पूर्वम्: ४।१।८६
अनन्तरम्: ४।१।८८
 
सूत्रम्
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्॥ ४।१।८७
काशिका-वृत्तिः
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ४।१।८७

धान्यानां भवने क्षेत्रे खञ् ५।२।१ इति वक्ष्यति। तस्य प्रागित्यनेन एव सम्बन्धः। प्राग्भवनसंशब्दनाद् ये ऽर्थास् तेषु स्त्रीशब्दात् पुंस्शब्दाच् च यथाक्रमं नञ्स्नञौ प्रत्ययु भवतः। स्त्रीषु भवं स्त्रैणम्। पौंस्नम्। स्त्रिणां समूहः स्त्रैणम्। पौंस्नम्। स्त्रीभ्य आगतं स्त्रैणम्। अपुंस्नम्। स्त्रीभ्यो हितं स्त्रैणम्। पौंस्नम्। स्त्रियाः पुंवतिति ज्ञापकाद् वत्यर्थे न भवति। योगापेक्षं च ज्ञापकम् इति स्त्रीवदित्यपि सिद्धम्।
लघु-सिद्धान्त-कौमुदी
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् १००६, ४।१।८७

धान्यानां भवन इत्यतः प्रागर्थेषु स्त्रीपुंसाभ्यां क्रमान्नञ्स्नञौ स्तः। स्त्रैणः। पैंस्नः॥
न्यासः
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्। , ४।१।८७

"अत्र तावत् स्त्रीशब्दस्य स्वरूपग्रहणम्, न टाबादिस्त्रीप्रत्ययन्तस्य शब्दस्य। ततो हि "स्त्रीभ्यो ढक्" ४।१।१२० इति ढकं वक्षति, तत्साहचर्यात् पुंशब्दोऽपि तद्धर्मैव विज्ञायते। तस्यापि स्वरूपग्रहणेव। "पौस्नम्" इति। "संयोगानतस्य लोपः" ८।२।२३ इति लोपः। यदि प्राग्भवनसंशब्दनात् स्त्रीपुंसाभ्यां नञ्सनञौ भवतः, वत्यर्थेऽपि तौ स्याताम्, ततश्च स्त्रीवत्, पुंवदिति न सिध्येदित्याह- "स्त्रियाः पुंवत्" इत्यादि। यदयम् "स्त्रियां पुंवत्" ६।३।३३ इति निर्देशं करोति ततो ज्ञायते-- वत्यर्थे नञ्स्नञौ न भवतः। ननु चैतस्मान्निर्देशात् स्नञ्प्रत्ययो वत्यर्थे न भवतीति शक्यं विज्ञातुम्, न तु नञ्प्रत्ययो न भवतीति, ततश्च स्त्रीवदिति न सिध्यति? इत्यत आह-- "योगापेक्षञ्च" इत्यादि। "पुंवत्" इति निर्देशादयं योगो वत्यर्थे न प्रवत्र्तते-- इत्यवमर्थमिदं योगापेक्षं ज्ञापकम्, न तु स्नञ्प्रत्ययापेक्षम्। तेन स्त्रीवदित्येतदपि सिध्यति॥
बाल-मनोरमा
स्त्रीपुंसाभ्यां नञ्सन्ञौ भवनात् १०६२, ४।१।८७

अथाऽपत्याधिकारो निरूप्यते। स्त्रीपुंसाभ्याम्। भवनशब्देन "धान्यायां भवने क्षेत्रे ख"ञिति सूत्रं विवक्षितम्। "प्राग्दीव्यत" इत्यतः प्रागित्यननुवृत्तम्। तदाह--धान्यानामिति। स्त्रीपुंसाभ्यामिति। "अचतुरे"त्यच्। स्त्रीशब्दात्, पुंस्शब्दाच्चेत्यर्थः। स्त्रैण इति। स्त्रिया अपत्यं, स्त्रीषु भवः स्त्रीणां समूह इत्यादिविग्रहः। नञ्, वृद्धिः, णत्वम्। पौंस्न इति। पुंसोऽपत्यं, पुंसि भवः, पुंसां समूह इत्यादिविग्रहः। पुंस्शब्दात् स्नञि "स्वादिषुइति पदत्वात्संयोगान्तलोपः, आदिवृद्धिः। प्रत्ययसकारस्तु श्रूयते, उभाभ्यामपि नञ्प्रत्ययस्यैव विधौ तु पुंसः सकारस्य संयोगान्तलोपे "पुन्न" इति स्यादिति भावः। वत्यर्थे नेति। "तेन तुल्यं क्रिया चेद्वति"रिति वतिप्रत्ययो वक्ष्यते। तस्यार्थे स्त्रीपुंसाभ्यां नञ्स्नञौ न भवत इत्यर्थः। कुत इत्यत आह स्त्री पुंवच्चेति ज्ञापकादिति। अन्यथा "पुंव"दिति निर्देशोऽनुपपन्नः स्यादिति भावः। न च "पुंव"दिति निर्देशः पुंस्शब्दाद्वतद्यर्थे स्नञभावं ज्ञापयेन्नतु स्त्रीशब्दान्नञभावमपीति वाच्यं, नञ्स्नञोरेकसूत्रोपात्ततया वत्यर्थे स्नञभावे ज्ञापिते सति स्त्रीशब्दान्नञभावस्यापि लाभात्, ज्ञापकस्य सामान्यापेक्षत्वात्। तदुक्तं भाष्ये "योगापेक्षं ज्ञापक"मिति।

