पूर्वम्: ५।२।८०
अनन्तरम्: ५।२।८२
 
सूत्रम्
तदस्मिन्नन्नं प्राये संज्ञायाम्॥ ५।२।८१
काशिका-वृत्तिः
तदस्मिन्नन्नं प्राये संज्ञायाम् ५।२।८२

ततिति प्रथमासमर्थादस्मिनिति सप्तम्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं अन्नं चेत् प्रायविषयं तद् भवति। प्रायो बाहुल्यम्। संज्ञाग्रहण तदन्तोपाधिः। गुडापूपाः प्रायेण अन्नम् अस्यां पौर्णमास्यां गुडापूपिका। तिलापूपिका पौर्णमासी। वटकेभ्य इनिर् वक्तव्यः। वटकिनी पौर्णमासी।
न्यासः
तदस्मिन्नन्नं प्राये संज्ञायाम्?। , ५।२।८१

"अन्नं चेत्प्रायविषयम्" इति। प्रायो विषयो यस्य तत्तथोक्तम्। विषयग्रहणे "प्राये" इति सप्तम्या विषयसप्तमीत्वं दर्शयि। "प्रत्ययो भवति" इति। अन्यथा गुडापूपाः प्रायेणान्नमिति ववक्षायाः कारकाणि भवन्तीतिप्रायस्य विषयभूतस्य करणत्वेन विवक्षितत्वात् तृतीया। "गुडापूपिका" इति "प्रत्ययस्थात् कात् पूर्वस्यातः" ७।३।४४ इतीत्त्वम्। "वटकेभ्य इनिर्वक्तव्यः" इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम्--इह संज्ञाग्रहणस्य प्रत्ययान्तोपाधिकत्वाद्यत्र प्रत्ययान्तं संज्ञा भवति तत्र प्रत्ययेन भवितव्यम्। न च वटकशब्दः कन्प्रत्ययान्तः कस्यचित् संज्ञा, तेन ततः कन् न भविंष्यति तर्स्मिश्चासति मत्वर्थीय इनिर्भविष्यतीति। "वटकिनो" इति। "ऋम्नेभ्यो ङीप्" ४।१।५
बाल-मनोरमा
तदस्मिन्नन्नं प्राये संज्ञायाम् १८५७, ५।२।८१

तदस्मिन्नन्नं। प्रथमान्तादन्नवाचकादस्मिन्नित्यर्थे कन् स्यादन्नस्य बाहुल्ये गम्ये संज्ञायामित्यर्थः।

वटकेभ्य इति। संज्ञायामित्येव वटकिनीति। वटकाः प्रायेण अन्नमस्यां प्रौर्णमास्यामिति विग्रहः।