पूर्वम्: १।२।१२
अनन्तरम्: १।२।१४
 
प्रथमावृत्तिः

सूत्रम्॥ वा गमः॥ १।२।१३

पदच्छेदः॥ वा गमः ५।१ लिङ्सिचौ १।२ ११ आत्मनेपदेषु ७।३ ११ झल् १।१ कित् १।१

अर्थः॥

गम्-धातोः परौ झलादी लिङ्सिचौ, आत्मनेपदवीषये विकल्पेन किद्वत् भवतः।

उदाहरणम्॥

संगसीष्ट, संगंसीष्ट। सिच् - समगत, समगंस्त।
काशिका-वृत्तिः
वा गमः १।२।१३

लिङ्सिचावात्मनेपदेषु इति वर्तते। गमेर्धातोः परु लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः। संगंसीष्ट, संगसीष्ट। सिचः खल्वपि समगंस्त्, समगत। कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तौपदेशवनतितनोत्यादीनाम्६।४।३७ इति।
न्यासः
वा गमः। , १।२।१३

"संगसीष्ट" इति। "समो गमृच्छि" १।३।२९ इत्यादिनात्मनेपदम्। "समगत" इति। ह्यस्वाङ्गात्" ८।२।२७ इति सिचो लोपः।
बाल-मनोरमा
वा गमः ५२४, १।२।१३

वा गमः। "इको झल्" इत्यतो झलिति, "लिङ्सिचावात्मनेपदेषु" इत्यतो लिङ्()सिचाविति, "असंयोगाल्लिट्" इत्यतः किदिति चानुवर्तते। तदाह-- गमः परावित्यादि। समगतेति। लुङि रूपम्। सिचः कित्तवपक्षे "अनुदात्तोपदेशे" ति मकारलोपे "ह्यस्वादङ्गादि"ति सिचो लुक्। समृच्छते इति। "ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु" इति तौदादिकस्य रूपम्। अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति-- समृच्छिष्यते इति। विदिप्रच्छिस्वरतीनामिति। सम इत्यनुवर्तते। संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः। वेत्तेरिति। लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः। व्याख्यानादिति भावः।

तत्त्व-बोधिनी
वा गमः ४४७, १।२।१३

"असंयोगाल्लिट्कि"त्यतः किदनुवर्तते , "इको झ"लित्यतो झल्ग्रहणं, "लिङ्सिचौ" इत्यतो लिङ्सिचाविति चानुवर्तते। कित्त्वपक्षे "अनुदात्तोपदेशे" ति मलोपः। "समृच्छिष्यते" इति लृटः प्रयोगस्तु तौदादिकऋच्छेरत्र ग्रहणं न तु ऋच्छादेशस्येति ध्वननार्थम्। ग्रामं सङ्गच्छतीति। "तच्चैक्यं समगच्छते"त्यत्र तु एकं जातमित्यर्थाद्गमेरकर्मकत्वमेवेति तङ्। एकमेवेक्यम्। स्वार्थे ष्यञ्।

* विदिप्रच्छि। परस्मैपदसाहचर्यादाह--- वेत्तेरेवेति।