पूर्वम्: ६।१।८७
अनन्तरम्: ६।१।८९
 
प्रथमावृत्तिः

सूत्रम्॥ उपसर्गादृति धातौ॥ ६।१।८८

पदच्छेदः॥ उपसर्गात् ५।१ ६।२।९१ ऋति ७।१ धातौ ७।१ ६।२।९१ वृद्धिः १।१ ८९ आत् ५।१ ८४ एकः १।१ ८१ पूर्व-परयोः ६।२ ८१ अचि ७।१ ७४ संहितायाम् ७।१ ७०

अर्थः॥

अवर्णान्तात् उपसर्गात् ऋकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशः भवति, संहितायां विषये॥ {आद् गुणः(६।१।८४)} इत्येतस्य अपवादः अयम्।

उदाहरणम्॥

उप + ऋच्छति = उपार्च्छति। प्र + ऋच्छति = प्रार्च्छति। उप + ऋध्नोति = उपार्ध्नोति॥
काशिका-वृत्तिः
उपसर्गादृति धातौ ६।१।९१

आतित्येव। अवर्णान्तादुपसर्गातृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति। आद्गुणापवादः। उपार्च्छति। प्रार्च्छति। उपार्ध्नोति। उपसर्गातिति किम्? खट्वर्च्छति। मालर्च्छति। प्रगता ऋ च्छका अस्माद् देशात् प्रर्च्छको देशः। यत्क्रियायुक्ताः प्रादयः तं प्रति गत्युपसर्गसंज्ञकाः इति। ऋति इति किम्? उप इतः उपेतः। तपरकरणम् किम्? उप ऋकरीयति उपर्कारीयति। वा सुप्यापिशलेः ६।१।८९ इति विकल्पः स्यात्। उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम्। ऋत्यकः ६।१।१२४ इति हि शाकल्यस्य प्रक्र्तिभावः प्राप्नोति।
लघु-सिद्धान्त-कौमुदी
उपसर्गादृति धातौ ३७, ६।१।८८

अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
न्यासः
उपसर्गादृति धातों। , ६।१।८८

"उपाच्र्छति" इति। "ऋच्छ गतन्द्रियप्रलयमूर्तिभावेषु" (धा।प।१२९६) "प्रगता ऋच्छका अस्माद्देशात्? प्रच्छको देशः" इति। अत्र "यं प्रति क्रियायुक्ता प्रादयस्तं प्रत गत्यपसर्गसंज्ञका भवन्ति" इति गमिं प्रति प्रशब्दो गत्युपसर्गसंज्ञकः, न ऋच्छतिं परतीति भवति प्रत्युदाहरणमिदम्()। "वा सुप्यापिशलेरिति विकल्पः स्यत्" इति। एतेनोत्तरार्थतां तपरकरणस्य दर्शयति। अथ धातग्रहणं किमर्थम्(), यावत सम्बन्धिशब्दा हि नियतं प्रतयोगिनमुपस्थापयन्ति, तद्यथा--पुत्रादशब्दाः, उपसर्गश्चायं धात्वपेक्षत्वात्? सम्बन्धिशब्दः तत्रोपसर्गग्रहणादेव धातुग्रहणं सिध्यति? अत आह--"उपसर्गग्रहणादेव" इत्यादि। यदि धातुग्रहणं न क्रयेत, तदा पराच्र्छतीत्यत्र "ऋत्यकः" (६।१।१२८) इति परत्वात्? शाकल्यस्य मतेन परकृतवद्भावः ल्यात्()। तस्मात् तस्य शाकल्यस्य प्रकृतिवद्भावस्य निवृत्त्यर्थं धातुग्रहणं क्रियते। कथं पुनः क्रियमाणे धातग्रहणे शाकल्यस्य प्रकृतवद्भावनिवृत्तिर्लभ्यते? योगविभागकारणात्()। सति हि धातुग्रहणे योगविभागः क्रियते--उपसर्गावृत्ति वृद्धिर्भवतीति; ततो धाताविति, इहोपसर्गादिति वत्र्तते। ततो द्वितीयो योगो बाधकबाधनार्थो विज्ञायते। अथ "उपसर्गाच्छन्दसि धात्वर्थे" ५।१।११७ इत्यत्र यथा प्राद्युपलक्षणार्थमुपसर्गग्रहणं विज्ञायते, तथेहापि कस्मान्न विज्ञायेत? अशक्यत्वात्()। "उपसर्गाच्छन्दसि धात्वर्थे" इत्यत्र हि धातोरुपस्थानं न सम्भवतीति युक्तं प्राद्युपलक्षणार्थमुपसर्गग्रहणम्()। इह हि धातोरुपस्थानं सम्भवतीत्ययुक्तम्()॥
बाल-मनोरमा
उपसर्गादृति धातौ ७५, ६।१।८८

उपसर्गादृति। आद्गुण इत्यत आदिति पञ्चम्यन्तमनुवर्तते। तच्च उपसर्गाविशेषणम्, अतस्तदन्तविधिः। अकारान्तादिति लभ्यते। ऋतीति धातोर्विशेषणम्। यस्मिन्विधिरिति तदादिविधिः। ऋकारादाविति लभ्यते। वृद्धिरेचीत्यतो वृद्धिरिति चानुवर्तते। "एकः पूर्वपरयो"रित्यधिकृतम्। तदाह--अवर्णान्तादित्यादिना। एकादेश इति। "पूर्वपरयोरचो"रिति शेषः। अन्यथा उपसर्गस्य धातोश्च सर्वादेशः स्यात्। उपाच्र्छति प्राच्र्छतीति। उप ऋच्छतिं प्रऋच्छति इति स्थिते गुणे प्राप्तेऽनेन वृद्धी-रपरत्वम्।

तत्त्व-बोधिनी
उपसर्गादृति धातौ ६२, ६।१।८८

उपसर्गादृति। उपसर्गात्किम्?, खट्वच्र्छति। ऋति किम्?, उपेतः। तपरकरणमुत्तरार्थम्। इह दीर्घर्कारादेर्धातोरसंभवेन व्यावर्त्त्याऽलाभात्। धातौ किम्?, उपर्कारः। नन्वत्र "उपेत्युपसर्ग एव न भवति, क्रियायोग एवोपसर्गत्वात्। उपगत ऋकार इति विगृह्र क्रियायोगत्वसंपादनेऽपि "यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञः" इति ऋकारं प्रति अनुपसर्ग एव। तथा चाऽकृतेऽपि धातुग्रहणे ऋकारादिधातावेव वृद्धिर्भविष्त्यनुपसर्गेण धातोराक्षेपात्, नत्वत्रेति चेत्सत्यम्; अतएव "योगविभागेन पुनर्विधानार्थ"मित्यनुपदं वक्ष्यतीति न काप्यनुपपत्तिः।