पूर्वम्: ४।१।४४
अनन्तरम्: ४।१।४६
 
सूत्रम्
बह्वादिभ्यश्च॥ ४।१।४५
काशिका-वृत्तिः
बह्वाऽदिभ्यश् च ४।१।४५

बहु इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष् प्रत्ययो भवति। बह्वी, बहुः। बहु। पद्धति। अङ्कति। अञ्चति। अंहति। वंहति। शकटि। शक्तिः शस्त्रे। शारि। वारि। गति। अहि। कपि। मुनि। यष्टि। इतः प्राण्यङ्गात्। कृदिकारादक्तिनः। सर्वतो ऽक्तिन्नर्थादित्येके। चण्ड। अराल। कमल। कृपाण। विकट। विशाल। विशङ्कट। भरुज। ध्वज। चन्द्रभागान्नद्याम्। कल्याण। उदार। पुराण। अहन्। बहुशब्दो गुणवचन एव। तस्य इह पाठ उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
बह्वादिभ्यश्च १२६३, ४।१।४५

एभ्यो वा ङीष् स्यात्। बह्वी, बहुः। (कृदिकारादक्तिनः)। रात्री, रात्रिः। (सर्वतोऽक्तिन्नर्थादित्येके)। शकटी। शकटिः॥
न्यासः
बह्वादिभ्यश्च। , ४।१।४५

बह्वादिषु "शक्तिः शस्त्रे" इति पठ()ते, तस्यायमर्थः-- शस्त्रेऽभिधेये शक्तिशब्दाद्वा ङीष् भवति-- शक्तिः, शक्ती। शस्त्र इति किम्? शक्तिः,सामथ्र्यम्। अन्ये तु शक्तिशस्त्री इति शब्दद्वयं पठन्ति-- शक्तिः,शक्ती, शस्त्रिः, शस्त्री। "इतः प्राण्यङ्गात्" इति। इकारान्तात् प्राण्यङ्गवाचिनो वा ङीष् भवति-- धमनिः, धमनी। इत इति किम्? समर्था ग्रीवा। प्राण्यह्गादिति किम्? श्रेणिः। "कृदिकारादक्तिनः" (इति)। "सर्वतोऽक्तिन्नर्थादित्येके" (इति)। अस्यार्थः "रात्रेश्चाजसौ" ४।१।३१ इत्यत्रैव व्याख्यातः। यदि सर्वतोऽक्तिन्नर्थात् ङीष् भवति, शकट()आदीनां गणेकिमर्थं इकारान्तानां पाठः? तस्यैव प्रपञ्चार्थः। पद्धतिश्बद्सयाक्तिन्नर्थादिति प्रतिषेधे प्राप्ते पाठः। पादस्य हतिः पद्धतिः, "हिमकाषिहतिषु च" ६।३।५३ इति पद्भावः। "चन्द्रभागान्नद्याम्" इति। चन्द्रभागशब्दान्नद्यामभिधेयायां वा ङीष् भवति-- चन्द्रभागी नदी। नद्यामिति किम्? चन्द्रभागा नाम देवता। "अहन्" इति। अयं शब्दः केवलः स्त्रियां न वत्र्तते। तस्मात् समासे तदन्त उदाहार्यः। दीर्घाण्यहानि यस्यां शरदि सा दीर्घाह्नो। ङीप्प्रतिषेधावप्यस्माद्भवतः। "अनोः बहुव्रीह#ए#ः" ४।१।१२ "डाबुभाभ्यामन्यतरस्याम्" ४।१।१३ इत्यपि डाब्भवति; "अन उपधालोपिनोऽन्यतरस्याम्" ४।१।२८ इति वा ङीप् च। तेन धातुरूप्यं भवति। यदि बहुशब्दो गुणवचनः,तत्किमर्थमस्येह ग्रहणम्,यावता पुर्वेणैव सिद्धो ङीष्? इत्यत आह-- "तस्य" इत्यादि॥
बाल-मनोरमा
बह्वादिभ्यश्च ४९६, ४।१।४५

