियमनाद्वा लीनमानसं लीनं मनः अदः एकचिन्तनादात्मैक्यानु- सन्धानान्नाशमेति । प्राणरोधो मनसो लयहेतुरेव भवति न विनाशन- हेतुः । लीने मनस्यैक्यानुसन्धानं मनोनाशनायेत्यर्थः । नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ १५॥ स्वस्थितिमात्मनिष्ठाम्, यतः प्राप्तस्य नष्टमानसोत्कृष्टयोगिनः कृत्यं किमस्ति । नष्टे मनसि न किञ्चित्कर्तव्यं शिष्यत इति भावः । दृश्यवारितं चित्तमात्मनः । चित्त्वदर्शनं तत्त्वदर्शनम् ॥ १६॥ दृश्यवारितं दृश्येभ्यो वारितं परावृत्तमन्तर्मुखमिति यावत् । चित्तं आत्मनश्चित्त्वदर्शनं भवति । व्यतिरेकतो विषयेभ्यः परावृत्तमेव चित्तमन्वयत आत्मचित्त्वदर्शनं भवतीत्यक्षरार्थः । चित्तस्य बहिर्मुखत्वाभावे निद्राऽभावे चान्तर्मुखं तदात्मचित्त्वदर्शनरूपमेव पर्यवस्येत् । अथाऽऽह यदात्मनश्चित्त्वदर्शनं तदेव तत्त्वदर्शनम् । मानसं तु किं मार्गणे कृते । नैव मानसं मार्ग आर्जवात् ॥ १७॥ मानसं तु किं किं स्वरूप इति मार्गणे विचारणे कृते मानसं नैव न परिशिष्यत इति भावः । विचारयिता स्वयमेव हि मानसस्य स्वरूपम् । स्वरश्मिविशेषत्वान्मानसस्य । विचारणसमये स च रश्मिरात्मन्युपसंहृतो भवतीति तदा नैव मानसमित्युपदिशति भगवान् । अयमेवार्जवान्मार्गः । वृत्तयस्त्वहं वृत्तिमाश्रिताः । वृत्तयो मनो विद्ध्यहं मनः ॥ १८॥ वृत्तयस्तु अहं वृत्तिं अहमित्याकारकं सङ्क्ल्पं आश्रिता तन्मूलकाः तत्प्रकृतिका इत्यर्थः । वृत्तय एव मनः संसृतौ विजृम्भणकाले । तस्मान्मनोऽहं विद्धि । यस्मादहंवृत्तिमाश्रिताः सर्वा वृत्तयस्तस्मात्तद्रूपं मनस्तत्प्रकृतिभूताऽहंवृत्तिरूपं पर्यवस्यतीति तात्पर्यम् । अहमयं कुतो भवति चिन्वतः । अयि पतत्यहं निजविचारणम् ॥ १९॥ अयमहं अहङ्कारः अहंवृत्तिरूपः कुतो भवति इति चिन्वतः मार्गयतः विचारयतः, अहं सोऽहङ्कारः, पतति नाशमेति । इदमेव निजविचारणमात्मविचारणम् । अयीति शिष्यसम्बोधनम् । अत्रापि वाक्यार्थस्य कर्तृत्वादिदमित्याक्षिप्यते । अहमि नाशभाज्यहमहंतया । स्फुरति हृत्स्वयं परमपूर्णसत् ॥ २०॥ अहमि मनोमूलवृत्तिरूपे नाशभाजि सति परमपूर्णसत् परममखण्डं सच्च हृत् स्वरूपं स्वयं अहमहंतया अहमहमिति धिया स्फुरति भासते । नन्वहमि नाशं प्राप्ते कुतः पुनरन्यस्याहमः सम्भव । उच्यते । अहन्ता व्यक्तित्वान्नातिरिच्यते । तन्मनोगतमात्मगतं च द्विविधं भवति । मनोगतेऽहंभावे नात्मन्यहंभावः । तदुपरम आत्मनो व्यक्तित्वं भासेत । तस्मादुक्तमेकस्मिन्नहमि नाशं गतेऽन्यदहंतया स्फुरतीति । इदमहंपदाभिख्यमन्वहम् । अहमि लीनकेऽप्यलयसत्तया ॥ २१॥ इदं हृत् अहंपदाभिख्यं अहं पदमभिख्या यस्येति । अहमिति पदं मनसि गौणमात्मनि मुख्यमिति भावः । हेतुमाह । अन्वहं अहमि लीनकेऽपि मनोमयाहङ्कारे नष्टेऽपि अलयसत्तया अनष्टसद्भावेन । अयं भावः । योऽहंपदार्थः स आत्मेति पामरोऽप्यङ्गीकुर्यात् । अहङ्कारे शान्ते नात्मा शान्तो दृश्यते । स्फुरत्येवाहमिति । मनस्तु शान्तं भवति । एवमन्वयव्यतिरेकाभ्यामहंपदं मनसि गौणमात्मनि मुख्यमिति सिद्धम् । कथं गौणं कथं मुख्यम् । मनसोऽहङ्कारसम्बन्धात्तत्र गौणम् । आत्मन्यहन्तायाः सत्तारूपेण नित्यं भानात्तत्र मुख्यम् । विग्रहेन्द्रियप्राणधीतमः । नाहमेकसत्तज्जडं ह्यसत् ॥ २२॥ एकसत् एकसद्रूपः अहं विग्रहेन्द्रियप्राणधीतमो न, देहेन्द्रियप्राणबुद्धि- रूपं तिमिरं न । कारणमाह । हि यस्मात्कारणात् तद्विग्रहादि जडं असच्च । यज्जडं तत्कथमात्मा । यन्नास्ति तत्कथमात्मा । सत्त्वभासिका चित्क्व वेतरा । सत्तया हि चिच्चित्तया ह्यहम् ॥ २३॥ सद्वस्तु केन भासत इत्याशङ्क्य परिहरति । सत्त्वभासिका इतरा चित् क्व वा । नेत्यर्थः । सत्तां भासयितुमन्यस्याश्चितो नावसर इति यावत् । कारणमाह । हि यस्मात् सत्तया चिद्भवति यत्सत्तदेव स्वभावतश्चिन्मयम् इत्यर्थः । हि यस्माच्च कारणात् अहं चित्तया भवामि । या चित्सैव स्वभावतोऽहंपदार्थ इत्यर्थः । सत्ताचित्ताहन्तानां त्रिकं स्वभावतः समानाधिकरणमिति यावत् । चिद्रश्मिसन्बन्धान्मनस्यहन्ता गौणीति प्रागेवावेदितम् । ईशजीवयोर्वेषधीभिदा । सत्स्वभावतो वस्तु केवलम् ॥ २४॥ ईशजीवयोः वेषधीभिदा भवति । वेषतो भेदश्चाण्डपिण्डोपाधिकृतः । धीतो भेदः सर्वज्ञत्वाल्पज्ञत्वाभ्याम् । एवमपि वस्तु केवलमेकमेव । कुतः । सत्स्वभावतः सत्तारूपधर्मान्वयात् । अत्र कालत्रयेऽपि सदेव सच्छब्देनोच्यते । अन्यथा दृश्यानां च विनश्वराणां भानकालिकसत्ताम् आश्रित्य सत्स्वभावप्रसक्तिः स्यात् । वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः ॥ २५॥ वेषहानतः पिण्डोपाधिसम्बन्धभावनानाशनात् स्वात्मदर्शनं भवति । अपरोक्ष आत्मानुभवः स्यादित्यर्थः । अस्तु स्वात्मदर्शनं कथमीशदर्शनं स्यादिति चेदत्राह । स्वात्मरूपतः ईश एव स्वात्मनो रूपमिति हेतोस्तदेवेशदर्शनम् । शुद्धस्वात्मदर्शनादीशदर्शनं नापरमस्तीति तात्पर्यम् । वेषहीनस्यात्मनोऽपरिच्छिन्नत्वान्न तदनुभवः परिच्छिन्नः, अपि तु पूर्ण एवेति । आत्मसंस्थितिः स्वात्मदर्शनम् । आत्मनिर्द्वयादात्मनिष्ठता ॥ २६॥ दर्शनमिति पूर्वश्लोकोक्तपदेन भूयस्त्रिपुटीसम्भवमाशङ्क्य परिहरति । आत्मसंस्थितिरात्मनिष्ठैवात्मदर्शनम् । न तत्र त्रिपुट्या अवसरः । सा चात्मनिष्ठता आत्मनिर्द्वयाद्भवति । आत्मनिङ्क्षष्ठतायां द्वैतसम्पर्को लेशतोऽपि न वर्तितव्यः । यदि द्वैतं भासेत तत्र तन्मयनिष्ठा कथं स्यादिति तात्पर्यम् । ज्ञानवर्जिताऽज्ञानहीनचित् । ज्ञानमस्ति किं ज्ञातुमन्तरम् ॥ २७॥ ज्ञानवर्जिता अज्ञानहीना च चित् ज्ञानं भवति । ननु ज्ञाने ज्ञानवर्जितत्वं कथमिति चेत्कारणमाह । ज्ञातुं यत् किञ्चिदिन्यद्वेदितुं अन्तरं भेदः अस्ति किम् । नास्तीति भावः । तत्र स्थितौ भेदाभावात्तदाश्रितलोक- प्रसिद्धज्ञानाभावः । एवमपि सा स्थितिर्ज्ञानमय्येव पूर्णानुभूतिरूप- त्वात् । किं स्वरूपमित्यात्मदर्शने । अव्ययाभवापूर्णचित्सुखम् ॥ २८॥ किं स्वरूपं किं मे रूपमिति विचारणविधया आत्मदर्शने सति, आत्मनिष्ठायां सिद्धायां, अव्ययं नाशरहितं अभवमकृत्रिमं सहजमिति यावत् । आपूर्णमासमन्तात्पूर्णं चित्सुखं सम्पद्यत इति शेषः । एतदनुभूतिवर्णनं भवति पुनर्मार्गप्रदर्शनपूर्वकम् । बन्धमुक्त्यतीतं परं सुखम् । विन्दतीह जीवस्तु दैविकः ॥ २९॥ दैविकः देहात्मभावरहित आत्मनिष्ठः तस्यामवस्थायामेव हि आत्मनो दिव्यत्वं परिस्फुरेत् । जीवस्तु बन्धमुक्त्यतीतं बन्धमुक्तिभ्यामतीतं परं सुखमानन्दं विन्दति प्राप्नोति । बन्धस्फूर्तिसापेक्षा मुक्तिस्फूर्तिः । तस्मादज्ञानिनां व्यवहार एव साऽवस्थ मुक्तिरित्यभिधीयते । अनुभविनो बन्धस्फूर्तिरहितस्य मुक्तिस्फूर्तिरपि नास्तीति तस्य सावस्था बन्ध- मुक्त्यतीतैव वक्तव्या । अहमपेतकं निजविभानकम् । महदिदं तपो रमणवागियम् ॥ ३०॥ अहमपेतकं अहमा मनोमूलाहङ्कारेण अनात्मगतयाऽहंवृत्येति यावत् । अपेतकं वियुतं निजविभानकं स्वरूपविभानं इदं महत्तपः । आत्मनो- ऽप्यहमहंतया स्फुरणादहमपेतकमित्यत्र गौणस्याहंभावस्य निरासो बोध्यः । सर्वेभ्यस्तपेभ्यो नित्यमात्मस्फुरणं महत्तप इति तात्पर्यम् । इयं रमणवाक् रमणस्य महर्षेर्वाक् इयमित्यनेन सर्वस्यापि ग्रन्थस्य ग्रहणम् । नैतच्छ्लोकमात्रस्य । स एष उपदेशसारस्त्रिंशता श्लोकानां निबद्धो भगवतो रमणस्य महर्षेर्विजयतेतरां विजयतेतराम् । इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः उपदेशसारभाष्यं समाप्तम् । विभवाब्दे ज्येष्ठमासे पौर्णम्यां भानुवासरे । चन्द्रोपरागसमये भाष्यमेतदुदीरितम् ॥ From Complete Works of Ganapati Muni Vol 07-31 Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Upadeshasarabhashyam
% File name             : upadeshasArabhAShyam.itx
% itxtitle              : upadeshasArabhAShyam
% engtitle              : UpadeshasaraBhashyam
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Vasishtha Ganapati Muni's Sanskrit Commentary on Ramana Maharshi's Upadeshasaram
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : Complete Works of Ganapati Muni Vol 07-31
% Indexextra            : Commentary by Vasishtha Ganapati Muni on upadeshasAram by Ramana maharshi
% Latest update         : July 24, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP