पूर्वम्: ५।४।३७
अनन्तरम्: ५।४।३९
 
सूत्रम्
प्रज्ञादिभ्यश्च॥ ५।४।३८
काशिका-वृत्तिः
प्रज्ञादिभ्यश् च ५।४।३८

प्रजानाति इति प्रज्ञः। प्रज्ञ इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः स्वार्थे अण्प्रत्ययो भवति। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। यस्य अस्तु प्रज्ञा विद्यते सा प्राज्ञा प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ५।२।१०० इति। विदन्नित्यत्र पठ्यते। विदेः शत्रन्तस्य ग्रहणं, विदेः शतुर्वसुः ७।२।३६ इत्यत एव ज्ञापकात् पाक्षिको वस्वादेशः। अन्यतरस्यांग्रहणं वा तत्र अनुवर्तते, तुह्योस् तातङाशिष्यन्यतरस्याम् ७।१।३५ इति। प्रज्ञ। वणिज्। उशिज्। उष्णिज्। प्रत्यक्ष। विद्वस्। विदन्। षोडन्। षोडश। विद्या। मनस्। श्रोत्र शरीरे श्रौत्रम्। जुह्वत् कृष्णमृगे। चिकीर्षत्। चोर। शत्रु। योध। चक्षुस्। वक्षस्। धूर्त। वस्। एत्। मरुत्। क्रुङ्। राजा। सत्वन्तु। दशार्ह। वयस्। आतुर। रक्षस्। पिशाच। अशनि। कार्षापण। देवता। बन्धु। प्रज्ञादिः।
लघु-सिद्धान्त-कौमुदी
प्रज्ञादिभ्यश्च १२४३, ५।४।३८

अण् स्यात्। प्रज्ञ एव प्राज्ञः। प्राज्ञी स्त्री। दैवतः। बान्धवः॥
न्यासः
प्रज्ञादिभ्यश्च। , ५।४।३८

"प्रजानातीति प्रज्ञः" इति। "इगुपधज्ञाप्रीकिरः कः" ३।१।१३५। ननु च यः प्रजानाति तस्य प्रज्ञास्तीति "प्रज्ञश्रद्धार्चावृत्तिभ्योऽण्()" ५।२।१०० इति मत्वर्थेनैव णेन सिद्धम्(), तत्? किमर्थं प्रज्ञाशब्दादण्? विधीयत इति? अस्य चोद्यस्य निराकरणाय स्त्रियां विशेषं दर्शयन्नाह--"स्त्रो प्राज्ञी" इत्यादि। "विदेः शत्रन्तस्य ग्रहणम्()" इति। न तु "विदेः शतुर्वसुः" ७।१।३६ इत्यादि। "श्रोत्र शरीरे" इति। शरीरे यः श्रोत्रशब्दो वत्र्तते तस्मादण्? भवति-श्रौत्रम्()। अन्यत्र शोत्रम्()। "जुह्वत्()" इति। जुह्वच्छब्दात्? कृष्णमृगे वत्र्तमानादण भवति--जौह्वतः। जुह्वदित्येवान्यत्र। अन्ये "कृष्ण मृगे" इति पृथक्? पठन्ति। कृष्णशब्दादण्? भवति मृगेऽभिधेये---कार्ष्णो मृगः, कृष्ण एवान्यत्र। जुह्वच्छबदादविशेषेणास्मिन्? पाठे प्रत्ययः। "सत्वन्तु" इति। सच्छब्दो यो मतुप्प्रत्ययान्तः सः सत्वानेव सात्वतः। "प्रज्ञादिरयमाकृतिगणः। तामेवास्याकृतिगणतां बोधयितुमनुक्तसमुच्चयार्थश्चाकाः कृतः। तेन कुलालकुक्कुटादिभ्योऽण्? सिद्धो भवति।
बाल-मनोरमा
प्रज्ञादिभ्यश्च , ५।४।३८

प्रज्ञादिभ्यश्च। "स्वार्थे"ऽणिति शेषः। प्राज्ञ इति। प्रजानातीति प्रज्ञः। "इगुपधज्ञे"ति कः। प्रज्ञशब्दात्स्वार्थे अण्। प्राज्ञीति। अण्णन्तत्वान्ङीप्। प्रज्ञाअस्यास्तीति विग्रहे तु "प्रज्ञाश्रद्धार्चाभ्यः" इति णाऽन्ताट्टापि प्राज्ञेति रूपम्।

तत्त्व-बोधिनी
प्राज्ञादिभ्यश्च १५६७, ५।४।३८

प्रज्ञ एवेति। प्रजानातीति प्रज्ञः। "इगुपधज्ञे;ति कः। ततः स्वार्थेऽण्। प्राज्ञः। प्रार्ज्ञिति। "टिड्ढे"ति ङीप्। प्रज्ञानं प्रज्ञा। "आतश्चोपसर्गे"त्यङि टाप्। प्रज्ञा विद्यते यस्याः सा तु प्राज्ञा भवति। "प्रज्ञाश्रद्धार्चाभ्यः" इति णः।