पूर्वम्: ४।४।१९
अनन्तरम्: ४।४।२१
 
सूत्रम्
क्त्रेर्मम् नित्यं॥ ४।४।२०
काशिका-वृत्तिः
त्रेर्मम् नित्यम् ४।४।२०

निर्वृत्त इत्येव। ड्वितः क्त्रिः ३।३।८८ इत्ययं त्रिशब्दो गृह्यते। त्र्यन्तान् नित्यं मप् प्रत्ययो भवति तेन विर्वृत्ते इत्येतस्मिन्नर्थे। डुपचष् पाके पक्त्रिमम्। डुवप् उप्त्रिमम्। डुकृञ् कृत्रिमम्। नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्, तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तम् एव भवति, विषयान्तरे न प्रयोक्तव्यम् इति। भावप्रत्ययान्तादिम् अब्वक्तव्यः। पाकेन निर्वृत्तम् पाकिमम्। त्यागिमम्। सेकिमम्। कुट्टिमम्।
लघु-सिद्धान्त-कौमुदी
क्त्रेर्मम्नित्यम् ८६१, ४।४।२०

क्त्रिप्रत्ययान्तात्मप् निर्वृत्तेर्ऽथे। पाकेन निर्वृत्तं पक्त्रिमम्। डुवप् उप्त्रिमम्॥
न्यासः
त्रेर्मम्नित्यम्। , ४।४।२०

"डिवतः क्त्रिरित्ययं त्रिशब्दो गृह्रते" इति। संख्याशब्दः कस्मान्न गृह्रते??नभिधानात्। न हि त्रिरित्युच्यते विवक्षितार्थस्य प्रतीतिर्भवति। "उप्त्रिमम्" इति। "वचिस्वपियजादीनां किति" ६।१।१५ इति सम्प्रसारणम्। "नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्" इति। केवलस्य त्रिप्रत्ययान्तस्य मप्प्रत्ययरहितस्य प्रयोगः स्वातन्त्र्यम्, तन्निवृत्त्यर्थं नित्यग्रहणम्। स्वातन्त्रनिवृत्त्यर्थे नित्यग्रहणे सति योऽर्थः सम्पद्यते तं "{त्र्यन्तः----मु।पाठः} त्र्यन्तम्" इत्यादिना दर्शयति। "विषयान्तरे" इत्यादिना यदेवकारस्य व्यवच्छेद्यं तदाचष्टे। मप्प्रत्ययविषयार्थादन्यविषये यत्र प्रत्ययो न भवति तद्वि यान्तरम्। नित्यग्रहणं तन्निवृत्तिर्यथा स्यादित्येवमर्थं वेदितव्यम्।।
बाल-मनोरमा
त्रेर्मम्नित्यम् १५४९, ४।४।२०

त्रेर्मम्नित्यम्। तेन निर्वृत्तमित्यर्थे "ड्वितः क्रि"रिति क्रिप्रत्ययान्तान्नित्यं मप्प्रत्ययः स्यादित्यर्थः। "समर्थानां प्रथमाद्वे"ति महाविकल्पनिवृत्त्यर्थं नित्यग्रहणात्। ततश्च अस्मिन्नर्थे मप्प्रत्ययं विना क्रियप्रत्ययान्तस्य प्रयोगो नेति भाष्ये स्पष्टम्। एवं चात्र अस्वपदविग्रहं दर्शयति--कृत्या निर्वृत्तमिति। अत्र विग्रहवाक्ये "स्त्रियां क्तिन्नि"ति क्तिन्नन्तोऽयं कृतिशब्दः। कृत्रिममिति। "डुकृञ् करणे" इति धातोः "ड्वितः क्रि"रिति क्रिप्रत्ययान्तान्मप्। पक्रिममिति। पक्त्या निर्वृत्तमित्यस्वपदविग्रहः। "डुपचष् पाके" इत्यस्मात्क्रियप्रत्ययान्तान्मप्। इमब्वक्तव्य इति। निर्वृत्तमित्यर्थे तृतीयान्ता"दिति शेषः। अत्र नित्यमिति न संबध्यते इत्यभिप्रेत्य लौकिकस्वपदविग्रहं दर्शयति--पाकेन निर्वृत्तमिति।

तत्त्व-बोधिनी
त्रेर्मम्नित्यम् १२०१, ४।४।२०

त्रेर्मम्नित्यम्। नित्यग्रहणं स्वातन्त्र्येण प्रयोगं वारयितुम्। अतएव लौलिके विग्रहवाक्ये "क्तिन्नदीनां प्रयोगो , न तु त्रेः, तदाह---कृत्या निर्वृत्तमिति। एवमग्रेऽपि पाकेन निर्वृत्तमिति विग्रहो बोध्यः। सङ्ख्यावाची त्रिशब्दो नेह गृह्रते, प्रत्ययाऽप्रत्यययोः प्रत्ययस्यैव ग्रहणात्, "णिजां त्रयाणा"मिति लिङ्गाच्च। ननु नित्यग्रहणेन निर्वृत्तार्थविवक्षायां मपं विना त्रिप्रत्ययान्तस्य प्रयोगनिवारणेऽपि तदविवक्षायां तस्य स्वातन्त्र्येण प्रयोगो दुर्वार इति चेत्। न। "नित्य"मिति योगं विभज्य तत्सामथ्र्यादर्थ विशेषानादरेणैव स्वातन्त्र्यवारणात्। इमबिति। एवं च मप् कर्तव्यः।

भावप्रत्ययान्तादिमब्वक्तव्यः। तथा हि---"भावप्रत्ययान्तादिमप्। ततः "त्रेः"। पूर्वेण सिद्धे नियमार्थमिदं,---त्रिप्रत्ययान्त इमब्विषय एवेति। तेन त्रिपत्ययान्तस्य प्रयोगो निवर्तते। ततो "नित्यम्"। अनेन निर्वृत्तार्थाऽविवक्षायामपि त्र्यन्तस्य स्वातन्त्रं वार्यते। एवं च सङ्ख्यावाचित्रिशब्दस्य ग्रहणशङ्कैव नास्ति, "भावप्रत्ययान्ता"दित्यनुवृत्तेः। स्वरेऽपि विशेषो नास्ति, उदात्तनिवृत्तिस्वरेण इमप इकारस्योदात्तत्वात्।