पूर्वम्: ३।४।८८
अनन्तरम्: ३।४।९०
 
सूत्रम्
मेर्निः॥ ३।४।८९
काशिका-वृत्तिः
मेर् निः ३।४।८९

लोटः इत्येव। लोडादेशस्य मेः निः आदेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि।
लघु-सिद्धान्त-कौमुदी
मेर्निः ४१९, ३।४।८९

लोटो मेर्निः स्यात्॥
न्यासः
मेर्निः। , ३।४।८९

"उत्थलोपयोरपवादः" इति। यथाक्रमं "एरुः" ३।४।८६, "लोटो लङवत्" ३।४।८५ इत्यतिदेशेन प्राप्तयोः। इकारलोपस्य च लङि "इतश्च" ३।४।१०० इति विधानादतिदेशेन तस्य प्राप्तिः। "पचानि" इत्यत्र "आडुत्तमस्य पिच्च" ३।४।९२ इत्याट्॥
बाल-मनोरमा
मेर्निः ५२, ३।४।८९

लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते-- मेर्निः। "लोटो लङ्व"दित्यतो इत्यनुवर्तते। तदाह--लोटो मेरिति।