पूर्वम्: ४।२।३५
अनन्तरम्: ४।२।३७
 
सूत्रम्
तस्य समूहः॥ ४।२।३६
काशिका-वृत्तिः
तस्य समूहः ४।२।३७

तस्य इति षष्ठीसमर्थात् समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। किम् इह उदाहरणम्? चित्तवदद्युदात्तमगोत्रं यस्य च न अन्यत् प्रतिपदं ग्रहणम्। अचित्तात् ठकं वक्ष्यति, अनुदात्तादेरञ् ४।२।४३, गोत्राद् वुञ्, प्रतिपदं च केदाराद् यञ्च ४।२।३९ इत्येवम् आदि, तत्परिहारेण अत्र उदाहरणं द्रष्टव्यम्। काकानां समूहः काकम्। बाकम्। इनित्रकट्यचश्च ४।२।५० इति यावत् समूहाधिकारः। गुणादिभ्यो ग्रामज् वक्तव्यः। गुणग्रामः। करणग्रामः। गुण। करण। तत्त्व। शब्द। इन्द्रिय। आकृतिगनः।
लघु-सिद्धान्त-कौमुदी
तस्य समूहः १०५०, ४।२।३६

काकानां समूहः काकम्॥
लघु-सिद्धान्त-कौमुदी
इनण्यनपत्ये १०५२, ४।२।३६

अनपत्यार्थेऽणि परे इन् प्रकृत्या स्यात्। तेन नस्तद्धित इति टिलोपो न। युवतीनां समूहो यौवनम्॥
न्यासः
तस्य समूहः। , ४।२।३६

"काकम्, शौकम्, बाकम्" इति। काकशुकबकशब्दा आद्युदात्ताः।"प्राणिनां कुपूर्वाणाम्" (फि।सू।२।३०) इत्यनेन। अस्यायमर्थः-- प्राणिविशेषवाचिनां शब्दानां आदिभूताः कवर्गात् तेषामुदात्तो भवतीति॥
बाल-मनोरमा
तस्य समूहः १२२५, ४।२।३६

तस्य समूहः। इनित्रकठ()चस्चे"ति यावदिदमनुवर्तते। अस्मिन्नर्थे प्रथमोच्चारितात्षष्ठ()न्तात्प्राग्दीव्यतीया अणादयो यथासम्भवं स्युरित्यर्थः। "अचित्तहस्तिधेनोष्ठ"गित्याद्यपवादविषयं परिह्मत्योदाहरति--काकं बाकमिति।समूहप्रत्ययान्तानां नपुंसकत्वं लोकात्।

तत्त्व-बोधिनी
तस्य समूहः १००१, ४।२।३६

तस्य समूहः। इह "अचित्ताठ्ठक्", "अनुदात्तादेरञ्", गोत्रान्ताद्वुञ्", "केदाराद्यञ्च"इत्यादिना प्रतिपदं यञादीश्त वक्ष्यति। तथा च चित्तवदाद्युदात्तमगोत्रान्तं प्रतिपदोक्तप्रत्ययरहितमिहोदाहरणमित्यशयेनोदाहरति---काकम्। बाकमिति। एवं वार्कम्। काकबकवृकशब्दाः "प्राणिनां कुपूर्व"मिति फिट्सूत्रेणाद्युदात्ताः। प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे, तेषामुदात्तः स्यादिति सूत्रार्थः। "अथादिः प्राक् शकटेः"इत्यधिकारात्। यत्तु वृत्तिन्यासयोः शौकमित्युहाह्मतं, तदुपेक्ष्यम्। खण्डिकादिषु शुकशब्दस्य पाठातत्राऽञा भाव्यमिति हरदत्तादयः।