तत्त्व-बोधिनी
स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ८८९, ४।१।८७

स्त्रीपुंसाभ्याम्। प्रागित्यनुवर्तते। तदाह---प्रागर्थेष्विति। र्पौस्न इति। इह "स्वादिषु"इति पदत्वात्संयोगान्तलोपेन पुंसः सस्य निवृत्तावपि प्रत्ययसकारः श्रूयत एव। अतएवोभाभ्यां परतो नञेव न विहितः, पौंस्नमिति रूपाऽसिद्धिप्रसङ्गात्। स्यादेतत्---उभाभ्यामपि प्रकृतोऽञेवाऽस्तु, तत्संनियोगेन "स्त्रीपुंसयोर्ुक्चे"ति नुगेव विधीयताम्। न चैवं "स्त्रैणाः, पौंस्नाः"इत्यत्र " यञञोश्चे"ति लुक्प्रसङ्गः, रुऔणानां सङ्घ इत्यादौ "सङ्घाह्कलक्षणेषु" इत्यणप्रसङ्गश्च स्यादिति वाच्यम्, उभयत्रापि "गोत्रे"इत्यनुवृत्तेः। प्रवराध्यायप्रसिद्धं हि तत्र गोत्रम्। अन्यथा "पौत्राः, दौहित्राः"इत्यत्राऽप्यञो लुक्स्यात्। एवं च "नञ्स्नञीकक्ख्यु"न्निति वार्तिके नञ्स्नञ्ग्रहणं विनाऽञन्तत्वादेव ङीप्सिध्यतीत्यपरमप्यनुकूलमिति चेत्। अत्राहुः---नुकि "नस्तद्धिते"इति टिलोपः स्यात्। न चैवं नुगानर्थंक्यं, टिलोपप्रवृत्त्यैव नुकः सार्थकत्वात्। यद्यपि स्त्रीशब्दे तस्य सार्थक्यं नास्ति, "यस्येति चे"त्यनेनापीकारलोपसंभवात्, तथापि "श्रीर्देवताऽस्य श्रायं हविः"इत्यत्रैव लोपात्परत्वाद्वृद्धिः स्यात्, नुकि तु टिलोपः प्रवर्तते इति स्त्रीशब्देऽपि नुकः सार्थक्यमस्तु। तस्मान्नञ्स्नञाविति यतान्यासमेव स्वीकर्तव्यमिति। अन्ये तु "स्त्रीपुंसयोर्नुक्चे"त्यस्तु, आगमे अकारो विवक्षितः। तस्य च "यस्येति चे"ति लोपे कृतेऽपि स्थामिवत्त्वाट्टिलोपो न भविष्यति। एवं च "टिड्ढाण"ञिति सूत्रेणैव डीप्सिद्धौ नञ्स्नयोरुपसङ्ख्यानं माऽस्विति महदेव लाघवमित्याहुः। वत्यर्थ इति। "स्त्रीपुंसाभ्यां नञ्स्नञौ वत्यर्थे न प्रवर्तेते" इति सामान्यापेक्षं ज्ञापकमिति भावः। अत एवोदाहरति---स्त्रीवदिति। "आ च त्वा"दिति चकारो नञ्स्नञ्भ्यां त्वतलोः समावेशार्थ इति वक्ष्यति। तेन स्त्रीत्वं स्त्रीता, पुंस्त्वं पुंस्तेति सिद्धम्।