पूर्वम्: ६।१।८१
अनन्तरम्: ६।१।८३
 
सूत्रम्
अन्तादिवच्च॥ ६।१।८२
काशिका-वृत्तिः
अन्तादिवच् च ६।१।८५

एकः इति वर्तते, पूर्वपरयोः इति च। एकः पूर्वपरयोः ६।१।८१ इति यो ऽयम् एकादेशो विधीयते स पूर्वस्य अन्तवद् भवति, परस्यादिवद् भवति। यथा तस्यान्तः आदिर् वा तदन्तर्भूतः तद्ग्रहणेन गृह्यते, तद्वदेकादेशो ऽपि तद्ग्रहणेन ग्र्ह्यते इत्येषो ऽतिदेशार्थः। ब्रह्मबन्धूः इत्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङिति अप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर् यः एकादेशः स प्रातिपदिकस्य अन्तवद् भवति, यथा शक्यते कर्तुं ङ्याप् प्रातिपदिकात् ४।१।१ इति स्वादिविधिः। वृक्षौ इत्यत्र सुबौकारः असुबकारः, तयोः सुबसुपोरेकादेशः सुपः आदिवद् भवति, यथा शक्यते वक्तुं सुबन्तं पदम् इति। वर्णाश्रयविधौ अयम् अनतादिवद्भावो निस्यते। तथा हि खट्वाभिः इत्यत्र अन्तवद्भावाभावाततो भिस ऐस् ७।१।९ इति न भवति। ह्वयतेः जुहाव इति सम्प्रसारणपूर्वत्वस्य आदिवद्भावाहावातात औ णलः ७।१।३४ इति न भर्वात। अस्यै अश्वः, अस्या अश्वः इति वृद्धिरेचि ६।१।८५ इति वृद्धिः, एङः पदान्तादति ६।१।१०५ इत्यत्र विधौ आदिवन् न भवति। पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्तयते। तत्र अवयवयोरानुमानिकं स्थानित्वम् इति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्तम् इत्यन्तादिवद्भावो विधीयते।
लघु-सिद्धान्त-कौमुदी
अन्तादिवच्च ४१, ६।१।८२

योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
न्यासः
अन्तादिवच्च। , ६।१।८२

अन्तादिवदित्युक्ते न ज्ञायते--कोऽस्यातिदेशस्यार्थ इत्यतस्तत्परिज्ञानायाह--"यथा" इत्यादि। "इत्येषोऽतिदेशस्यार्थः" इति। इतिशब्द्वोऽतिक्रान्तप्रत्यवमर्शी-अतिदिश्येऽनेनेत्यतिदेशः, स पुनः "अन्तदिवच्च" इत्येष एव योग इत्येषोऽनन्तरोक्तोऽस्यातिदेशस्यार्थ इत्यर्थः। "वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते" इति। कथमेतज्ज्ञायते? इत्याह--"तथाहि" इत्यादि। "ओभिस ऐस्? ७।१।९ इत्यकारवर्णाश्रयो विधिः; तत्र कत्र्तव्ये खट्वाभिरित्यत्र सवर्णदीर्घत्वं पूर्वस्यानतवन्न भवति। "आत औ णलः" ७।१।३४ इत्याकारवर्णाश्रयोऽयं विधिः। तत्र कत्र्तव्ये वर्णाश्रये जुहावेत्यत्र "अभ्यस्तस्य च" (६।१।३३) इति ह्वयतेः सम्प्रसारणे कृते यत्? पूर्वरूपत्वमाकारस्य तन्नादिवद्भवकति। एङः पदान्तादति" ६।१।१०५ इत्येष विधिरेङ्वर्णाश्रयः। तत्र कत्र्तव्ये--अस्यै अ()आ इत्यत्र "आटश्च" ६।१।८७ इति वृद्धिः परस्यादिवन्न भवति, तदभावादायादेशः, "लोपः शाकल्यस्य" ८।३।१९ इति यकारलोपः, तत्? किमेतद्वक्तव्यम्()--वर्णाश्रये नान्तादिवदिति? न वक्तवयम्() कथम्()? अताद्रूप्यातिदेशात्()। नेह ताद्रूप्यमतिदिश्यते, रूपाश्रयाश्चैते विषयः, तेनाताद्रूप्यान्न भविष्यन्ति। किमर्थं पुनरयमन्तादिवद्भावो विधीयते, यावता पूर्वपरावुक्तावेकादेशस्य स्थानिनौ, अत्र स्थानिवद्भावादेव तदाश्रयं कार्यं भविष्यति? इत्यत आह--"पूर्वपरसमुदाय एकादेशस्य स्थानी" इति। कथं ज्ञायते? इत्याह--"स हि" इत्यादि। येन हि यो निवर्त्त्यत आदेशेन स तस्य स्थानीति, तद्यथा--"अस्तेर्भूः" २।४।५२ इति। अत्र भूवोऽस्तिः, समुदायश्चेहैकादेशेन निर्वर्त्त्यत इति स एव तस्य स्थानी, न पूर्वपरौ समुदायिनौ। स्यादेतत्()--अवयवस्य समुदायाभ्यान्तरत्वात्? समुदाय आदेशेन निवर्त्त्यमानेऽवयवावपि निवर्त्त्येते, तस्मात्? तयोरपि स्थानित्वम्()? इत्यत आह--"तत्र" इत्यादि। इतिकरणौ द्वावपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्? स्थानित्वं तदानुमानिकम्(), समुदाय एकादेशस्य आदेशेन निवर्त्त्यमाने तयोरपि निवत्र्तनं नान्तरीयकमिति कृत्वा। न हि विनावयवनिवत्र्तनेन समुदायः शक्यते निवर्तयितुम्(), तस्य तदात्मकत्वात्()। समुदायस्य तु प्रत्यक्षंस्थानित्वम्()। "पूर्वपरयोः" इति स्थानषष्ठ()न्तस्य साक्षाच्? श्रवणात्? "श्रुतानुमितयोः श्रौतः सम्बन्धो गरीयान्()" (चां।प।पा।४९) इति "स्थानिवदादेशोऽनल्विधौ" (१।१।५६) इत्यनेन यस्य प्रत्यक्षं साक्षात्? श्रुतम्(), स्थानित्वं तदाश्रयमेव कार्यमादेशे विधीयते। अवयवयोश्चानुमानिकं स्थानित्वं न प्रत्यक्षम्(), अतस्तदाश्रयं कार्यं नातिदिश्यते। तेन तदाश्रयं कार्यं स्थानिवद्भावादेशे न प्राप्नोति, इष्यते च। तदर्थमयमन्ताविवद्बावो विधीयते॥
बाल-मनोरमा
अन्तादिवच्च ७६, ६।१।८२

अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाह-अन्तादिवच्च। एकः पूर्वपरयोरिति सूत्रमनुवर्तते। यथासंख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः। ततश्च पूर्वपरयोर्भवन्नेक आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते। यद्यपि एकादेशस्य द्वौ वर्णौ स्थानिनौ-पूर्वः परश्च, तयोश्च वर्णयोः प्रत्येकमेकत्वादखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम्, तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य योऽन्तः। प्रथमस्थानी तत्कार्यकारी भवति। द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिर्द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः। तत्र पूर्वान्तवत्त्वे यताक्षीरपेण। क्षीरप-इनेति स्थिते "आद्गुण" इत्येकादेश एकारः। तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदेण इति णत्वं भवति। अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेम प्रवर्तमानस्य णत्वस्य स्थान्यलाश्रयत्वात्। यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्वविधिराश्रयति, पकारादकारं स्थान्यलं तु तद्विशेषणीभूताऽच्वेनाश्रयति, तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव, यथाकथञ्चित्स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात्। अन्यता प्रतिदीव्येत्यत्र क्त्वादेशं ल्यपं स्थानिगतवलाद्यर्थधातुकत्वेनाश्रित्येडागमेकर्तव्येऽनल्विधाविति निषेधानुपपत्तिः, तत्र वलः प्राधान्येनाश्रयणाऽभावात्। एतेन स्थानिवत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम्। परादिवत्त्वे यथा-खट्वा। अत्र खट्वाशब्दादजाद्यतष्टाप्। सवर्णदीर्घः आकारः। तस्य परादिवत्त्वेन टाप्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः। इदमपि स्तानिवद्भावेन अनिर्वाह्रम्। हल्ङ्यादिलोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात्। नचैवं सति यजेर्लङि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्रेकारे परे सवर्णदीर्घः स्यादिति वाच्यम, इह हि अल्समुदायधर्मास एव प्रातिपदिकत्व-सुबन्तत्व-प्रत्ययत्वादयोऽतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वह्यस्वत्वादयः। उक्तञ्च भाष्ये-"न वा अताद्रूप्यातिदेशा"दिति। अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण।

तत्त्व-बोधिनी
अन्तादिवच्च ६३, ६।१।८२

अन्तादिवच्च। इह "एकः पूर्वपरयोः" इत्यनुवर्तते, यथासङ्ख्यं चाश्रीयत इत्यभिप्रेत्याह-पूर्वस्यान्तवदिति। स्थानिवत्सूत्रेणैव गतार्थमिदम्। न चाल्विध्यर्थमिदमस्त्विति शङ्क्यम् ; अस्याऽप्यल्विधावनिष्टत्वात्। अन्यथा "अयजे इन्द्र"मित्यत्र सवर्णदीर्घापत्तेः।