पूर्वम्: २।१।२०
अनन्तरम्: २।१।२२
 
प्रथमावृत्तिः

सूत्रम्॥ तत्पुरुषः॥ २।१।२१

पदच्छेदः॥ तत्पुरुषः १।१ २।२।२३ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
तत्पुरुषः २।१।२२

तत्पुरुषः इति संज्ञा ऽधिक्रियते प्राग् बहुव्रीहेः। यानित ऊर्ध्वम् अनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति, द्वितीय श्रितातीतपतित २।१।२३। इति। कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रहार्थम्, उत्तरपदार्थप्रधानस् तत्पुरुषः इति। तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलम् ३।३।१४। इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तत्पुरुषः ९२५, २।१।२१

अधिकारोऽयं प्राग्बहुव्रीहेः॥
न्यासः
तत्पुरुषः। , २।१।२१

"कष्टश्रितः" इति। तत्पुरुषसंज्ञायां सत्यां "तत्पुरुषे तुल्यार्थ"६।२।२ इत्यादिना पूर्वपदप्रकृतिस्वरत्वम्। अथ किमर्थमियं महती संज्ञा विधीयत इत्याह-- "पूर्वाचार्यसंज्ञा चेयम्" इति। तदङ्गीकरणं किमर्थमित्याह-- "तदङ्गीकरणम्" इत्यादि। उपाधिः = विशेषणम्। कः पुनरसौ तदीय उपाधिरित्याह-- उत्तरपदार्थप्रधानस्तत्पुरुषः" इति॥
बाल-मनोरमा
तत्पुरुषः ६७६, २।१।२१

तत्पुरुषः। प्रागिति। "शेषो बहुव्रीहि"रित्यनः प्रागित्यर्थः।