पूर्वम्: १।१।२०
अनन्तरम्: १।१।२२
 
प्रथमावृत्तिः

सूत्रम्॥ तरप्तमपौ घः॥ १।१।२१

पदच्छेदः॥ तरप्तमपौ १।२ घः १।१

समासः॥

तरप् च तमप् च तरप्तमपौ, इतरेतरद्वन्द्वः

अर्थः॥

तरप्तमपौ प्रत्ययौ घसंज्ञकौ भवतः।

उदाहरणम्॥

कुमारितरा, कुमारितमा। ब्राह्मणितरा, ब्राह्मणितमा॥
काशिका-वृत्तिः
तरप्तमपौ घः १।१।२२

तरप् तमपित्येतौ प्रत्ययौ घसंज्ञौ भवतः। कुमारितरा। कुमरितमा। ब्राह्मणितरा। ब्राह्मणितमा। घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः ६।३।४२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तरप्तमपौ घः १२२३, १।१।२१

एतौ घसंज्ञौ स्तः॥
न्यासः
तरप्तमपौ घः। , १।१।२१

"कुमारितरा" इति। "द्विवचविभज्योपपदे" ५।३।५७ इत्यादिना तरप्। "कुमारितमा" इति। "अतिशायने" इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां "घरूपकल्प" ६।३।४२ इत्यादिना ह्यस्वत्वं भवति।
बाल-मनोरमा
तरप्तमपौ घः , १।१।२१

तरप्तमपौ घः। प्रथमस्य प्रथमपादे सूत्रमिदम्। आतिशायनिकप्रत्ययप्रकरणान्ते, "पितौ घः" तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति। तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः। तेन "अल्पाच्तरं" "लोपस्च बलवत्तरः" इत्यादि सिद्धम्।

किमेत्तिङव्यय। "आमु" इति छेदः। उकार उच्चारणार्थः। किम्, एते, तिङ्, अव्यय--एषां चतुर्णां द्वन्द्वः। "किमेत्तिङव्ययप्रकृतिको घः" इति मध्यमपदलोपी समासः। फलितमाह--किम एदन्तादित्यादिना। एभ्य इत्यर्थः। किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने। एषामतिशयेनाढ() इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात्। जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम्। प्राह्णे तमामिति। प्राह्ण=पूर्वाह्णः। "प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य"मित्यमरः। अतिशयिते पूर्वाह्णे इत्यर्थः। पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः। अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात्। तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः। पचतितमामिति। अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैव "प्रशंसायां रूप"विति सूत्रभाष्ये प्रपञ्चितत्वात्। अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः। उच्चैस्तमामिति। "आशंसती"त्यध्याहार्यम्। अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः। अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य। उच्चैस्तमस्तरुरिति। अतिशेन उच्चैस्तरुरित्यर्थः। अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः। "किंतमा"मित्यादौ "यस्येति चे"ति लोपं परत्वाद्बाधित्वा ह्यस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम्। सति तु तस्मिन् "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि "आमि सर्वनाम्नः" इति सूत्रभाष्ये प्रपञ्चितम्।

तत्त्व-बोधिनी
तरप्तमपौ घः १४९९, १।१।२१

तरप्तमपौ घः। अस्मिन्नेवाऽ‌ऽतिशायनिकप्रकरणे "तादौ घः" "पितौ घः"इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति। तेन "अल्पाच्तरं", लोपश्च बलवत्तरः" इत्यादि सिद्धम्। अल्पाजेव ह्रल्पाचतरम्। न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप्। अन्यथा "शिवकेशवौ"इथ्यादिसिद्धावपि "शङ्खदुन्दुभिवीणाः"इत्यादि न सिध्येदित्याहुः।