पूर्वम्: ५।४।८९
अनन्तरम्: ५।४।९१
 
सूत्रम्
उत्तमैकाभ्यां च॥ ५।४।९०
काशिका-वृत्तिः
उत्तमएकाभ्यां च ५।४।९०

उत्तमैकाभ्यां च परस्य अह्नः इत्ययम् आदेशो न भवति। उत्तमशब्दो ऽन्यवचनः पुण्यशब्दम् आचष्टे। पुण्यग्रहणम् एव न कृतम् वैचित्र्यार्थम् पुण्याहः। एकाहः। केचित् तु उपोत्तमस्य अपि प्रतिपत्त्यर्थं वर्णयन्ति। तेन सङ्ख्यातशब्दादपि परस्य न भवति, सङ्ख्याताहः इति।
न्यासः
उत्तमैकाभ्याञ्च। , ५।४।९०

"पुण्याहम्()" ["पुण्याहः"--काशिका] इति। विशेषणम्? २।१।५६ इत्यादिना समासः। "एकाहः" इति। अत्रापि "पूर्वकालैक" २।१।४८ इत्यादिना। कथं पुनः "उत्तमैकाभ्याम्()" पुण्यशब्दात्? प्रतिषेधो लभ्यते? इत्यत आह--"उत्तमशब्दोऽन्त्यवचनः" इत्यादि। "अहःसर्वेकदेश" ५।४।८७ इत्यादौ सूत्रे पुण्यशखब्दस्यान्ते नदिष्टत्वात्()। "अग्त्यः" इति। उत्तमशब्देऽपि प्रतिषेधार्थ इहान्त्यवचन उपात्तः। तस्मात्? पुण्यशब्दमाचष्टे। अथ पुण्यग्रहणमेव कस्मान्न कृतम्(), लरघु ह्रेवं सूत्रं भवति? इत्याह--"पुण्यग्रहणमेव" इत्यादि। वैचित्र्यं हि सूत्रकृतेरिष्यते, तच्चोत्तमग्रहणे सति सम्पद्यते। यस्माद्वैचित्र्यार्थमुत्तमग्रहणं कृतम् न पुण्यग्रहणम्()। "केचि" इत्यादि। पुण्यग्रहणे कत्र्तव्ये यदुत्तमग्रहणं कृतं तत्()प्रयोजनम्()--उत्तमशब्दस्यापि संखक्यातस्य प्रतिषेधप्रतिपत्तिर्यथा स्यादित्येवं केचिद्वर्णयन्ति। भवति तत्सामीप्यात्? ताच्छब्द्यम्()--गङ्गायां घोष इत्यादि। तस्माच्छक्त उत्तमशब्दः सामीप्यादुपोत्तमशब्दमभिधातुमिति तेषामभिप्रायः। "तेन" इत्यादिना प्रतिषेधस्योपोत्तमशब्दप्रतिपत्तेः पलं दर्शयति॥
बाल-मनोरमा
उत्तमैकाभ्यां च ७८४, ५।४।९०

उत्तमैकाभ्यां च। ननु उत्तमशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशाऽप्रसक्तेरुत्तमग्रहणं व्यर्थमित्यत आह--उत्तमशब्द इति। उत्तमशब्दोऽन्त्ये वर्तते। यथा द्वादशाहे "उदयनीयातिरात्र उत्तममहः" इति अन्त्यमिति गम्यते। "अहःसर्वैकदेशसङ्ख्यातपुण्या"दित्युपात्तेषु अन्त्यः पुण्यशब्दो विवक्षित इत्यर्थः। तर्हि "पुण्यैकाभ्या"मित्येव कुतो न सूत्रितमित्याशङ्क्य स्वतन्त्रेच्छत्वान्नमहर्षेरित्याह--पुण्यैकाभ्यामित्येवेति। पुण्याहमिति। पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः। "पुण्यसुदिनाभ्यां चे"ति नपुंसकत्वम्। एकाह इति। एकमहरिति विग्रहे "पूर्वकालैके"ति समासः। टच् टिलोपः। उपान्त्यस्यापीति। "लक्षणये"ति शेषः। परुण्येत्यनुक्त्वा उत्तमग्रहणमेव लक्षणाबीजम्। उत्तमे च एकं चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः। सङ्ख्याताह इति। सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः। "रात्राह्नाहा" इति पुंस्त्वम्। उपान्त्यसङ्खातशब्दपूर्वकत्वान्नाऽह्नादेशः।

तत्त्व-बोधिनी
उत्त्मैकाभ्यां च ६९०, ५।४।९०

पुण्याहमिति। "पुण्यसुदिनाभ्या"मिति क्लीबत्वं वक्ष्यति। उपान्त्यस्यापीति। यथा "प्रथमयो"रिति प्रथमाद्वितीययोग्र्रहणं द्विवचननिर्देशात्, तथेहापि उत्तमग्रहणसामथ्र्यादन्त्ययोद्र्वयोग्र्रहणम्। उत्तमौ चैकश्चेति विग्रहे सौत्रं द्विवचनमिति तेषामाशयः।