पूर्वम्: ४।३।४२
अनन्तरम्: ४।३।४४
 
सूत्रम्
कालात् साधुपुष्प्यत्पच्यमानेषु॥ ४।३।४३
काशिका-वृत्तिः
कालात् साधुपुष्प्यत्पच्यमानेषु ४।३।४३

तत्र इत्येव कालविशेषवाचिभ्यः सप्तमीसमार्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति। हेमन्ते साधुः हैमन्तः प्राकारः। शैशिरमनुलेपनम्। वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः। ग्रैष्म्यः पाटलाः। शरदि पच्यन्ते शारदाः शालयः। ग्रैष्म यवाः।
न्यासः
कालात्साधुपुष्प्यत्पच्यमानेषु। , ४।३।४३

कालादिति स्वर्यते, प्रकृतीरुत्तरा विशेषयितुम्। न च स्वरूपग्रहणे सत्युत्तराः प्रकृतयः शक्या विशेषयितुम्; स्वरूपस्याधारणत्वात्। तस्मादर्थग्रहणमेवैतत्। तेनकालविशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्याह-- "कालविशेषवाचिब्यः" इत्यादि। "हैमनः" इति। "सर्वत्राण् च तलोपश्च" ४।३।२२। "शैशिरः" इत्यादौ सन्धिवेलादिसूत्रेण ४।३।१६ ऋत्वण्॥
बाल-मनोरमा
कालात्साधुपुष्फ्यत्पच्यमानेषु १३९७, ४।३।४३

कालात्साधुपुष्प्यत्। तत्रेत्येव साधुः, पुष्प्यत्, पच्यमानमित्यर्थेषु सप्तम्यन्ताद्यथधाविहितं प्रत्ययाः स्युरित्यर्थः। "पुष्प विकसने" इति दैवादिकाल्लटः शतरि "पुष्प्य"दिति भवति। हैमनः प्रावार इति। "सर्वत्राऽण्च तलोपश्चे"त्यणितलोपः। वासन्त्य इति। "टिड्ढे"ति ङीप्। "शारदा" इत्यत्र ऋत्वण्। "तत्र भवः" इति यावत्कालादित्यनुवर्तते।

बाल-मनोरमा
उप्ते च १३९८, ४।३।४३

उप्ते च। तत्रेत्येव। कालवाचिनः सप्तम्यन्तादुप्तेऽर्थे यथाविहितं प्रत्ययाः स्युः। उप्यन्त इति। "डु वप् बीजसन्ताने"। भूतकालस्त्वविवक्षित इति भावः।

तत्त्व-बोधिनी
कालत्साधुपुष्प्यत्पच्यमानेषु १०९८, ४।३।४३

कालात्। "पुष्य"दिति दैवादिकः शत्रन्तः। तदाह--पुष्प्यन्तीति।