बह्वादिभ्यश्च। गुणवचनत्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः। वस्तुतस्तु अनुपदोदाह्मताकडारसूत्रभाष्यरीत्या सङ्ख्याशब्दानां गुणवचनत्वाऽभावादप्राप्तस्य ङीषो विधानार्तं बहुग्रहणमित्याहुः। बह्वी बहुरिति। वैपुल्यवाची बहुशब्दोऽयम्। त्रित्वादिशमनियतसङ्ख्याविशेषवाचित्वे तु एकवचनानुपपत्तेः। वैपुल्यवाचित्वेऽपि "बहुगणवतुडति सङ्ख्या" इति सङ्ख्याशब्दत्वान्न गुणवचनत्वमिति न वैयथ्र्यमिति भावः। "कृदिकारादक्तिनः" इति बह्वाद्यन्तर्गणसूत्रम्। कृतो यैकारस्तदन्तात्प्रातिपदिकात् ङीष् वा स्यात्, न तु क्तिन्नान्तादित्यर्थः। रात्रिः रात्रीति। "राशदिभ्यां त्रिप्" इति राधातोरौणादि कस्त्रिप्। गुणवचनत्वाऽभावात्, उदन्तत्वाऽभावाच्चाऽप्राप्ते वचनम्। "सर्वतोऽन्नर्थादित्येके" इत्यपि बह्वाद्यन्तर्गणसूत्रमेव। कृदिकारान्तादृकृदिकारान्तादपि ङीष् वा स्यात्, नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः। शकटिः शकटीति। शकटिशब्दस्य अव्युत्पन्नप्रातिपदिकत्वात् कृदन्तत्वाऽभावात् "सर्वत" इति वचनम्। अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्यम्। अजननिरिति। "स्त्रियां क्तिन्नि"त्यधिकारे "आक्रोशे नञ्यनिः" इति नञि उपपदे जनेरनिप्रत्ययः। "अक्तिन" इत्यक्तौ अत्र निषेधो न स्यादतोऽक्तिन्नर्थादित्युक्तिरिति भावः। ननु हनधातोः स्त्रियां कर्मणि क्तिनि "अनुदात्तोपदेशे"त्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात्कथं पद्धतिशब्दान्ङीषित्यत आह--क्तिन्नन्तत्वादिति। गणे इति। बह्वादिगण इत्यर्थः। ननु पादाभ्यां हतिरिति विग्रहे "कर्तृकरणे कृता बहुल" शब्दस्य ग्रहणात्, भत्वाऽभावाच्च। "पादस्य पदाज्यातिगोपहतेषु" इत्यपि न संभवति, तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह--हिमकाषीति। हिमादिषु परेषु पादशब्दस्य पदादेशः स्यादिति तदर्थः।

तत्त्व-बोधिनी
बह्वादिभ्यश्च ४४७, ४।१।४५

बह्वादिभ्यश्च। बहुशब्दस्य गुणवाचित्वात् पूर्वेण सिद्धेऽप्युत्तरार्थं ग्रहणम्,--"नित्यं छन्दसी"त्युत्तरसूत्रेण बहुशब्दादपि छन्दसि नित्यं यथा स्यादिति। वस्तुतस्तु बहुशब्दो, "नित्यं छन्दसी"ति सूत्रं च व्यर्थमेव, सर्वविकल्पानां छन्दसि व्यवस्थितत्वात्। गुणसूत्रामाह--कृदिकारादिति। "सर्वतोऽक्तिन्नार्था" दित्यपि गुणसूत्रमेव। व्यवस्थितविभाषात्वादिह न,--सुगन्धिः। प्रियकतिर्वेश्या। अजननिरिति। "आक्रोशे नञ्यनिः"इति जनेरनिप्रत्ययः। इहाऽन्यान्यपि गणसूत्राणि सन्ति---शक्तिः शस्त्रे। शक्तिः शक्ती। शस्त्रे किम्()। शक्तिः सामथ्र्यम्। शक्तिः शस्त्रीति पाठे तु शब्दद्वयम्। शस्त्रीः शस्त्री। इतः प्राण्यङ्गात्। धमनिः। धमनी। चन्द्रभागान्नद्याम्। चन्द्रभागी। चन्द्रभागा। अहन्शब्दोऽत्र पठ()ते, तत्सामथ्र्यात्तदन्तो बहुव्रीहिरुदाहार्यः, अनुपसर्जनाधिकारबाधश्च। दीर्घाह्यी प्रावृट्। पक्षे ङीम्ङीन्बिषेधाः। बहु पद्धति यष्टि विकट विशाल कल्याण पुराण चण्ड कृपाण अहन्। इत्यादि।