पूर्वम्: ६।४।१५३
अनन्तरम्: ६।४।१५५
 
सूत्रम्
तुरिष्ठेमेयस्सु॥ ६।४।१५४
काशिका-वृत्तिः
तुरिष्ठैमैइयस्सु ६।४।१५४

इष्ठनिमनिचीयसुनित्येतेषु परतः तृशब्दस्य लोपो भवति। आसुतिं करिष्ठः। विजयिष्ठः। वहिष्ठः। दोहीयसी धेनुः। सर्वस्य तृशब्दस्य लोपार्थं वचनम्। अन्त्यस्य हि टेः ६।४।१५५ इत्येव सिद्धः। लुगित्येतदत्र न अनुवर्तते, तथा हि सति न लुमताङ्गस्य १।१।६२ इति प्रतिषेधाद् गुणो न स्यात्। इमनिज्ग्रहणम् उत्तरार्थम्। इतरौ तु तुश्छन्दसि ५।३।५९ इति भवतः।
न्यासः
तुरिष्ठेमयस्सु। , ६।४।१५४

"तुः" इति। विसेषकराननुबन्धानुत्सृज्य तृंस्तृचोः सामान्येन ग्रहणम्()। "करिष्ठः" इति। करोतेस्तृन्()। तदन्तादतिशायन इष्ठन्(), तृशब्दस्य लोपः। "विजयिष्ठः" इति। विपूर्वाज्जयतेस्तृन्()। "वहिष्ठः" इति। अत्रापि वहेस्तृन्()। तदन्तादिष्ठन्(), "हो ढः" ८।२।३१ इति ढत्वम्()। तृशब्दस्य लोपे कत्र्तव्ये "पूर्वत्रासिद्धम्()" ८।२।१ इत्यसिद्धम्(), तेन पूर्वलोप एव क्रियते, तस्मिन्? कृते झलि यदान्ते च विधीयमानं ढत्वं निमित्ताभावान्न प्रवत्र्तेते। "दोहीयसी" इति। दुहेस्तृजन्तादीयसुन्(), "उगितश्च" ४।१।६ इति ङीप्()। अत्रापि लोपे कत्र्तव्ये "दादेर्धातोर्धः" ८।२।३२ इत्येतदप्यसिद्धमिति पूर्वं लोपः, तस्मिन्? सति पूर्ववद्धत्वं न प्रवत्र्तते। अथ "अलोऽन्त्यस्य" (१।१।५२) इत्यन्त्यस्यायं लोपः कस्मान्न भवति? इत्याह--"सर्वस्य" इत्यादि। तत्रैव कारणमाह--"अन्त्यस्य" इत्यादि। यद्यन्त्यस्य स्याद्वचनवैयथ्र्यमापद्येत; "अन्त्यस्य टेः" इत्येवं सिद्धत्वात्()। तस्मादन्त्यलोपवचने प्रयोजनं नास्तीति सर्वस्य तृशब्दस्य लोपो यता स्यादित्येवमर्थमिदं वचनं विज्ञायते। यदि तर्हि तृशब्दस्य लोपार्थं वचनमनन्तरो लुगेव कस्मान्न विधीयते, एवं तर्हि सर्वस्य सुखमेव लोपोऽवसीयते, प्रत्ययादर्शनस्य लुग्विधानात्()? इत्यत आह--"लुगित्येतत्तु" इत्यादि। कः पुनस्तत्र सति दोषः स्यात्()? इत्यत आब--"तथा हि" इत्यादि। यदि लुगित्येतदिहानुवत्र्तत, ततः "अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते" (व्या।प।१२८) इति कृत्वा पूर्वं लुका भवितव्यम्(), ततश्च "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणनिषेधः स्यात्(); करिष्ठः, विजयिष्ठ इत्यत्रार्धदातुकलक्षणो गुणो न स्यात्()। तस्मान्मा भूदेष दोष इति लुगित्येतदिहानुवत्र्तते। अथेमनिज्ग्रहणं किमर्थम्(), यावता तृशब्दात्? पर इमानिज्न सम्भवति। तथापि "पृध्वादिभ्य इमानिज्वा" ५।१।१२१ "वर्मदृढादिभ्यः व्यञ्च" ५।१।१२२ इत्यनेन योगद्वयेन स विहितः, न तृशब्दान्तं किञ्चित्? पृथ्वादिषु दृढादिषु वा मध्ये पठ()ते, नापि वर्णवाच्यस्तीत्यत आह--"इतरौ तु" इत्यादी॥
तत्त्व-बोधिनी
तुरिष्ठेमेयः सु १५०४, ६।४।१५४

तुरिष्। "टे"रित्यनेनान्त्यलोपे सिद्धेऽप्यारम्भसामथ्र्यात्सर्वस्य तृशब्दस्य लोपस्तदाह---करिष्ठ इति। दोहीयसीति इयमनयोरतिशयेन दोग्ध्री। "भस्याऽढे तद्धिते सिद्धश्च प्रत्ययविधौ"इति वचनात्तद्धिते कर्तव्ये प्रागेव पुंवद्भाव इति ङीपि निवृत्ते दोग्धृशब्दात्प्रत्ययः, ततस्तृचि निवृत्ते निमित्ताऽभावाद्धत्वजश्त्वयोरपि निवृत्तिः। अलौलिके विग्रहवाक्ये प्रागेव तयोरप्रवृत्तिः "अकृतव्यूह"परिभाषयेति तु तत्त्वम्। गुणस्तु प्रवर्तते। लुप्तेऽपि तृचि प्रत्ययलक्षणध्रौव्यात्, छान्दसमपि "तु"रिति सूत्रम्, "तुरिष्ठेमेयः,सु"इति च "णाविष्ठव"दित्यति देशेन लोकेऽपि कर्तारमाचष्टे कारयतीत्यादावुपयोक्ष्यमाणत्वादिहोपन्यस्तम्।