पूर्वम्: ६।१।१९७
अनन्तरम्: ६।१।१९९
 
सूत्रम्
संज्ञायामुपमानम्॥ ६।१।१९८
काशिका-वृत्तिः
संज्ञायाम् उपमानम् ६।१।२०४

उपमानशब्दः संज्ञायाम् आद्युदातो भवति। चञ्चा। वध्रिका। खरकुटी। दासी। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र इवे प्रतिकृतौ ५।३।९६ इति यः कन्, तस्य लुम्मनुष्ये ५।३।९८ इति लुप्। यद्येवं किम् अर्थम् इदम् उच्यते प्रत्ययलक्षणेन सिद्धम् आद्युदात्तत्वम्? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवति इति। तथा च पूर्वत्र उदाहृतम्। संज्ञायाम् इति किम्? अग्निर् माणवकः। उपमानम् इति किम्? देवदत्तः।
न्यासः
संज्ञायामुपमानम्?। , ६।१।१९८

"यद्येवम्()" इति। यदि कनो लुबित्यर्थः, कनोऽपु लुपि सत्यपि प्रत्ययलक्षणेनैव सिद्धमेषां हि नित्स्वरेणाद्युदात्तत्वम्(), तदपार्थकमित्यभिप्रायः। "एतदेव" इत्यादि। यदि हि क्वचित्? स्वरविधौ प्रत्ययलक्षणं स्यात्(), कत्र्तव्यमेवेदं वचनं स्यात्()। प्रत्ययलक्षणेन सिद्धत्वात्(), कृतञ्च। तस्मादेतज्ज्ञापयति--प्रत्ययलक्षणं स्यात्(), कत्र्तव्यमेवेदं वचनं स्यात्()। प्रत्ययलक्षणेन सिद्धत्वात्(), कृतञ्च। तस्मादेतज्ज्ञापयति--प्रत्ययलक्षणमिह स्वरविधौ न भवतीति। क्वचिद्ग्रहणं क्वचित्तु भवतीति प्रदर्शनार्थम्(), तथा हि "सर्वस्य सुपि" ६।१।१८५ इत्यत्रोक्तम्()--प्रत्ययलक्षणेनाप्ययं स्वर इष्यत इति। "तथा च" इत्यादिना ज्ञापनस्य प्रयोजनमाह। "अग्निर्माणवकः" इति। भवत्यग्निशब्द उपमानम्()। तथा ह्रग्निरेवेति गम्यते, नासौ माणवकस्य संज्ञा॥