पूर्वम्: ४।४।५६
अनन्तरम्: ४।४।५८
 
सूत्रम्
प्रहरणम्॥ ४।४।५७
काशिका-वृत्तिः
प्रहरणम् ४।४।५७

तदस्य इत्येव। तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत्तत् प्रथमासमर्थं प्रहरणं चेत् तद् भवति। असिः प्रहरणम् अस्य आसिकः। प्रासिकः। चाक्रिकः धानुष्कः।
लघु-सिद्धान्त-कौमुदी
प्रहरणम् ११३०, ४।४।५७

तदस्येत्येव। असिः प्रहरणमस्य आसिकः। धानुष्कः॥
न्यासः
प्रहरणम्। , ४।४।५७

"धानुष्कः" इति। कादेशः "इणः षः" ८।३।३९ इति विसर्जनीयस्य षत्वम्॥
बाल-मनोरमा
प्रहरणम् १५८६, ४।४।५७

प्रहरणम्। "तदस्ये"त्येव। प्रहरणवाचिनः प्रथमान्तात्तदस्येत्यर्थे ठगित्यर्थः। प्रह्यियतेऽनेनेति प्रहरणम्ायुधम्। धानुष्क इति। धनुः प्रहरणमस्येति विग्रहः। उसन्तात्परत्वाट्ठस्य कः। "इणः षः" इति षः।

तत्त्व-बोधिनी
प्रहरणम् १२२४, ४।४।५७

प्रहरणम्। प्रह्यियते अनेनेति प्रहणमायुधम्। धानुष्क इति। "इसुसुक्तान्तात्कः"। "इणः षः"इति विसर्गस्य षः।