पूर्वम्: ५।३।३३
अनन्तरम्: ५।३।३५
 
सूत्रम्
उत्तराधरदक्षिणादातिः॥ ५।३।३४
काशिका-वृत्तिः
उत्तराधरदक्षिणादातिः ५।३।३४

उत्तराधरदक्षिणशब्देभ्यः आतिः प्रत्ययो भवति अस्तातेरर्थे। उत्तरस्यां दिशि वसति उत्तराद् वसति। उत्तरादागतः। उत्तराद् रमणीयम्। अधराद् वसति। अधरादागतः। अधराद् रमणीयम्। दक्षिणाद् वसति। दक्षिणादागतः। दक्षिणाद् रमणीयम्।
न्यासः
उत्तराधरदक्षिणादातिः। , ५।३।३४

उत्तरदक्षिणाभ्यां "दक्षिणोत्तराभ्यामतसुच्()" ५।३।२८ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" ५।३।३५, "दक्षिणादाच्()" ५।३।३६, "आहि च दूरे" ५।३।३७, "उत्तराच्च" ५।३।३८ इत्येभिर्योगैरतसुजादिषु प्राप्तेष्वधरादप्यस्तातावातिर्विधीयते, तस्यास्तातिर्बाध्यत एव। अतसुजादयस्तु वचनात्पक्षे भवन्त्येव। अत्र च यद्यप्युत्तरादीनां सप्तम्यादीनां च विभक्तीनां दिगादीनां चोपाधीनां त्रित्वम्(), तथापि यथासंख्यं न भवति। कुतः? तदर्थस्य स्वरितत्वस्याप्रतिज्ञानात्()। लध्वक्षरस्याधरशब्दस्यापूर्वनिपाताल्लक्षणव्यभिचारचिह्नाद्वाऽस्य लक्षणान्तरनिरपेक्षतां दर्शयन्? यथासंख्यलक्षणमिह नापेक्ष्यत इति सूचयति। तेन विभक्तिभिस्तावद्यथासंख्यं न भवति। उपाधिभिस्तु दक्षिणशब्दस्य काले वृत्त्यसम्भवाच्च॥
बाल-मनोरमा
उत्तराधरदक्षिणादातिः , ५।३।३४

उत्तराधर। आतिप्रत्यये इकार उच्चारणार्थः। अस्तातेरपवादः।